Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 332
________________ -II. $ 37 : Verse 154] कुवलयमालाकथा २ *27 1मन्त्रिणा कुमारो विसर्जितः। कुमारोऽपि तदैव निर्गत्य प्रचुराणि पुराण्युल्लङ्घय क्रमेण पाटलीपुत्रमग-1 च्छत् । तदा तत्र च राजा जयवर्मा राज्यं पालयति स्म । स कुमारस्तत्र तस्य सेवापरोऽभवत् । ६३५) इतश्च तस्यां कोशलायां सा सुवर्णदेवा ज्ञातदुःशीलत्वेन बन्धुजनेन निन्द्यमाना जनेन 3 च कुमारविरहोद्विग्नमानसा गर्भभवदुःखभरबाधिता व्यचिन्तयदिति । ‘स कुत्र राजपुत्रो यो मां परित्यज्य ययौ' इति चिन्तयन्ती सा कस्याश्चित्सखीमुखात् 'तव दोषेण राजादेशतः सचिवेन कुमारो 6हतः' इति श्रुत्वा सगर्भत्वेनाकृततदनुमरणा निशीथे केनापि छद्मना गेहतो निर्गत्य भवितव्यतायोगेन 6 पाटलीपुत्रपुरं प्रति प्रचलता केनचित्सार्थेन सह चचाल । सा सुदती मन्दं मन्दं गच्छन्ती गर्भवेदनार्ता चरणचमणाप्रवीणा पश्चात्सात्परिभ्रथा तालहिन्तालतमालकदम्बजम्बूजम्बीरादिफलदलशतसंकुले 9महाकानने मूढदिग्विभागा अपरिक्षातनिगमा तृष्णातरलितचेतोवृत्तिः क्षुधार्ता श्यामचदना पथधान्ता 9 सिंहनिनादविद्रता व्याघ्रदर्शनवेपमानहृदया दुरध्वपतिता विलापानकार्षीदिति । 'हा तात, अहमभीष्ट तमापि त्वया परित्राणं न कृतम् । हा मातः, ममापि त्वया रक्षणं न कृतम् । हा प्रियतम, यस्य तव कृते 12 मया हेलयापि शीलं कुलं यशस्त्रपा सखीजनश्च पटप्रान्तलग्नतृणवद् वेश्मप्रमार्जनोद्धतावस्करवत् सर्वमपि 12 तत्यजे, स त्वमपि मामुपेक्षसे।' इति विलपन्ती मूञ्छिता धरायां पपात । अत्रान्तरे कुमुदिनीविभुस्तां मृतामिवावगत्य दुःखार्तो विश्रस्तकरः प्रतीचीजलनिधेरन्तः परिममन्ज । ततो महागजेन्द्रयूथमलिने 16 विन्ध्यगिरिशिखरमालानीले समन्ततः प्रस्ते संतमससमूहे शीतलेन वायुना जातानुकम्पेनेव समाश्वा-16 सिता सा । ततस्तस्मिन्महाभीमे वने एकाकिनी अशरणा सुवर्णदेवा प्रसूता एकं दारकं द्वितीयां दारिकां च। ततश्च । 18 सुतजन्ममुदारण्ये वासार्त्या तन्मनः क्षणम् । जनसे ऽहर्मुखमिव भासा भूच्छाययापि च ॥ १५०18 । सा च प्रलपितुमारेमे । पित्रा मात्रा च भर्चा च स्वजनेन च वर्जितावत्स त्वमेव शरणं त्वं गतिस्त्वं मतिर्मम ॥ १५१ 21 पिता पाति च कौमारे यौवने रक्षति प्रियः। स्थविरत्वे तनूजस्तु निर्माथा स्त्री कदापि न ॥ १५२ 21 इतश्चाहर्पतिःप्राप पूर्वपर्वतमस्तकम । तस्या दुष्टमहाकष्टतिरस्कारकृताविव ॥१५३ उदितस्तेजसामीशः कोपाटोपादिवारुणः । वर्णलोपकृतो ध्वान्तसंघातस्य विघातने ॥ १५४ 24 ६३६) एवंविधे प्रत्यूषप्रस्तावे चिन्तितमनया। 'किमधुना मया कार्य तावन्मरणं न वरम् , यतो 24 बालयुगलं मयि मृतायां मृतमेव, तदस्य पालनमेव संप्रति श्रेयः' । इति ध्यात्वा गता कस्यापि ग्रामस्य परिसरम् । ततस्तोसलराजपुत्रनामाङ्कां मुद्रां बालस्य कण्ठे निक्षिप्य निजनामाङ्कितमुद्रां बालिकायाश्च 27 निजोत्तरीयप्रान्तद्वयेन दारकं दारिकां च पृथग्ग्रन्थी बबन्ध । तद्वालयुगलं तत्र मुफ्त्वा स्वयं सुवर्णदेवा 27 शरीरचैवर्ण्यनिराकरणाय विन्ध्याचलोपत्यकानिर्झरणमुपाजगाम । अत्रान्तरे नवप्रसूता व्याघ्री स्वशि शोभेक्ष्यार्थ भ्रमन्ती नवशोणितगन्धहतचित्ता चीवरोभयप्रान्तबद्धं बालयुगलं जग्राह । तस्या वजन्त्या 30 वसनान्तबद्धादारिका पथिपपात,नच तया गलितापि दारिकाशायि । तदा च पाटलीपुत्रेशश्रीजयवर्मनृप-30 स्थागतः सभायेस्तत्र दुतः। स तां दारिकां दृष्ट्रा गृहीत्वा च निरपत्यायाः स्वभार्यायाः समर्पयामास । ती व दम्पतीक्रमेण तां पुत्रीमङ्गीकृत्य पाटलीपुत्रमायातौ । ताभ्यां तस्या बालिकाया वनदत्तेति नाम विदघे। 38 ६३७) इतश्च व्याघ्री स्तोकं भूभागमुपेता कुतोऽपि कार्यान्तरात्तत्रायातेन राज्ञः श्रीजयवर्मणो राज-33 पुत्रशबरशीलेन व्याघ्र इतिकृत्वा गुरुतरशल्यप्रहारेण हता मृताच । तं च बालकं कोमलमृणालदेहं रतोत्पलसमक्रमयुगलं विकस्वरेन्दीवरनयनं पार्वणचन्द्राननं स ददर्श । ततस्तं शबरशील:प्रमुदितचेतानिज36 प्रियतमायै 'तव पुत्रः' इति वितीर्णवान् । तत्कान्तया 'प्रसादः' इति भणितम् । वर्धापनकमहोत्सवं 36 विधाय द्वादशे दिवसे पित्रा तस्य पुत्रस्य व्याघ्रदत्त इति नामधेयं गुण्यं ददे। सर्वत्र च नगरान्तस्तदास्य प्रच्छन्नगर्भा पत्नी प्रसूतेति विदितमभवत् । शबरशीलस्तेन बालकेन साकं पाटलीपुत्रमवाप । तत्र च 39 समानशीलराजपुत्रैः सार्ध क्रीडां कुर्वतस्तस्य महामोहमोहितचेतसो लोकेन मोहदत्त इति संशा कृता । 39 एवं मोहदत्तः सह कलाकलापेन वयसा गुणगणेन च वर्धितुमारेभे। इतश्च सुवर्णदेवा गात्रपावित्र्यं निर्माय समागता बालकयुग्ममप्रेक्षमाणा मूर्छिता । पुनरपि वायुना लब्धचैतन्या चिरं विललाप । ततः 42 स्वयमेव सा स्वं संबोध्य ततः स्थानात् प्रचलिता। पुरतो व्याघ्रीपदानि दृष्ट्वा व्याध्या बालकयुगलं 42 7) प्रतिचलता. 10) Bहा ताताहमभीष्टतमापि त्वया परित्यक्ता । हा. 1) Pom. हा मातः eto. कृतम् ।, B परित्राणं for रक्षण. 12) o inter. शील & कुलं. 14) PB वावगम्य। 15)PP गिरिशिषरशिषरिमाला. 25) B तद for तदस्य. 27) दारकं च दारिका, सुवर्णदेवी. 30) P जयवर्मानृपस्या'.32) PBokkh तया for ताभ्यां 37) om. पुत्रस्य. 40) PB सकल for सह, B सुवर्णदेवी. 42)P Bom. सा. wwwww. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394