________________
-II. 13 : Verse 66] कुवलयमालाकथा २
.15 सर्वशवाक्यस्य विशुद्धिदस्य योग्यो ऽस्यहं यद्यधभाजनो ऽपि । दीक्षां ततो देहि ममेति तेन प्रोक्ते व्रतं तस्य ददौ मुनीन्दुः ॥ ५४
। इति कोपे चण्डसोमकथा। ६१२) गुरुणा श्रीधर्मनन्दनेन पुनरप्युक्तम् । 'दुर्दमो मानमातङ्गो धर्माराम भनक्ति यः। स्वशक्तिव्यक्तितो यत्नः क्रियतां तस्य रक्षणे॥ ५५ परित्यजन्नपि क्रोधं मानवो मानवर्जितः। भवेद्भवे यदि श्रेयाश्रिया संश्रियते ततः॥५६ हिताभिलाषी यः स्वस्य तेन मानमहीधरः । मेदनीयः सदाप्युद्यन्मृदुताभिधधारया ॥ ५७ अहंकारो नदीपूर इव पुंसः कुलद्वयम् । भिनत्ति कुलद्वयवत् पद्मोच्छेदनलालसः॥ ५८ दष्टो दर्पभुजङ्गेन नरश्चैतन्यशून्यधीः । नमस्यति गुरून् कापि पुरतो न स्थितानपि ॥ ५९
मानान्धलोचनो देही चारुमार्ग न पश्यति । अतः संसारकूपान्तर्निपतत्युचितं हि तत् ॥ ६० मातरं पितरं भार्यामपि म्रियमाणामुपेक्षते मानमहागजेन्द्रपरवशः, यथैष पुरुषः।' राक्षा 12 परिजल्पितम् । 'भगवन् , अस्थां सभायामनेकलोकाकुलायां सैष पुरुष इति कथं शायते।' भणितं 12
श्रीभगवता। 'य एष मम वामस्तवदक्षिणपार्श्वे स्थितःप्रोन्नामितभ्रयुगः पृथुलवक्षस्थलो गर्वभरमुकुलितदृष्टिरुत्तप्तकनकवर्णतनुराताम्रलोचन एतेन रूपेण मूर्तो मान इव समागतः। यदेतेनामानमानमूढचेतसा 15 कृतं तदाकर्ण्यताम् । तथा हि,
15 अस्त्यवन्तीजनपदे नगरी श्रीगरीयसी। विशाला सुमनःशाला विशाला शालशालिता ॥ ६१
सुप्रापं यत्र सिप्रायाः पयः पीयूषसोदरम् । निपीय लोको न सुधापायिनो ऽपि प्रशंसति ॥ ६२ 18 यत्राभ्रंलिहहाग्रचन्द्रशालासु योषितः। राजन्ते वीक्षितुं लक्ष्मी स्वर्गवध्व इवागताः॥६३ 18
धनिनां यत्र हर्येषु सदनेषु मनीषिणाम् । वर्धते श्रीसरस्वत्योर्मिथः प्रीतिर्गतागतैः ॥ ६४ तस्या नगर्याः पूर्वोत्तरदिग्विभागे योजनमात्रप्रदेशे कूपपद्राभिधानो ग्रामः। तत्रैका पूर्व राजवंशप्रसूतो भागधेयपरिहीनः क्षत्रभटो नाम जीर्णठक्करः परिवसति। तस्य चैक एव वीरभटाख्य: 21 पुत्रो निजजीवितादप्यधिकवल्लभो ऽस्ति । अन्यदा स तं तनुजं परिगृह्योजयिन्यां प्रद्योतननृपस्य सेवाहेषाकपरो बभूव । दत्तः क्षितिपतिना तस्य स एव कूपपद्रो ग्रामः । कालेन च स क्षत्रभटो ऽनेकसमीप24 संपर्कवैरिषीरवारविदारितावयचो जराजीर्णतया चरणचडुमणाक्षमस्तमेव पुत्र वीरभर्ट भूपस्यार्पयित्वा 24
गृह एव स्थितः। तस्यापि शान्तिभटाभिधः सूनुरस्ति। सच क्रमतः क्षितिपस्य सेवां कर्तुं प्रवृत्तः। तस्य स्वभावतः स्तब्धस्यात्यन्तमानिनो यौवनगर्वितस्य प्रद्योतनराशा राजपुत्रवर्गेण च शान्तिभट इति 27 नामधेयस्य मानभट इति नाम विदधे। नरेश्वर, स एष मानभटः।'
27 ६१३) अन्यदा सदसि सर्वेषु स्वस्वस्थाननिविष्टेषु मानभटः समागमत् । ततः स्वस्वामिनः सचिवपुङ्गववर्गस्य कृतनमस्कारो निजस्थाने राजपुत्रं पुलिन्दाण्यमुपविष्टं दृष्ट्वा प्रोचिवान् । 'भोः पुलिन्द, 30 मदीयमिदमासनस्थानं समुत्तिष्ठ त्वम्' इति । पुलिन्देन भणितम् । 'अहमजाननेवेहोपविष्टस्तावत् 30
क्षमस्व ममागः, न पुनरुपविक्ष्ये । ततः 'तव मानभटस्य स्थाने पुलिन्दो निविष्टः' इति वदद्धिरपरैः स उत्तेजितः। तद्यथा।
'त्यजन्ति मानिनः सर्वे तृणवजीवितं धनम् । उज्झन्ति मानं न क्वापि मान एव महद्धनम् ॥ ६५ 33
लध्वर्कमूलवाव्यं मानं मन्दरवहरु । त्यजन्ति मानिनः पूर्व परंचन कथंचन ॥ ६६ एतज्जनवचनमाकर्ण्य क्रोधाध्मातहृदयो मानभटो निर्दयः कार्याकार्यमविचार्यानार्य व स्वमृति36 मवगणय्य कृपाण्या वक्षस्थले पुलिन्दं जघान । तं निपात्य सच सदसो निःसृत्य पुलिन्दपाक्षिकराजपुत्रेषु 36
पृष्ठिलग्नेष्वपि वेगवत्तरया गत्या स्वग्राममागम्य कृतापराधो भुजङ्गम इव स्ववेश्म प्रविश्य पितुःपुरतो
पुरतो यथावृत्तं कथयामास। तनिशम्य पितृपित्रा जल्पितम्। 'पुत्र, यत्कृतं तत्कृतमेव । अत्र पुनः 39 सांप्रतं सांप्रतं विदेशगमनम्, तदनुप्रवेशो वा । तत्र तदनुप्रवेशोन घटते, तावद्विदेश एव गम्यम् । 39
अन्यथा जीवितव्यं न। ततस्त्वरितमेव वत्स, सज्जीकुरु वाहनम् । तत्रारोप्य सकलमपि गृहसारं mammmmmmmmmmmmmmmmmm
2)P मुनींद्र:-7)P B'न्मृदुताभिदुधारया. 16) Pसुमनसःशाला. 21) एकवीरभटाख्यः. 27) नाभाऽवतस्य । नामावनम्य for नामधेयस्य, P : सैष मान. 31) Fadd:& ते before ततः. 23) उज्झते. 35) Badds पूर्व द्रव्यं परमानं before क्रोधाध्मात. 370 'मागत्य. 40) Badds on the margin the following (to come after वादनम् ।) येन तदाभिल रेवावीरे गम्यते। तेन च मानभटेन मानाध्मातमनसापि किमपि दाक्षिण्यं दधता वाहनं सज्जीकृतम्।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org