________________
* 28
रत्नप्रभसूरिविरचिता
[II.838 : Verse 1551भक्षितमिति चिन्तयन्ती तदनुमार्गमनुसरन्ती कस्मिन्नपि गोष्ठे कस्याश्चिदाभीर्या वेश्मनि समागता । तया 1 'दुहिता' इति स्थापिता। तत्र कियन्ति दिनानि स्थित्वा ग्रामानुग्रामं परिभ्रमन्ती पाटलीपुत्रं साप्या3 याता । तत्र कर्मसंयोगेन तस्मिन्नेव दूतगृहे सा प्रविष्टा । तत्र च दूतकान्तया तहुहिता तस्या एव प्रति- 3 पालनार्थमर्पिता । सुवर्णदेवा तामात्मीयां सुतामजानन्ती केवलं तत्सुतामेव हृदि भावयन्ती तां वर्धयितुमारभत । सा सुता क्रमेणोदग्रयौवनप्राग्रहरा लावण्यातिशायिनी सौभाग्यभूमिका चातुर्यधुर्या जाता। 6. ३८) इतश्च जनमनःप्रमोदभरदायिनि मधुरमधुकरनिकरध्वनिताकुले वसन्तकाले मदनत्रयोदश्यां 6 बायोद्याने कामदेवस्य यात्रां वीक्षितुं मातृसखीपरिवृता गता वनदत्ता । स्वैरं परिभ्रमन्ती च तत्रागतेन मोहदत्तेन विलोकिता, तया च सः । तयोः परस्परं विलोकनेन प्रीतिः समभूत् । तत्रान्योन्यदर्शननीरसंसिक्तस्नेहमहीरुहं मिथुनं महती वेलां यावत्तस्थौ, तावत्सुवर्णदेवया स्वदुहितरि गाढतरं मोहदत्तानुराग 9 विभाव्य जल्पितम्। 'वत्से, तवेहागताया गुर्वी वेलाजाता, तव पितापि दुःखाकुलितमानसो भविष्यतीति तावत्प्रवर्तस्व गृहं व्रजामः । यदि तावत्तव कौतुकं ततो वत्से, मदनोत्सवे निवृत्ते निर्जने कानने समागत्य 12 पुनर्निजेच्छया भगवन्तमनझं विलोकयेः' इति जल्पन्ती तया समं वनान्निर्गता । चिन्तितं च मोहदत्तेन । 12 'अहो, एतस्या ममोपरिसमस्ति स्नेहः' इति सुवर्णदेवावचोऽवश्यं संकेतजनक परिभावयन्मोहदत्तः
काननानिःससार । सा वनदत्ता काममहापिशाचग्रस्तेन देहेन निकेतनमायाता न पुनश्चेतसा । तत्रापि 16 गुरुविरहज्वलनज्वालावलीकरालदेहा
___16 कडेल्लिपल्लवाकीर्णशयनीयतलस्थिता । वितीर्णास्थानहुंकारा कामज्वरभरातुरा ॥ १५५ मृणालवलया रम्भादलावरणसंवृता । चन्दनद्वसंसर्गसर्वाङ्गलतिका तदा ॥ १५६ निर्गच्छदुष्णनिःश्वासशुष्यमाणाधरावनी। परित्यक्तकलाभ्यासपुष्पताम्बूलभूषणा॥ १५७ 18 विच्छायवदनाम्भोजा दिवा चन्द्रकलेव या । न पत्यके न वा भूमितले प्राप्तसुखाभवत् ॥१५८
चतुर्भिः कलापकम् ॥ 21 ६३९) वनदत्तान्यदा मदनोत्सवे ध्यतीते तस्मिन्नेवोद्याने गन्तुकामा जननीसखीजनान्विता राज-21 मार्गे तोसलराजपुत्रेण वीक्षिता । देशान्तरपरावर्तितरूपयौवनलावण्यवर्णस्तोसलस्तया सुवर्णदेवया
न प्रत्यभिशातः । तेन सापि दूरदेशान्तरासंभावनीयसमागमा नावगता । केवलं तस्य तोसल24 राजपुत्रस्य वनदत्ताया उपरि महती प्रीतिरुत्पन्ना। चिन्तितं च तेन । 'एतां चारुलोचनां द्रध्यदानेन 24 विक्रमेण बापरेण वाप्युपायेन परिणेष्यामि । सुन्दरमभवद्योषा बाह्योद्यानभुवं प्राप्ता । ततोऽहमपि तदनुमार्गलग्नो यास्यामि' इति विचिन्तयन् गन्तुं प्रवृत्तः । सा च वनदत्ता करिणीव सुललितगमना अक्रमेण वनान्तर्विचचार । इतश्च गुरुतरानुरागदत्तहृदयेन तोसलेन लोकापवादमनपेक्ष्य दूरतो वीडां 27 विमुच्य जीविताशामपि परित्यज्य भयमवगणय्य चिन्तितम् 'अयमत्रावसर इति। ततः कर्षितकराल
करवालो महामोहमूढमानसस्तोसलो बभाण । 'भद्रे, यदि जीवितेन ते कार्य तदा मयैव समं रमखेति । 30 अन्यथा कृपाणलतयानया भवती कथाशेषां करिष्ये।' तत्तादृशं वृत्तं वीक्ष्य हाहारवमुखरे सखीजने 30
सुवर्णदेवया च पूश्चक्रे । 'भो भो जनाः, त्वरितं प्रधावत प्रधावत, अनेन मम पुत्री निरपराधैव कानने व्याधेन हरिणीव विनाश्यते।' 33 ६४०) इतश्च सहसा मोहदत्तः कदलीगेहतः कर्षितनिस्त्रिंशो निःसृत्य प्रोवाच । 'रे रे पुरुषाधम 33
अग्राह्यनामधेय निरप, स्त्रीषु प्रहरसि । अहमस्या रक्षकस्तन्मम संमुखो भव।' इति श्रुत्वा तोसलस्तदमिमुखं प्रत्यधावत । तोसलेन मोहदत्तस्य कृपाणप्रहारः प्रदत्तः । तेन च मोहदत्तेन करणकौशलेन 36 तस्य प्रहारं वञ्चयित्वा प्रतिप्रहारेण तोसलराजपुत्रः कृतान्तदन्तक्रकचगोचरीकृतः। ततो मोहदत्तो वन-36 दत्ताभिमुखं चलितः । तया स जीवितदातेति प्रियः प्रतिपन्नः । सुता जीवितेति हृष्टमानसा सुवर्णदेवा
समभवत् । मोहदत्तेन भणितम् । 'भद्रे, विश्वस्ता भव, कम्पं मुञ्च, भयं मा कार्षीः।' ततस्तेन मोहितेन 39 मोहदत्तेनालिन्य यावत्तया सह रंस्यते तावदकस्मादेव दीर्घमधुरः स्वरस्तस्य कर्णातिथित्वं भेजे। 39
_ 'जनकं मारयित्वापि जनन्याः पुरतोऽपि च । अरे रिरंससे मूढ स्वसारमपि संप्रति ॥' १५९ ततो मोहदत्तेन विलोकितो ऽपि क्वापि को ऽपि न दृष्टः । एवं वारत्रयाकर्णनजातशङ्कः कोपकौतृहला42 बद्धचित्तः खगरत्नव्यग्रपाणिर्मोहदत्तः सर्वतः काननान्तर्विलोकितुं प्रारेमे । तावद्भगवान् साक्षादिव धर्म 42
निर्वते. 13)
मस्तस्नेछ
4) सुवर्णदेवी, PB on. ता. 7)P परिभृता. 8) PB om. तया च सः। 11) 26) Pom. च. 30) 0"मुखरेण सखीजनेन. 41) Bom. विलोकितोऽपि, 'जाताशंक:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org