________________
*13
-II. $ 8 : Verse 37]
कुवलयमालाकथा २ मातङ्गस्पर्शने शुद्धिः सुवर्णपयसा नृणाम् । न पुनः कोपचाण्डालसांगत्ये स्यात्कथंचन ॥ २७ 1 नितान्तं स्तिमितं यस्य स्वान्तं शान्तरसार्णमा । न कदापि स्फुरेत्तस्य कोपाटोपहुताशनः ॥२८ जिनाम्बुदसमुद्भुतप्रशमामृतयोगतः। यः क्रोधाग्निं शमयति तस्य धर्मवनं स्थिरम् ॥ २९
यदि क्रोधो भवेन्नैष कदाचन शरीरिणाम् । तदवश्यं कराम्भोजवासिन्यः स्युः शिवधियः॥ ३० अत्यन्तकोपमहातमःप्रसरान्धीकृतस्वान्तो भ्रातरं भगिनीमपि हन्ति, यथायं पुरो निविष्टः पुरुषः।' नृपेणोक्तम् । 'प्रभो, वयं न जानीमः को ऽप्येष पुरुषः, कीदृक्षा, किं चैतेन कृतम्' इति । ततो गुरुणा-6 भाणि । 'य एष तव वामो मम दक्षिणपाचे स्थितस्त्रिनयनगलगवलकजलाभो गुलाफलरक्तनयनो भ्रकुटीमनभीषणास्यो रोषस्फुरदधरोष्ठपुटो दृढकठिननिष्ठुराको मूर्तिमान् कोप इव संप्राप्तः। एतेन कोपवशवचसा यनिर्मितं तदाकर्ण्यतामिति ।
७) अस्ति वसुधावामाक्ष्या एकं कुण्डलमिवोत्तप्तकनकमयप्राकारगम्भीरपरिखापरिवृता काञ्ची नगरी । तस्याः पूर्वदक्षिणदिग्विभागे त्रिगष्यतिमात्रे रगडानाम संनिवेशो ऽस्ति । तत्र सुशर्मदेवो 12 द्विजः परिवसति । पत्नी सुशर्मा । तस्य च रुद्रसोमाभिधो ज्येष्ठपुत्रः । तस्य लघुभ्राता सोमदेवः । 12
तयोः स्वसा श्रीसोमा च । स तु रुद्रसोमो बाल्यादेव चण्डश्चपलो ऽसहनो गर्वोद्धरकन्धरः स्तब्धोऽतिकर्कशवचाः सर्वदा सर्वडिम्भान्निरागसो ऽपि रथ्यासु परिताडयति । तस्य तादृशस्य स्वभावं 16 वीक्ष्य डिम्भैरेव चण्डसोम इति नाम गुण्यं कृतम्, तावरेश, स एषः । स कियद्रिासरै-16 रतिक्रान्तैः पित्रा ब्राह्मणकुलबालिकया नन्दिन्या सह पार्णि माहितः। तत्र पितरौ कुटुम्बभारमारोप्य
मन्दाकिनीतीर्थयात्राकृते निर्गतौ। चण्डसोमः क्रमेण यौवनश्रियमलंचके । ततः सा नन्दिनी च 18 यद्यप्यखण्डितशीलवता तथापि तां तारुण्यपुण्यावयवरमणीयां वीक्षमाणश्चण्डसोमः स्वमनसि न 18 विश्वसिति । ततो नरनाथ, तस्या उपरि किंचिद्रागमुद्वहतस्तस्य कोऽपि कालो व्यतिचक्राम । अथान्यदा
तत्र शरलक्ष्मीरवततार। 21 अभवन् सर्वतो यस्यां दिशः सर्वा विकस्वराः। कुमुदिन्यः प्रमोदिन्यः सदाकाशा विकासिनः ॥ ३१३१
अतुच्छस्वच्छतापात्रमाद्रियेत जनैर्जनः। यस्यामितीव जातानि निर्मलानि जलान्यपि ॥ ३२
यत्र स्वागतमप्रच्छि मरालानामुपेयुषाम् । सरोभिनलिनीगन्धलब्धालिकुलनिःस्वनैः॥३३ 34 सप्तच्छदेषु चिक्रीडुर्विमुच्य करिणां कटान् । मधुपा यत्र नैकत्र स्थायिनो मलिना यतः ॥ ३४ 24
यत्र चञ्चलकल्लोलभुजाभिरभिवादनम् । घनात्ययश्रियःप्रीत्या तन्वन्तीव जलाशयाः॥ ३५
निष्पुण्यानामिव धनं सरितां नीरमत्रुटत् । यत्र धान्यान्यवर्धन्त कार्याणीवार्यचेतसाम् ।। ३६ 27६८) अन्यदा तत्र ग्रामे नटपेटकमेकं ग्रामानुग्रामं परिभ्रमत् समाजगाम । तेन सर्वोऽपि ग्राम 27 प्रेक्षावीक्षार्थमभ्यर्थितः। ततस्ते च ग्राम्या रजन्याः प्रथमे यामे व्यतीते प्रशान्ते कलकले मृदङ्गध्वनिमाकण्ये गन्तुं प्रवृत्ताः। एष चण्डसोमः 'खकलत्रपरित्राणं कथं करोमि' इति व्यचिन्तय 30 तावन्नटं द्रष्टुं गच्छामि ततः कथं जायायाः परित्राणम, यदि वल्लभाया रक्षणं तदा मम न प्रेक्षण-30
क्षणनिरीक्षणम्, 'इतस्तटी इतो व्याघ्रः' इति न्यायादनल्पविकल्पमालाकुलितमनाः किं रचयामि, भार्यात्मना सह नेतुं न युज्यते, तस्सिन् रङ्गे युवशतसंकुलो ग्रामः । सो ऽपि मम भ्राता तत्र गतो 33 भविष्यति । तावद् यद्भवति तद्भवतु । एतस्याः श्रीसोमाया भगिन्या एतां समर्प्य व्रजामि।' इति 33 विचार्य समय॑ च कोटिप्रहरणधरश्चण्डसोमः प्रययौ। चिरं तस्मिनिर्गते भगिन्या भणितम्। 'हले
नन्दिनि, तावन्नटनाट्यवीक्षायै गच्छावः।' नान्दिन्या भणितम् । 'हले श्रीसोमे, किं न जानासि 36 निजसोदरचेष्टितं येनैवं भणसि, न स्वजीवितस्य निर्विण्णास्मि, त्वं पुनर्ययुक्तं तत्कुरु' इति जल्पन्ती 38 स्थिता । श्रीसोमा पुनस्तत्र नाट्यं द्रष्टुं गता। तस्य चण्डसोमस्य तत्र रङ्गे प्रेक्षमाणस्य पृष्ठतः किंचिन्मिथुनं
मन्त्रयितुं प्रवृत्तम् । इति जल्पितं तरुणेन । 'भद्रे, हृदये स्वप्ने ऽपि च त्वं दृश्यसे । अद्य मनोरथशतेन 39 प्रत्यक्षं दृष्टासि।
39 त्वद्वियोगानलज्वालामालाज्वलितविग्रहम् । सांप्रतं सौयसंयोगसुधासारेण सिञ्च माम् ॥ ३७
2)P B स्तीमितं. 6)0क एष for कोऽप्येष. 11)0 गव्यत. 12) Pom. पली सुशर्मा, P Bom. च after तस्य, BP लघुोता. 16) FB सैषः, Bom. स before कियद्भि. 10) कियानपि for कोऽपि. 21) PB विकाशिनः. 24) सप्तच्छेदेषु. 29) B एष सोमचंडः स्वकलत्र. 30)P B inter न & मम. 36) B निजसहोदर. 40) Pमाल्य for माला.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org