Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 334
________________ -II. 42 : Verse 177] कुवलयमालाकथा २ *29 1एको ऽनगारचूडामणिस्तस्य दृग्गोचरमागतः । 'अमुना मुनिपतिना जल्पितम्' इति चिन्तयन्मोहदत्तः 1 श्रमणक्रमणयुगलमभिनम्य नातिदूरे निविष्टः सुवर्णदेवा वनदत्ता सखीजनश्च । ततो मोहदत्तन विज्ञप्तम् । 'भगवन् , यत्त्वं कथयसि मातुःपुरतः पितरं व्यापार स्वसारमभिरमसे तत्कथं ममायं पिता, कथमियं 3 माता, कथं चेयं स्वसा, इति ।' ततः स मुनिपतिः कोशलाया आरभ्य वृत्तं तोसलमृति यावत्तत्पुरः स्पष्टमाचष्टे । एकं तावदकृत्यं कृतं यत्त्वया पूर्व जनकस्तोसलो व्यापादितः, इदं तावद्वितीयं यत्त्वं भगिनी6 मभिवाञ्छसि । ततः सर्वथा धिर महामोहविलसितम् ।' एतन्निशम्य सुवर्णदेवा वनदत्ताप्यघोमुखी 6 बभूव। ४१) मोहदत्तोऽपि निविण्णकामभोगो महाशुचिसमं मानुषत्वं मन्यमानः प्रचुरतरवैराग्यमार्ग9 मनुलग्नो जजल्पेदम्। 'अनन्तदुःखवृक्षाणां मूलमशानमेव च । अज्ञानमेव वृजिनं भयमशानमेव च ॥ १६० ततो मुनीश, मम कथय मया सर्वथैवाधन्येन किमाचरणीयम्, येन सकलमपि पापं मूलादेव 12 विनश्यति ।' भगवता समाख्यातम् । 12 'कलत्रपुत्रमित्रादि सर्वमुत्सृज्य सर्वथा । दीक्षां भज भवाम्भोधिमङ्गिनीमङ्गिनीमिव ॥ १६१ मोहदत्तेनेति जल्पितं 'भगवन् , मां प्रव्रज्यासंगतं तर्हि तनु । मुनिनादिष्टम् । 'यदहं चारणश्रमणो न 15 गच्छप्रतिबद्धस्तेन तव व्रतं दातुमनीशः।' तथा 16 दशाट यस्य पञ्चाशद योजनानि यथाक्रमम् । विस्तारे शिखरे मूले प्रोचुः सिद्धान्तवेदिनः॥१६२ श्रीनाभिनन्दनो यत्र पवित्रितजगत्रयः। अवस्थिति स्वयं चक्रे स शैलेषु शिरोमणिः ॥ १६३ कर्माण्यपि विजृम्भन्ते यत्र तावद्वपुष्मताम् । श्रीनाभिसूनुर्नाभ्येति यावल्लोचनगोचरम् ॥ १६४ 18 कर्मभपुण्डरीकश्रीः पुण्डरीकमहामुनिः। यत्रावृतः शिवं प्राप पञ्चभिर्मुनिकोटिभिः॥ १६५ यस्मिन्नमिविनम्याख्यो विद्याधरपती तथा। मुनिकोटिद्वयीयुक्तौ परमं पदमीयतुः॥ १६६ श्रीरामभरतौ वालिखिल्यानां दशकोटयः । प्रद्युम्नादिकुमाराणां सार्धास्तिस्रश्च कोटयः॥ १६७ 21 नारदः पाण्डवाः पञ्च परे ऽपि मुनिपुङ्गवाः। यत्रापुः क्षीणकर्माणः सर्वदुःखक्षयं पदम् ॥ युग्मम् ॥ यौकस्यापि सिद्धिः स्यात् तत्तीर्थ जगदुत्तमम् । अस्य किं प्रोच्यते यत्र निर्वृता मुनिकोटयः ॥ १६९ यत्र भूमीरुहश्रेणीरमणीयसमुच्छलात् । जिनाधिस्पर्शरहितान् हसत्यन्यमहीधरान् ॥ १७० 24 स्फुरनिर्झरझात्कारैर्य एवमिव जल्पति । जनाः किमन्यतीर्थेषु भ्रमन्ते हा विहाय माम् ॥ १७१ अतीवगुप्ता यत्रास्ति शङ्के वश्यार्थमोषधी । तद्वणोति स्वयं सिद्धिःप्रकामं कामवर्जिता ॥ १७२ 27६४२) तत्र श्रीशत्रुञ्जये महातीर्थ मया गच्छना गगनतलेनावधिज्ञानतः परिक्षातं त्वया निहतं 27 जनकं, चिन्तितम् 'एकमकार्य कृतमनेन यावद्वितीयं नाचरति तावत्संबोधयाम्येनम्। 'अयं तावद्भव्यः परमनेन मोहमोहितचेतसा विहितमहितम् ।। 30 लक्षयोजनमानेन कलितं काञ्चनाचलम् । निवेशयन्ति दण्डस्य पदे ये चैकहेलया ॥ १७३ 30 स्वयंभूरमणाभिख्यं सागरं ये जिनेश्वराः। तरन्ति दुस्तरं बाहुदण्डाभ्यामपि लीलया ॥ १७४ एकेन भुजदण्डेन धरामपि सभूधराम् । आतपत्रसिव क्षिप्रं लीलयैव धरन्ति ये॥१७५ 33 त्रिलोकीतिलकास्ते ऽपि कर्मादेशवशंवदाः। किमुच्यते वराकस्य भवतो मोहदत्त ही॥ १७६ 33 __ अतो मया संप्रति वियतः समुत्तीर्य त्वं प्रतिबोधितः।' विज्ञप्तं मोहदत्तेन 'भगवन् , कथं पुनः प्रव्रज्या प्राप्या' इति । मुनिना भणितम् । 'वज त्वं कौशाम्ब्यां दक्षिणे पार्श्वे भूपतेः पुरन्दरदत्तस्योद्याने 36 समवसृतं श्रीधर्मनन्दनं मुनिप्रधान गणाधिपं द्रक्ष्यसि । तत्र स गणभृत्तमः स्वयमेव तव वृत्तान्तमवगत्य 36 दीक्षां दास्यति ।' इति वदन् कुवलयदलश्यामलं गगनतलमुत्पतितः। भोः पुरन्दरदत्तमहाराज, सैष तद्वचनं श्रुत्वा गृहवासं परित्यज्य मामन्वेषयनिहागत इति।' एवं च तदाकर्ण्य मोहदत्तेन भणितम् । 39'भगवन् , इदमित्थमेव किमपि नालीकं तावन्मां प्रवज्याभाजनं विधेहि।' श्रीधर्मनन्दमगुरुर्गुरुगीरवा) मोहव्यपोहविशदीकृतचित्तवृत्तौ । दीक्षां जिनेशगदितामथ मोहदत्ते दत्ते स्म सर्वसुखसिद्धिपदस्य बीजम् ॥ १७७ 24 39 2) PBom. ततो. 3)P Bom. कथयसि. 4) PB कोसलाया. 8) समान for सम. 10) Bom. च । भझानमेव eto. ending with च. 23) स्यात्तत्तीर्थ. 26) B'मौषधी. 27) B परिज्ञाय त्वया, PB निहित. 29) Prepeats चेतसा विहितं. 30) P om. लक्षयोजनमाने. 33) Padds लक्षयोजनमानेन कलित का before त्रिलोकीति 34) महा for मया. 37) B भो.41) PB सिद्धपदस्थ. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394