Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
* 12
रत्नप्रभमूरिविरचिता
[IL.84 : Verse 211 भ्रमरैर्गीतमेकान्तमधुरैस्ताण्डवं दलैः । तूर्यत्रिकं वितन्वन्ति द्रमा देव नवाग्रतः ॥ २१
कुर्वन्तीव द्रुमा देव भवतश्चरणार्चनम् । कुसुमेरसमभृङ्गरणितैश्च गुणस्तुतिम् ॥ २२
५) एवं निवेदयन् महामन्त्री परितो वने दृष्टिं व्यापारयन् ध्यायति स्म । 'तावदत्रोद्याने धर्म- 3 नन्दनो विभुर्न वीक्ष्यते, तमेव हृदि धृत्वा मयात्र विभुरानीतो विनाप्यर्थमेव, तन्मन्ये ऽन्यत्र कुत्र वा वनस्पतिकुन्थुपिपीलिकाप्रभृतिवाहुल्यात्प्रासुकत्वं विभाव्य सिन्दुरकुट्टिमनले सशिष्यः स्थितो भगवान् भविष्यति' इति चिन्तयित्वा राजानमवादीत् । 'देव, यत्त्वया कुमारत्वे सिन्दरकुट्टिमासन्ने ऽशोकतरुरा- 6 रोपितः स कुसुमितो न वा, इति न ज्ञायते ।' राज्ञोक्तम् । 'चारूदितं भवता' इति वदन् मन्त्रिणः करं करेण गृहीत्वा गतेन तेन तत्र मुनयो दृष्टाः । केचिद्धर्मध्यानदत्तावधानाः, केचित्प्रतिमापालन9 लालसमानसाः, केचिच्छुद्धसिद्धान्तपठनप्रवीणान्तःकरणाः, केचिद्विविधासनाध्यासीनाश्च । तेषां च 9 मध्यगतं ताराणामिव ताराधिपम्, सागराणामिव क्षीरसागरम्, सुराणामिव सुरेश्वरम्, चतुर्शानिनं
तं महामुनि वीक्ष्य मनाक प्रमुदितः क्षितीशः सचिवमुवाच । 'क एते पुरुषाः, कश्चैष नृप इवैषां 12 मध्यगतः' इत्युक्ते वासवसचिवः प्रोवाच । 'देव, तावदयं मुनिपतिर्भवाटव्यां कुतीर्थिककथितकापथ-12
पतितानां जन्तूनां मुक्तिपुरीमार्गोपदेशको भगवान् श्रीधर्मनन्दनाचार्यो देवानामपि वन्द्यपादारविन्दः, तथास्यैव शिष्या महात्मानो ऽमी मुनयः, तदुपसृत्याचार्यस्य समीपे धर्माधर्म प्रष्टमुचितम् ।' 'अथ 15 भवत्वेवम्' इति वदन् मन्त्रिकरतले लग्न एव भूपतिर्गुरुसमीपमुपेयिवान् । अथ मन्त्री स्तुतिपूर्व प्रदत्त-13
प्रदक्षिणात्रयः सुगुरुचरणाम्भोज ननाम तथा वसुधाधिपो ऽपि । भगवाँश्च धर्मलाभं दत्त्वा 'स्वागतं
भवताम्, उपाविशत' इत्युवाच । ततो 'यदादिशति भगवान्' इति वदन्नृपस्तत्रैव कुट्टिमतले न्यविक्षत, 18 मन्त्री च गुरुजनमनुज्ञाप्य, तदा चान्ये ऽपि नृपमार्गमनुवर्तमानाः पान्थकार्पटिकादयो नत्वा भगवन्त-18
मुपविष्टाः। भगवता सुखदुःखे जानतापि लोकाचार इति शरीरकुशलतावृत्तान्तं ते पृष्टाः।तैरुक्तम् । 'सममद्य तत्रभवद्भवदर्शनेन' इति । ततश्च चिन्तितमवनीपेन । 'भगवतो ऽमुष्यासामान्य रूपम्, अगण्य 21 लावण्यम्, अमेया कान्तिः, अपूर्वकरुणारसः प्रशस्तः, तथा चायं सेतुबन्धः संसारसिन्धोः, 21
परशुस्तृष्णालतावनस्य, अशनिर्मानशिलोच्चयस्य, मूलं क्षमापादपस्य, आकरः सर्वविद्यानाम, कुलमन्दिरमाचाराणाम् , महामन्त्रः क्रोधादिकषायचतुष्टयभुजङ्गमस्य, दिवसकरो मोहान्धकारस्य, दावानलः 24 स्फूर्जद्रागशाखिनः, अर्गलाबन्धो नरकद्वाराणाम्, कथकः सत्पथानाम्, निधिः सातिशयशा-24
नमणीनाम्। सर्वथा सर्वगुणालिङ्गितसफलसंप्राप्तमनुष्यजन्मनो ऽस्य किं वैराग्यकारणं बभूव, येन भगवता यौवनलक्ष्मीभाजापि सर्वदा सर्वदुःखसमुच्चयशय्या प्रव्रज्याङ्गीचके तत्पृच्छामि।' इति अचिन्तयन् महीपतिर्मुनिना ज्ञानिना स्वयमेव प्रोक्तः। 'चतुर्गतिके ऽपि भवे सुलभं वैराग्यकारणम् । 27 यदन्ये ऽपि विषयसुखास्वादमोहिता जीवाः पापं कुर्वते तदेव ज्ञानिनां वैराग्यहेतुः। तत्र नरकगतो तावत्रिविधा विबाधा, क्षेत्रजाऽन्योन्यमुदीरिता परमाधार्मिकसुरकृता च। ततस्तदुःखानि घर्षकोट्या30 प्याख्यातुं न शक्यन्ते, एवं तिर्यडमनुष्यदेवगतिष्वपि । इह लोक एतदेव जिननाथवचनं क्रियमाणं 30 धर्मार्थकामदम्। परत्र च मोक्षपुरुषार्थसाधकम् । ततःप्रथमं श्रावकधर्म समाश्रित्य पश्चाच्छ्रमणधर्मपालने
मनो नियोजय' इति । 33६६) अत्रान्तरे प्रस्तावं परिज्ञाय कृताञ्जलिना वासवमहामन्त्रिणा भगवन्तं धर्मनन्दनं मुनिपं 33
नत्वा सविनयमूचे । 'नाथ, य एष त्वयाशेषदुःखनिलयश्चतुर्गतिलक्षणः संसारः प्रणीतः, एतस्य पूर्व किं निमित्तम् , येन जीवा भवे परिभ्रमन्ति ।' श्रीधर्मनन्दनगुरुणा भणितम् । 'भो मन्त्रीश, नरेन्द्र 36 पुरन्दरदत्त' तच्छणु संसारपरिभ्रमणे जीवस्य यत्कारणं जिनेश्वरैरुक्तम् । तथा च ।
36 क्रोधो मानश्च माया च लोभश्चाप्यनियन्त्रिताः । अमी कषायाः संसारदुःखसागरहेतवः ॥२३
अन्तर्दहन गुणग्राममिद्धः क्रोधधनञ्जयः । बहिर्वस्तुपरिप्लोषकृतः पावकतो ऽधिकः ॥२४ 39 कदाचन सुधीर्दत्ते स्थानं न स्वान्तवेश्मनि । क्रोधस्य दन्दशूकस्य निःशूकस्य जनक्षये ॥ २५ 39
केवलं सर्पदटस्य प्रतीकारो ऽत्र विद्यते । दुर्दान्तक्रोधसपेण दष्टस्य तुन सर्वथा ॥ २६
1)। भ्रमरैगीतकंठाचं शाखामिस्तांडवं दलै:. 3) B परितस्तत्र दृष्टिं. 4) आध्यात्वा for धृत्वा, । मयाऽत्र विहरणीयं विनाप्यर्थमेव. 6) B कुंथुपपीलिका. 6)csuggests यस्त्वया for यत्त्वया. 10)P तारागणमिव, सागराणामि मरेश्वरम्. 12)P कतीथिककथितमुवाच । क एते पुरुषाः eto. repeated (as above) ending with कुतीर्थिककथित. 18) मन्त्रीश्वरोऽपि गुरु. 20) PH ततश्चितित'. 29) वर्षकोट्योऽप्यातुं. 33) P भगवं धर्म'. 37) 0g कषायाः संसारे चत्वारो दुःखहेतवः। 39) P दंशशूकस्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394