________________
रत्नप्रभसूरिविरचिता
[II. § 9 : Verse 38
1
१९) एतत्संलपत्तदाकर्णितं चण्डसोमेन । अत्रान्तरे स प्रतिभणितस्तया तरुण्या । 'परिज्ञातं मया 1 यत्त्वं दक्षो दाक्षिण्यशिरोमणिस्त्यागी भोगी प्रियंवदः कृतज्ञः परं प्रकृत्यैव मम पतिश्चण्डः । एतच्च 3 श्रुत्वा चण्डशब्दाकर्णन जाताशङ्केन चिन्तितं चण्डसोमेन । 'नूनं सैषा दुराचारा मम भार्या मामिहागतं 8 परिशायैतेन संकेतितविटेन समं मन्त्रयन्ती मां न पश्यति ।'
युवा प्राह पतिस्तेऽस्तु चण्डः सोमो ऽथवा यमः । इन्द्रो वाद्य मया सार्धं त्वया संगम्यमेव च ॥ ३८ 6 भणितं तरुण्या | 'यद्येवं तव निश्चयस्तयावन्मम पतिरिह स्थितः कस्मिन्नपि प्रदेशे प्रेक्षां वीक्षते तावदहं 6 निजगृहं व्रजामि । पुनस्त्वया मम मार्गलग्नेन समागन्तव्यम्' इति भणित्वा सा तरुणी रङ्गतो निर्गता । चिन्तितं चण्डसोमेन । 'अये, सैवैषा दुष्टप्रकृतिर्येन भणितमेतया मम पतिश्चण्डः । यावदेतश्चण्ड9 सोमश्चिन्तयति तावदिदं नव्या गीतम् ।
इष्टं यन्मानुषं यस्य तदन्येन रमेत चेत् । स जाननेवमीर्ष्यालुरादत्ते तस्य जीवितम् ॥ ३९ एवं च निशम्येर्ष्यालुना चण्डसोमेन परिस्फुरदधरेण चिन्तितम् । कस्मिन् स दुराचारः सा च 12 दुःशीला व्रजति । अवश्यं तच्छिरो लुनामि ।' इति चिन्तयन् स समुत्थाय क्रोधाध्मातहृदयः स्ववेश्म 12 प्रविश्य बहलतम साच्छादिते भूभागे गृहफलहकस्य पाश्चात्यपक्षे कोटिप्रहरणसज्जः स्थितः ।
27
(१०) इतच प्रेक्षणे निवृत्ते गृहफलहकद्वारे लघुभ्राता स्वसा च प्रविशन्तौ चण्डसोमो वीक्षांचक्रे । 16 तेन च कोपान्धतमसाच्छादितविवेकचक्षुषाविचार्य परलोकमवगणय्य लोकापवादं परित्यज्य नीति 10 कोटिशस्त्रेण लघुसोदरः स्वसा च निहतौ । द्वावपि धरातले पतितौ । सैषा मम प्रियाप्रियकारिणी सैष पुरुषो दुःशील इति यावत्तस्य शिरच्छिनीति चिन्तयन् कोटिप्रहरणमुद्गीर्य चण्डसोमः प्रधावितस्ता18 वत्कोटि फलहके रणन्ती लग्ना, तच्छब्दाकर्णनमात्रेणास्य प्रतिबुद्धा भार्या नन्दिनी । भणितं ससंभ्रमया 18 तया । 'हा निर्धर्म, किमेतस्याध्यवसितमिति । हतः कनीयान् भ्राता भगिनी च ।' एतन्निशम्य ससंभ्रमं यावद्विलोकयति तावद्वन्धुर्भगिनी च मृर्ति प्रापतुः । ततः संजातगुरुपश्चात्तापेन तेन चिन्तितम् । 'हा हा, 21 मया अकार्य कृतं कोपवशतः ।' इति चिरं विलप्य मूर्च्छा निमीलिताक्षः पृथ्वीपीठे लुलोठ । नन्दिन्यपि 21 'देवरं ननान्दरं च' इति भणित्वास्तोकशोकशङ्कुव्यथितहृदया बहुधा रुरोद । ततः क्षणमात्रलब्धचैतन्यश्चण्डसोमः 'हा बन्धुरगुणग्रामाभिराम सदाचार, हा श्रीसोमे भगिनि, युवां विना सदाधारमपि 24 निराधारं जगत्समभूत्' इति चिरं विललाप |
14
36
39
42
असावकृत्य कारीत्यद्रष्टव्यवदनो द्विजः । हियेव द्विजराजो ऽस्ताचलात्पतितुमुद्यतः ॥ ४० तत्तदाक्रन्दमाकर्ण्य स्त्रीत्वान्मृदुलमानसा । रजनी तारकव्याजादिवाश्रूणि विमुञ्चति ॥ ४१ ततः क्रोधादिवा ताम्रस्तमः शत्रुं क्षयं नयन् । प्रपातयन् कराँश्चण्डान् सूर्यो नृप इवोदितः ॥ ४२
११) अथ स जल्पितो जनेन 'भो चण्डसोम, एवं विलापं मा कार्षीः' । ततः स विलपन्नेव 'हा बान्धव, हा भगिनि' इति निःसृत्य श्मशानभूमौ चिताज्वलनज्वालावलीं कृत्वा प्रवेष्टुं यावश्चण्डसोमः प्रारेमे 30 ताषड्रामजने 'गृहीत गृहीत द्विजं पतन्तम्' इति वदति चण्डसोमो बलिभिर्नरैर्धृतः । अथ द्विजैरुक्तः 'किं 30 प्राणान् वृथा त्यजसि, प्रायश्चित्तं विरचय' । चण्डसोम उवाच । विप्राः, तद्दीयतां मे ।'
प्राहैको ऽधमकामेन कृतं तेनैव शुद्ध्यति । परः प्राह जिघांसन्तं निघ्नन्न ब्रह्महा भवेत् ॥ ४३ 33 ऊचे ऽभ्यः कृते पापे क्रोध एवापराध्यति । परो ऽवदद्भवेच्छुद्धो ब्राह्मणानां निवेदिते ॥ ४४ कश्चिदूचे कृतं पापमज्ञानान्न हि दोषकृत् । प्राहान्यो देहि सर्वस्वं द्विजानां स्वस्य शुद्धये ॥ ४५ मुण्डयित्वा ततो मुण्डतुण्डे भिक्षां भ्रमन् सदा । करपात्रीं करे बिभ्रद् गच्छ त्रिदशदीर्घिकाम् ॥ ४६ इत्थं मिथो विरुद्धानि श्रुत्वा तेषां वचांस्ययम् । मां चतुर्ज्ञानिनं मत्वा तान् विहाय समागमत् ॥ ४७36 ततोऽत्र चिन्त्यतां तीर्थस्नानैः शुद्धिः कथं भवेत् । जलेनाङ्गमलो याति न लग्नं पापमात्मनि ॥ ४८ यदि स्नानात्स्मृतेर्वापि गङ्गा हरति कल्मषम् । जायते जलजन्तूनां तत्कदापि न कल्मषम् ॥ ४९ यदि स्मरणमात्रेण जगत्पूतं भवेदिदम् । अहो तन्मोह एवायं यज्जलेनात्मशोधनम् ॥ ५० इदं वाक्यं विचारं न सहते हि महात्मनाम् । परं जनेन मूढेन प्रसिद्धिं गमितं परम् ॥ ५१ रागद्वेषविहीनेन यदुक्तं सर्ववेदिना । मनःशुद्ध्या कृतं तद्धि पापप्रक्षालनक्षमम् ॥ ५२ श्रुत्वेति चण्डसोमः स्वं वृत्तान्तं प्राञ्जलिः प्रभुम् । प्रणम्य प्राह सत्यं तद् यदाख्यातं विभो त्वया ॥ ५३ 42 2 ) ० परं मम पतिः प्रकृत्यैव चण्ड:- 17 ) PB प्रहरणमुद्भूर्य 28 ) Po 'भोश्वण्डसोम, B ततः स विलापावलिप्त चेतागृहमथ सनि:सुत्य 29 ) P स्मशान - 30 ) B बलिभिनीं 40 ) Pom. 2nd परम्
9
Jain Education International
For Private & Personal Use Only
24
27
33
39
www.jainelibrary.org