Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 333
________________ * 28 रत्नप्रभसूरिविरचिता [II.838 : Verse 1551भक्षितमिति चिन्तयन्ती तदनुमार्गमनुसरन्ती कस्मिन्नपि गोष्ठे कस्याश्चिदाभीर्या वेश्मनि समागता । तया 1 'दुहिता' इति स्थापिता। तत्र कियन्ति दिनानि स्थित्वा ग्रामानुग्रामं परिभ्रमन्ती पाटलीपुत्रं साप्या3 याता । तत्र कर्मसंयोगेन तस्मिन्नेव दूतगृहे सा प्रविष्टा । तत्र च दूतकान्तया तहुहिता तस्या एव प्रति- 3 पालनार्थमर्पिता । सुवर्णदेवा तामात्मीयां सुतामजानन्ती केवलं तत्सुतामेव हृदि भावयन्ती तां वर्धयितुमारभत । सा सुता क्रमेणोदग्रयौवनप्राग्रहरा लावण्यातिशायिनी सौभाग्यभूमिका चातुर्यधुर्या जाता। 6. ३८) इतश्च जनमनःप्रमोदभरदायिनि मधुरमधुकरनिकरध्वनिताकुले वसन्तकाले मदनत्रयोदश्यां 6 बायोद्याने कामदेवस्य यात्रां वीक्षितुं मातृसखीपरिवृता गता वनदत्ता । स्वैरं परिभ्रमन्ती च तत्रागतेन मोहदत्तेन विलोकिता, तया च सः । तयोः परस्परं विलोकनेन प्रीतिः समभूत् । तत्रान्योन्यदर्शननीरसंसिक्तस्नेहमहीरुहं मिथुनं महती वेलां यावत्तस्थौ, तावत्सुवर्णदेवया स्वदुहितरि गाढतरं मोहदत्तानुराग 9 विभाव्य जल्पितम्। 'वत्से, तवेहागताया गुर्वी वेलाजाता, तव पितापि दुःखाकुलितमानसो भविष्यतीति तावत्प्रवर्तस्व गृहं व्रजामः । यदि तावत्तव कौतुकं ततो वत्से, मदनोत्सवे निवृत्ते निर्जने कानने समागत्य 12 पुनर्निजेच्छया भगवन्तमनझं विलोकयेः' इति जल्पन्ती तया समं वनान्निर्गता । चिन्तितं च मोहदत्तेन । 12 'अहो, एतस्या ममोपरिसमस्ति स्नेहः' इति सुवर्णदेवावचोऽवश्यं संकेतजनक परिभावयन्मोहदत्तः काननानिःससार । सा वनदत्ता काममहापिशाचग्रस्तेन देहेन निकेतनमायाता न पुनश्चेतसा । तत्रापि 16 गुरुविरहज्वलनज्वालावलीकरालदेहा ___16 कडेल्लिपल्लवाकीर्णशयनीयतलस्थिता । वितीर्णास्थानहुंकारा कामज्वरभरातुरा ॥ १५५ मृणालवलया रम्भादलावरणसंवृता । चन्दनद्वसंसर्गसर्वाङ्गलतिका तदा ॥ १५६ निर्गच्छदुष्णनिःश्वासशुष्यमाणाधरावनी। परित्यक्तकलाभ्यासपुष्पताम्बूलभूषणा॥ १५७ 18 विच्छायवदनाम्भोजा दिवा चन्द्रकलेव या । न पत्यके न वा भूमितले प्राप्तसुखाभवत् ॥१५८ चतुर्भिः कलापकम् ॥ 21 ६३९) वनदत्तान्यदा मदनोत्सवे ध्यतीते तस्मिन्नेवोद्याने गन्तुकामा जननीसखीजनान्विता राज-21 मार्गे तोसलराजपुत्रेण वीक्षिता । देशान्तरपरावर्तितरूपयौवनलावण्यवर्णस्तोसलस्तया सुवर्णदेवया न प्रत्यभिशातः । तेन सापि दूरदेशान्तरासंभावनीयसमागमा नावगता । केवलं तस्य तोसल24 राजपुत्रस्य वनदत्ताया उपरि महती प्रीतिरुत्पन्ना। चिन्तितं च तेन । 'एतां चारुलोचनां द्रध्यदानेन 24 विक्रमेण बापरेण वाप्युपायेन परिणेष्यामि । सुन्दरमभवद्योषा बाह्योद्यानभुवं प्राप्ता । ततोऽहमपि तदनुमार्गलग्नो यास्यामि' इति विचिन्तयन् गन्तुं प्रवृत्तः । सा च वनदत्ता करिणीव सुललितगमना अक्रमेण वनान्तर्विचचार । इतश्च गुरुतरानुरागदत्तहृदयेन तोसलेन लोकापवादमनपेक्ष्य दूरतो वीडां 27 विमुच्य जीविताशामपि परित्यज्य भयमवगणय्य चिन्तितम् 'अयमत्रावसर इति। ततः कर्षितकराल करवालो महामोहमूढमानसस्तोसलो बभाण । 'भद्रे, यदि जीवितेन ते कार्य तदा मयैव समं रमखेति । 30 अन्यथा कृपाणलतयानया भवती कथाशेषां करिष्ये।' तत्तादृशं वृत्तं वीक्ष्य हाहारवमुखरे सखीजने 30 सुवर्णदेवया च पूश्चक्रे । 'भो भो जनाः, त्वरितं प्रधावत प्रधावत, अनेन मम पुत्री निरपराधैव कानने व्याधेन हरिणीव विनाश्यते।' 33 ६४०) इतश्च सहसा मोहदत्तः कदलीगेहतः कर्षितनिस्त्रिंशो निःसृत्य प्रोवाच । 'रे रे पुरुषाधम 33 अग्राह्यनामधेय निरप, स्त्रीषु प्रहरसि । अहमस्या रक्षकस्तन्मम संमुखो भव।' इति श्रुत्वा तोसलस्तदमिमुखं प्रत्यधावत । तोसलेन मोहदत्तस्य कृपाणप्रहारः प्रदत्तः । तेन च मोहदत्तेन करणकौशलेन 36 तस्य प्रहारं वञ्चयित्वा प्रतिप्रहारेण तोसलराजपुत्रः कृतान्तदन्तक्रकचगोचरीकृतः। ततो मोहदत्तो वन-36 दत्ताभिमुखं चलितः । तया स जीवितदातेति प्रियः प्रतिपन्नः । सुता जीवितेति हृष्टमानसा सुवर्णदेवा समभवत् । मोहदत्तेन भणितम् । 'भद्रे, विश्वस्ता भव, कम्पं मुञ्च, भयं मा कार्षीः।' ततस्तेन मोहितेन 39 मोहदत्तेनालिन्य यावत्तया सह रंस्यते तावदकस्मादेव दीर्घमधुरः स्वरस्तस्य कर्णातिथित्वं भेजे। 39 _ 'जनकं मारयित्वापि जनन्याः पुरतोऽपि च । अरे रिरंससे मूढ स्वसारमपि संप्रति ॥' १५९ ततो मोहदत्तेन विलोकितो ऽपि क्वापि को ऽपि न दृष्टः । एवं वारत्रयाकर्णनजातशङ्कः कोपकौतृहला42 बद्धचित्तः खगरत्नव्यग्रपाणिर्मोहदत्तः सर्वतः काननान्तर्विलोकितुं प्रारेमे । तावद्भगवान् साक्षादिव धर्म 42 निर्वते. 13) मस्तस्नेछ 4) सुवर्णदेवी, PB on. ता. 7)P परिभृता. 8) PB om. तया च सः। 11) 26) Pom. च. 30) 0"मुखरेण सखीजनेन. 41) Bom. विलोकितोऽपि, 'जाताशंक: Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394