Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
*24
रत्नप्रभसूरिविरचिता [II. $ 28 : Verse 1281६२८) अन्यदा लोभदेवस्तत्क्षणोत्कर्तितमांसखण्डः प्रवहछोणितलिप्ततनु रण्डपक्षिणोत्क्षिप्तः। 1
तस्य व्योम्नि गच्छतः समुद्रोपरि परेण भारण्डपक्षिणा सह युध्यमानस्य भवितव्यतया चऋपुटस्थितो 3लोभदेवः सागरान्तः पपात । तज्जलेन निर्मितवेदनःसजन इव दुर्जनवचसा बहलतरकल्लोलमालाप्रेयमाणः 3 समुदेणापि मित्रविनाशमहापापकलुषितहृदय इव निष्कासितः। किमपि कूलं संप्राप्य तत्र क्षणमात्र शीतलमरुता समाश्वासितः काननान्तः संचरन् चटपादपतलं ददर्श। तत्र मरकतमणिकुट्टिमं सुगन्धनाना6 विधकुसुमसंचयचितं निरीक्ष्य लोभदेवो व्यचिन्तयत् । 'अहो, किल शास्त्रेषु श्रूयते, यथा देवाः स्वर्गे 6 वसन्ति तन्न ते रम्या रम्यविशेषज्ञाः । अन्यथा कथं लोकत्रयाह्लादकरमिमं प्रदेशं परित्यज्य त्रिदशास्त्रिदशालयमाश्रयन्ते । ध्यात्वेति स तत्र न्यग्रोधपादपाधस्तादुपविश्यातीवतीनवेदनातश्चिरं दध्यौ ।'स को धर्मः, येन देवा दिव्यभोगधारिणो देवलोके सुखमनुभवन्ति । तत्किं पापमस्ति, येन नरके नैरयिका 9 मदुखतो ऽप्यधिक दुःखमुद्वहन्ति । ततो मया किं पुनः पापमाचरितं यदेवंविधं दु:खनिकेतनम
भवम् ।' इति चिन्तयतो लोभदेवस्य चेतसि सहसैव तीक्ष्णशरशल्यमिव रुद्रश्रेष्ठी स्थितः। ततः स 12चिन्तयामासेति।
12 ६२९) 'अहो, अस्मादृशां किं जीवितेन ।
__हतो वयस्यः सर्वस्य प्रियकारी कलानिधिः। श्रेष्ठी रुद्रो मया येन पापिना द्रव्यलोभतः ॥ १२८ 15 तावत्सांप्रतमपि तत्किमपि तादृशमाचरामि येन प्रियमित्रवधकलुषितमात्मानं तीर्थभुवि व्यापाद्य सर्व-15
पापविमुक्तो भवामि ।' इति चिन्तयन् लोभदेवः क्षणं सुप्तः, प्रबुद्धश्च एकस्यां दिशि कस्यापि मधुराक्षरां गिरमाकर्ण्य चिन्तितमनेन । 'अये न संस्कृतं प्राकृतमपभ्रंशं च । इयं तावश्चतुर्थी पैशाचिकी भाषा, 18 तावदाकर्णयामि ।' ततस्तेषां पिशाचानामिति परस्परमुल्लापःप्रवर्तते, तावदेकेनोक्तम् । 'यदिदं पापा-18
पनोदाय तपस्यतां पवनाभोगस्थानं रमणीयम् ।' अपरेणोक्तम् । 'इतोऽपि चारुश्चामीकराचलः।' अन्येन भणितम् । 'अस्मादपि तुहिनशिशिरशिलातलस्तुहिनगिरिरेव रमणीयः।' इतरेणोक्तम् । 'एवं मा मा 21वदत, सर्वपापापहारिणी सुरनिर्झरणी प्रधाना।' इति निशम्य तां प्रति प्रचलितो लोभदेवः परित्यक्त-21 लोभसंगः समुपागताभङ्गवैराग्यरङ्गः । क्रमेण च नरेश्वर, समागत्यात्रैव निविष्टः ।' एनं वृत्तान्तं भग
वता कथितमाकर्ण्य व्रीडाप्रमोदविषादपरवशः श्रीधर्मनन्दनगुरुचरणमूलमवाप्य लोभदेवः प्रोवाच । 24 'यद्वन्धचरणारविन्दैरावेदितं तदवितथमेव । किमत्र मया कर्तव्यम् । ततः श्रीधर्मनन्दनमुनिपेन प्रोक्तम् । 24
'वत्स, सर्वथा मित्रवधसंभूतपापजातक्षयाय लोभमहानिशाचरमनीहाहेत्या पञ्चत्वमानीय विनयवामनो भूयसा तपसा पुराकृतकर्ममर्मनिर्मथनाय जैनतपस्यासरस्यां राजहंसलीलामलं कुरु । क्षान्तिकान्तासेवाअहेवाकितामाश्रय । कायोत्सर्गमुग्रमाचर। पापमहाराजप्राकृतीर्विकृतीः परिहर । यत्र न जरा न मृत्युन 27 व्याधिन चाधिन च दुःखं तच्छाश्वतं महोदयपदं विशदं ततः प्राप्स्यसि ।' तदाकर्ण्य लोभदेवेनोक्तम् । 'भगवन् , यदि तावदेतस्य चारित्रस्य योग्यो ऽस्मि ततो मम प्रवज्यादानप्रसादं विधेहि ।' भगवता 30 श्रीधर्मनन्दनेन गुरुणा पादपतितस्य तस्य बाष्पजलप्लतलोचनस्य प्रशान्तलोभस्य लोभदेवस्य प्रतमदायि । 30
।इति लोभे लोभदेवकथा । ६३०) पुनरपि गुरुरुवाच । 'हन्ति हन्त महामोहस्तुहिनौघ इवोदितः। पढेरुहं विवेकाख्यं यशःपरिमलोर्जितम् ॥ १२९ सर्वदुःखमयो भूप भव एष जिनैर्मतः। तस्य स्वभावं जानन्ति महामोहहता नहि ॥ १३०
भुषो ऽवतंसः संजज्ञे स एवागण्यपुण्यभाक् । सद्ध्वनौ न यः कापि ह्रियते मोहवाजिना ॥ १३१ 36 । अनेन मोहराजेन दुर्धरेण जगत्रयी। जिग्ये जिनमुनीन् मुक्त्वा तीवव्रतधुरंधरान् ॥ १३२ 36
सर्वदायमहो मोहो महासागरसंनिभः। न यस्य प्राप्यते स्ताघो महावंशरपि कचित् ॥ १३३ महामोहमोहितमनाः पुमान् गम्यागम्यमपि न विचारयति । स्वसारमप्यभिसरति । जनकमपि 39 मारयति । नरेश, यथेष पुरुषः।' विज्ञप्तं नृपतिना । 'स्वामिन् , अनेकलोकसंकुलायां सभायां कः पुरुषः, 39
इति नामि ।' तदवगम्य गुरुणा भणितम् । 'य एष तव दूरे दक्षिणदेशे वासवस्य लेप्यमय इव कार्याकार्यविचारविमुखो दृश्यमानसुन्दरावयवः स्थाणुरिव स्थितः। एतेन महामोहमोहितचेतनेन यत्कृतं 42 तच्छ्रयतामिति ।
42
10) दुःखनिकेतनमिति. 12) Pom. किं. 18) PB प्रवर्तते । एकेनोक्तं. 29)inter. भगवन & यदि. 31) PP om. इति. 36) अन्येन for अनेन. 41) 0 वासवस्य वाभो लेप्यमय, P Bom. महा.
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only
Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394