Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 319
________________ रत्नप्रभसूरिविरचिता [II. § 9 : Verse 38 1 १९) एतत्संलपत्तदाकर्णितं चण्डसोमेन । अत्रान्तरे स प्रतिभणितस्तया तरुण्या । 'परिज्ञातं मया 1 यत्त्वं दक्षो दाक्षिण्यशिरोमणिस्त्यागी भोगी प्रियंवदः कृतज्ञः परं प्रकृत्यैव मम पतिश्चण्डः । एतच्च 3 श्रुत्वा चण्डशब्दाकर्णन जाताशङ्केन चिन्तितं चण्डसोमेन । 'नूनं सैषा दुराचारा मम भार्या मामिहागतं 8 परिशायैतेन संकेतितविटेन समं मन्त्रयन्ती मां न पश्यति ।' युवा प्राह पतिस्तेऽस्तु चण्डः सोमो ऽथवा यमः । इन्द्रो वाद्य मया सार्धं त्वया संगम्यमेव च ॥ ३८ 6 भणितं तरुण्या | 'यद्येवं तव निश्चयस्तयावन्मम पतिरिह स्थितः कस्मिन्नपि प्रदेशे प्रेक्षां वीक्षते तावदहं 6 निजगृहं व्रजामि । पुनस्त्वया मम मार्गलग्नेन समागन्तव्यम्' इति भणित्वा सा तरुणी रङ्गतो निर्गता । चिन्तितं चण्डसोमेन । 'अये, सैवैषा दुष्टप्रकृतिर्येन भणितमेतया मम पतिश्चण्डः । यावदेतश्चण्ड9 सोमश्चिन्तयति तावदिदं नव्या गीतम् । इष्टं यन्मानुषं यस्य तदन्येन रमेत चेत् । स जाननेवमीर्ष्यालुरादत्ते तस्य जीवितम् ॥ ३९ एवं च निशम्येर्ष्यालुना चण्डसोमेन परिस्फुरदधरेण चिन्तितम् । कस्मिन् स दुराचारः सा च 12 दुःशीला व्रजति । अवश्यं तच्छिरो लुनामि ।' इति चिन्तयन् स समुत्थाय क्रोधाध्मातहृदयः स्ववेश्म 12 प्रविश्य बहलतम साच्छादिते भूभागे गृहफलहकस्य पाश्चात्यपक्षे कोटिप्रहरणसज्जः स्थितः । 27 (१०) इतच प्रेक्षणे निवृत्ते गृहफलहकद्वारे लघुभ्राता स्वसा च प्रविशन्तौ चण्डसोमो वीक्षांचक्रे । 16 तेन च कोपान्धतमसाच्छादितविवेकचक्षुषाविचार्य परलोकमवगणय्य लोकापवादं परित्यज्य नीति 10 कोटिशस्त्रेण लघुसोदरः स्वसा च निहतौ । द्वावपि धरातले पतितौ । सैषा मम प्रियाप्रियकारिणी सैष पुरुषो दुःशील इति यावत्तस्य शिरच्छिनीति चिन्तयन् कोटिप्रहरणमुद्गीर्य चण्डसोमः प्रधावितस्ता18 वत्कोटि फलहके रणन्ती लग्ना, तच्छब्दाकर्णनमात्रेणास्य प्रतिबुद्धा भार्या नन्दिनी । भणितं ससंभ्रमया 18 तया । 'हा निर्धर्म, किमेतस्याध्यवसितमिति । हतः कनीयान् भ्राता भगिनी च ।' एतन्निशम्य ससंभ्रमं यावद्विलोकयति तावद्वन्धुर्भगिनी च मृर्ति प्रापतुः । ततः संजातगुरुपश्चात्तापेन तेन चिन्तितम् । 'हा हा, 21 मया अकार्य कृतं कोपवशतः ।' इति चिरं विलप्य मूर्च्छा निमीलिताक्षः पृथ्वीपीठे लुलोठ । नन्दिन्यपि 21 'देवरं ननान्दरं च' इति भणित्वास्तोकशोकशङ्कुव्यथितहृदया बहुधा रुरोद । ततः क्षणमात्रलब्धचैतन्यश्चण्डसोमः 'हा बन्धुरगुणग्रामाभिराम सदाचार, हा श्रीसोमे भगिनि, युवां विना सदाधारमपि 24 निराधारं जगत्समभूत्' इति चिरं विललाप | 14 36 39 42 असावकृत्य कारीत्यद्रष्टव्यवदनो द्विजः । हियेव द्विजराजो ऽस्ताचलात्पतितुमुद्यतः ॥ ४० तत्तदाक्रन्दमाकर्ण्य स्त्रीत्वान्मृदुलमानसा । रजनी तारकव्याजादिवाश्रूणि विमुञ्चति ॥ ४१ ततः क्रोधादिवा ताम्रस्तमः शत्रुं क्षयं नयन् । प्रपातयन् कराँश्चण्डान् सूर्यो नृप इवोदितः ॥ ४२ ११) अथ स जल्पितो जनेन 'भो चण्डसोम, एवं विलापं मा कार्षीः' । ततः स विलपन्नेव 'हा बान्धव, हा भगिनि' इति निःसृत्य श्मशानभूमौ चिताज्वलनज्वालावलीं कृत्वा प्रवेष्टुं यावश्चण्डसोमः प्रारेमे 30 ताषड्रामजने 'गृहीत गृहीत द्विजं पतन्तम्' इति वदति चण्डसोमो बलिभिर्नरैर्धृतः । अथ द्विजैरुक्तः 'किं 30 प्राणान् वृथा त्यजसि, प्रायश्चित्तं विरचय' । चण्डसोम उवाच । विप्राः, तद्दीयतां मे ।' प्राहैको ऽधमकामेन कृतं तेनैव शुद्ध्यति । परः प्राह जिघांसन्तं निघ्नन्न ब्रह्महा भवेत् ॥ ४३ 33 ऊचे ऽभ्यः कृते पापे क्रोध एवापराध्यति । परो ऽवदद्भवेच्छुद्धो ब्राह्मणानां निवेदिते ॥ ४४ कश्चिदूचे कृतं पापमज्ञानान्न हि दोषकृत् । प्राहान्यो देहि सर्वस्वं द्विजानां स्वस्य शुद्धये ॥ ४५ मुण्डयित्वा ततो मुण्डतुण्डे भिक्षां भ्रमन् सदा । करपात्रीं करे बिभ्रद् गच्छ त्रिदशदीर्घिकाम् ॥ ४६ इत्थं मिथो विरुद्धानि श्रुत्वा तेषां वचांस्ययम् । मां चतुर्ज्ञानिनं मत्वा तान् विहाय समागमत् ॥ ४७36 ततोऽत्र चिन्त्यतां तीर्थस्नानैः शुद्धिः कथं भवेत् । जलेनाङ्गमलो याति न लग्नं पापमात्मनि ॥ ४८ यदि स्नानात्स्मृतेर्वापि गङ्गा हरति कल्मषम् । जायते जलजन्तूनां तत्कदापि न कल्मषम् ॥ ४९ यदि स्मरणमात्रेण जगत्पूतं भवेदिदम् । अहो तन्मोह एवायं यज्जलेनात्मशोधनम् ॥ ५० इदं वाक्यं विचारं न सहते हि महात्मनाम् । परं जनेन मूढेन प्रसिद्धिं गमितं परम् ॥ ५१ रागद्वेषविहीनेन यदुक्तं सर्ववेदिना । मनःशुद्ध्या कृतं तद्धि पापप्रक्षालनक्षमम् ॥ ५२ श्रुत्वेति चण्डसोमः स्वं वृत्तान्तं प्राञ्जलिः प्रभुम् । प्रणम्य प्राह सत्यं तद् यदाख्यातं विभो त्वया ॥ ५३ 42 2 ) ० परं मम पतिः प्रकृत्यैव चण्ड:- 17 ) PB प्रहरणमुद्भूर्य 28 ) Po 'भोश्वण्डसोम, B ततः स विलापावलिप्त चेतागृहमथ सनि:सुत्य 29 ) P स्मशान - 30 ) B बलिभिनीं 40 ) Pom. 2nd परम् 9 Jain Education International For Private & Personal Use Only 24 27 33 39 www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394