Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 318
________________ *13 -II. $ 8 : Verse 37] कुवलयमालाकथा २ मातङ्गस्पर्शने शुद्धिः सुवर्णपयसा नृणाम् । न पुनः कोपचाण्डालसांगत्ये स्यात्कथंचन ॥ २७ 1 नितान्तं स्तिमितं यस्य स्वान्तं शान्तरसार्णमा । न कदापि स्फुरेत्तस्य कोपाटोपहुताशनः ॥२८ जिनाम्बुदसमुद्भुतप्रशमामृतयोगतः। यः क्रोधाग्निं शमयति तस्य धर्मवनं स्थिरम् ॥ २९ यदि क्रोधो भवेन्नैष कदाचन शरीरिणाम् । तदवश्यं कराम्भोजवासिन्यः स्युः शिवधियः॥ ३० अत्यन्तकोपमहातमःप्रसरान्धीकृतस्वान्तो भ्रातरं भगिनीमपि हन्ति, यथायं पुरो निविष्टः पुरुषः।' नृपेणोक्तम् । 'प्रभो, वयं न जानीमः को ऽप्येष पुरुषः, कीदृक्षा, किं चैतेन कृतम्' इति । ततो गुरुणा-6 भाणि । 'य एष तव वामो मम दक्षिणपाचे स्थितस्त्रिनयनगलगवलकजलाभो गुलाफलरक्तनयनो भ्रकुटीमनभीषणास्यो रोषस्फुरदधरोष्ठपुटो दृढकठिननिष्ठुराको मूर्तिमान् कोप इव संप्राप्तः। एतेन कोपवशवचसा यनिर्मितं तदाकर्ण्यतामिति । ७) अस्ति वसुधावामाक्ष्या एकं कुण्डलमिवोत्तप्तकनकमयप्राकारगम्भीरपरिखापरिवृता काञ्ची नगरी । तस्याः पूर्वदक्षिणदिग्विभागे त्रिगष्यतिमात्रे रगडानाम संनिवेशो ऽस्ति । तत्र सुशर्मदेवो 12 द्विजः परिवसति । पत्नी सुशर्मा । तस्य च रुद्रसोमाभिधो ज्येष्ठपुत्रः । तस्य लघुभ्राता सोमदेवः । 12 तयोः स्वसा श्रीसोमा च । स तु रुद्रसोमो बाल्यादेव चण्डश्चपलो ऽसहनो गर्वोद्धरकन्धरः स्तब्धोऽतिकर्कशवचाः सर्वदा सर्वडिम्भान्निरागसो ऽपि रथ्यासु परिताडयति । तस्य तादृशस्य स्वभावं 16 वीक्ष्य डिम्भैरेव चण्डसोम इति नाम गुण्यं कृतम्, तावरेश, स एषः । स कियद्रिासरै-16 रतिक्रान्तैः पित्रा ब्राह्मणकुलबालिकया नन्दिन्या सह पार्णि माहितः। तत्र पितरौ कुटुम्बभारमारोप्य मन्दाकिनीतीर्थयात्राकृते निर्गतौ। चण्डसोमः क्रमेण यौवनश्रियमलंचके । ततः सा नन्दिनी च 18 यद्यप्यखण्डितशीलवता तथापि तां तारुण्यपुण्यावयवरमणीयां वीक्षमाणश्चण्डसोमः स्वमनसि न 18 विश्वसिति । ततो नरनाथ, तस्या उपरि किंचिद्रागमुद्वहतस्तस्य कोऽपि कालो व्यतिचक्राम । अथान्यदा तत्र शरलक्ष्मीरवततार। 21 अभवन् सर्वतो यस्यां दिशः सर्वा विकस्वराः। कुमुदिन्यः प्रमोदिन्यः सदाकाशा विकासिनः ॥ ३१३१ अतुच्छस्वच्छतापात्रमाद्रियेत जनैर्जनः। यस्यामितीव जातानि निर्मलानि जलान्यपि ॥ ३२ यत्र स्वागतमप्रच्छि मरालानामुपेयुषाम् । सरोभिनलिनीगन्धलब्धालिकुलनिःस्वनैः॥३३ 34 सप्तच्छदेषु चिक्रीडुर्विमुच्य करिणां कटान् । मधुपा यत्र नैकत्र स्थायिनो मलिना यतः ॥ ३४ 24 यत्र चञ्चलकल्लोलभुजाभिरभिवादनम् । घनात्ययश्रियःप्रीत्या तन्वन्तीव जलाशयाः॥ ३५ निष्पुण्यानामिव धनं सरितां नीरमत्रुटत् । यत्र धान्यान्यवर्धन्त कार्याणीवार्यचेतसाम् ।। ३६ 27६८) अन्यदा तत्र ग्रामे नटपेटकमेकं ग्रामानुग्रामं परिभ्रमत् समाजगाम । तेन सर्वोऽपि ग्राम 27 प्रेक्षावीक्षार्थमभ्यर्थितः। ततस्ते च ग्राम्या रजन्याः प्रथमे यामे व्यतीते प्रशान्ते कलकले मृदङ्गध्वनिमाकण्ये गन्तुं प्रवृत्ताः। एष चण्डसोमः 'खकलत्रपरित्राणं कथं करोमि' इति व्यचिन्तय 30 तावन्नटं द्रष्टुं गच्छामि ततः कथं जायायाः परित्राणम, यदि वल्लभाया रक्षणं तदा मम न प्रेक्षण-30 क्षणनिरीक्षणम्, 'इतस्तटी इतो व्याघ्रः' इति न्यायादनल्पविकल्पमालाकुलितमनाः किं रचयामि, भार्यात्मना सह नेतुं न युज्यते, तस्सिन् रङ्गे युवशतसंकुलो ग्रामः । सो ऽपि मम भ्राता तत्र गतो 33 भविष्यति । तावद् यद्भवति तद्भवतु । एतस्याः श्रीसोमाया भगिन्या एतां समर्प्य व्रजामि।' इति 33 विचार्य समय॑ च कोटिप्रहरणधरश्चण्डसोमः प्रययौ। चिरं तस्मिनिर्गते भगिन्या भणितम्। 'हले नन्दिनि, तावन्नटनाट्यवीक्षायै गच्छावः।' नान्दिन्या भणितम् । 'हले श्रीसोमे, किं न जानासि 36 निजसोदरचेष्टितं येनैवं भणसि, न स्वजीवितस्य निर्विण्णास्मि, त्वं पुनर्ययुक्तं तत्कुरु' इति जल्पन्ती 38 स्थिता । श्रीसोमा पुनस्तत्र नाट्यं द्रष्टुं गता। तस्य चण्डसोमस्य तत्र रङ्गे प्रेक्षमाणस्य पृष्ठतः किंचिन्मिथुनं मन्त्रयितुं प्रवृत्तम् । इति जल्पितं तरुणेन । 'भद्रे, हृदये स्वप्ने ऽपि च त्वं दृश्यसे । अद्य मनोरथशतेन 39 प्रत्यक्षं दृष्टासि। 39 त्वद्वियोगानलज्वालामालाज्वलितविग्रहम् । सांप्रतं सौयसंयोगसुधासारेण सिञ्च माम् ॥ ३७ 2)P B स्तीमितं. 6)0क एष for कोऽप्येष. 11)0 गव्यत. 12) Pom. पली सुशर्मा, P Bom. च after तस्य, BP लघुोता. 16) FB सैषः, Bom. स before कियद्भि. 10) कियानपि for कोऽपि. 21) PB विकाशिनः. 24) सप्तच्छेदेषु. 29) B एष सोमचंडः स्वकलत्र. 30)P B inter न & मम. 36) B निजसहोदर. 40) Pमाल्य for माला. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394