Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 331
________________ *26 रतप्रभत्रिविरचिता [II. $ 83 : Verse 1491बद्धा दक्षिणकरे वैरित्रीरवारनिशुम्भनं कृपाणरत्नमंसावलम्बितं वसुनन्दकं च कृत्वा रचितनीलपट-1 प्रावरणस्तत्सदनान्तिकमागत्य वियदुत्क्षिप्तकरणं दत्त्वा वातायनमाससाद । निर्मलप्रज्वलद्यष्टिप्रदीपप्रद्योतितावयवां पराङ्मुखीं शयनतले विनिविष्ठां तामेणलोचनामालोकत । कुमारेण पृथिव्यां वसुनन्द-3 कोपरि कृपाणं मुक्त्वा निभृतपदसंचारमुपगम्य तस्याः सुदृशो लोचने पाणिभ्यां पिहिते । ततस्तया सर्वाङ्गरोमाञ्चकचकमुद्वहन्त्या चिन्तितम् । यदद्य सर्वतो ममाझं पुलकितं बालमृणालिनीदलकोमलं कर6 किशलयं तज्जाने सैष मत्स्वान्तसर्वस्वतस्करः।' इति विमृश्य तयाभाणि 'अहो सौभाग्यनिधे,मां मुञ्च'। 6 कुमारेण हसता तन्नयनद्वयी शिथिलीचके। तया तस्य गृहागतस्य विनयवृत्त्याभ्युत्थानं विदधे। तया दत्ते प्रधाने [विष्टरे] कुमारः समुपाविशत् । कुमारेणोक्तं 'तव संगममिच्छामि । तयोदितम् । 'देव युक्तमेतत्परं कुलाङ्गनानां केवलं शीलपालनमेव हितम् ।' इत्याकर्ण्य कुमारेण जल्पितं 'यद्येवं भवती शील-9 वती ततो व्रजामि' । इत्युक्त्वा खगरत्नं वसुनन्दकं च स्वीकृत्य ससंभ्रममुत्तस्थौ । तया तं वखाञ्चले धृत्वा प्रोक्तम् । 'भद्र पारिपन्थिक इव मम हृदयं मुषित्वा कुत्र व्रजसि । यतस्त्वां बाहुलतापाशनियमित 12 करिष्ये।' इत्याकर्ण्य कुमारः स्थितः । तयोक्तम् । राजपुत्र, यदत्र परमार्थस्तं तावदाकर्णय पश्चा-12 द्यधुक्तं तत्कुर्याः। ___६३४) अस्त्येतस्यामेव कोशलायां श्रेष्ठी नन्दनाभिधः । तस्य पत्नी रत्नरेखाख्या । तत्कुक्षिसंभषा 15 सुवर्णदेवाभिधाना पित्रोरतीववल्लभा कन्यकास्मि । ततः पितृभ्यामहं विष्णुदत्तपुत्रस्य हरिदत्तस्य पाणि-15 पीडनाय प्रदत्ता । स च मामुपयम्य वाणिज्याय यानपात्रमारुह्य लङ्कापुरीमभिजग्मिवान् । तस्य प्रोषितस्याद्य द्वादशो वत्सरः सातिरेकः। विपन्नो जीवति वेति न ज्ञायते । एतं यौवनमहासागरमपारं काम18महावर्तगर्तदुस्तरं विषयमत्स्यकच्छपोत्कटमतिगहनं निरपवादमुल्लवन्यन्त्या ममेयन्ति दिनानि जातानि । 18 दुर्जेयतया विषयाणां चञ्चलतया चेन्द्रियग्रामस्यैकदा मम मानसे इति विकल्पसंकल्पमाला बभूव 'अहो जरामृत्युरोगशोकक्लेशप्रचुरे संसारे प्रियसंगमादपरं न किंचिच्छर्मास्ति, तच्च न विद्यते । ततो जागलस्तन इवारण्यमालतीकुसुममिव बधिरकर्णजाप इव निरर्थक मे जीवितम् । इति विचिन्त्य चिरं मरण-21 कृताध्यवसाया 'सुदृष्टं जीवलोकमद्य करोमि' इति यावद्वाक्षमारूढा तावत्तत्र भवितव्यतया भवान्मम लोचनगोचरं गतः। त्वां दृष्ट्वा रागपरवशा तत्कालमेव जातास्मि । त्वया च परामृष्टं हृदयम् , एकाङ्गुलि24 रुकृता । मया तदवगतं यदेतेन राजपुत्रेण मम संज्ञा कृता । हृदयपरिस्पर्शनेनेति कथितम् । 'यत्त्वं मम 24 हृदयस्याभीष्टतमा' । अङ्गल्या ऊकृतया चेति कथितं यदेकदा संगम ददस्व' इति । ततो मया तव खड्गानुकारी निजकर इति प्रदर्शितः, 'यदा किल त्वं खगबलेनैव समागच्छसि तदा तव संगमो नान्यथा' 27 इति । तदाप्रभृति राजपुत्र, तव संगमाशाबद्धमानसा को ऽपि मा शासीत्' इति वेपमाना कृतमरणनिश्चया यावदसि तावद्भवान् समायातवान् । ततः सांप्रतं विनष्टं विज्ञानम् , गलितो गुरुजनविनयः, परिमुषितं विवेकरत्नम्, विस्मृतो धर्मोपदेशो भवत्संगमेन । किंच यदि तावत्त्वया सह संगति करोमि 30 ततो मम कुलमन्दिरे दुशीलेत्येषा पराभवः स्वजनानां गुरुतरोऽपवादश्चेति । यदि लोकापवादः सह्यते 30 तदा तव ममापीप्सितं, अन्यथा मृत्युर्वरम्' इति जल्पन्ती सुदती निशाकरेणैव निशा गाढतरं कुमारेण समालिङ्गिता सफलीकृतयौवना च । प्रीत्या च दिवसे भाविस्वविरहविनोदचिह्नं निजनामाङ्कां मुद्रिका33 मेकां तस्यै स तदा ददौ । ततोऽलङ्कतदिग्विभागे संध्यारागे कुमारः सहसा तन्मन्दिरात्तेनैव प्रयोगेण 33 तद्यधागतं गतः। एवं च तस्यानुदिन प्रतिवसतस्तत्र तया सहाष्टमो मासो व्यतीयाय । तत्र च तथाविध. कर्मसंयोगेन भवितव्यतया नियोगेन सा गर्भवती बभूव । तत्सखीजननिवेदितवृत्तान्ताया रत्नरेखाया 36 मुखात् नन्दधेष्ठिना समवगत्य संजातकोपेन कोशलनरेश्वरस्य पुरो न्यवेदि । राशादिष्टम् । 'गच्छ 36 गृहेऽन्वेषयामि लग्नः । ततोराजादेशमवाप्य मन्त्रिणा सर्वत्र विलोकमानेन तोसलकुमारःप्राप्तः, विज्ञप्तं च राक्षे । ततो गुरुतरकोपस्फुरदधरेण धराधरेणादिष्टम् । सचिव, नाहमन्यायिनं पुत्रमपि सेहे, तदेनं 39 द्रुतमेव निगृहाण । सचिवो 'यदाज्ञापयति स्वामी' इति भणित्वा कुमारं केनापि व्याजेन श्मशानभूमि-39 मानिनाय । तत्र कार्याकार्यदक्षिणेन मन्त्रिणोक्तम् । 'कुमार, तव दुर्वृत्तेन तवोपरि कुपितस्ते पिता, भवान् वध्य आज्ञप्तोऽस्ति, स्वामिसुतत्वेन त्वमपि मम प्रभुः कथं त्वां व्यापादयामि । सदैवास्मि तव वंशसेवकः, 42 ततस्त्वं तथा व्रज यथा तव प्रवृत्तिरपि न श्रूयते । त्वया कापि न कथ्यं यदस्मि तोसलः।' इति भणित्वा 42 2) FB प्रज्वलयष्टि. 8) Pa om. विष्टरे. 14) B कोसलाय. 26) B inter. किलं त्वं. 30) P मत्कुलमंदिरे. 31) B निशाकरेणेव. 37)P B गृहमन्वेषयामि. 40) PB कुपितः पिता. 41) PB आज्ञप्तोसि, Prepeats (after यदस्मि) तव वैशसेवकः eto. to न कयं यदमि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394