Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
-II. § 24: Verse 116]
कुवलयमालाकथा २
1स मुक्तः ।' तेन सेनापतिना सदयेन स्थाणोः पञ्च रत्नान्यर्पयांचक्रे । तेन मित्रं विलोकमानेनैकस्मिन् 1 वनगहने दवलीसंदानितबाहुलतो नियमितचरणयुगः पोट्टल इव निबद्धो ऽधोमुखो वीक्षितः । तं 3 विगतबन्धं विधाय हाहारवं कुर्वाणः स्थाणुः सानुकम्पः प्रोवाच । 'मया रत्ननि पञ्च व्यानृत्य लब्धानि । 3 तव सार्ध रत्नद्वयं ममापि च । त्वं पुनर्मनसि विषादं मा विदधीथाः ।' इति भणित्वा स्थाणुना कान्तारपर्यन्तग्रामसीमां स समानिन्ये । तत्र तावदुपचारवृत्त्या स मायादित्यः कियद्भिरपि दिनैर्निर्व्यूढवणः 6 समजनि । चिन्तितं च मायादित्येन । 'यदयं ममेदृशचेष्टितस्यापि परोपकारीति । ततो मया किं 6 कर्तव्यम्, यन्मया मायाविना प्रथमं रत्नस्वीकारेण ततः कूपान्तर्नि क्षेपेणालीकवचोभिश्च वयस्यो विप्रतारितः, ततो मम नरके ऽपि न निवासः, तस्माद् ज्वलनं प्रविश्यात्मानं काञ्चनमिवाशुशुक्षणौ विमली9 करिष्ये ।' ततो ऽतीवमित्रवञ्चनालक्षणचिन्तासंतापपरायणश्चितानलं प्रवेष्टुं स्थाणुना ग्रामजनेन च 9 निवार्यमाणो ऽपि मायादित्यः समीहिवान् । ततो ग्राममहत्तरैरनेकैर्वाक्यैः प्रतिबोधितः । ततः स्वमित्रवचनसमुद्भूतपापनिराकरणाय स्थाणुना मित्रेणानुगम्यमानः सर्वाणि तीर्थानि लोकप्रसिद्ध्या समाराधयन् 12 स मायादित्यः समागत्येह समुपविष्टोऽस्ति । ततो मायादित्यः श्रीधर्मनन्दनगुरोर्मुखतः स्वं वृत्तान्त - 12 मवगम्य वभाण | ' यन्मया मायामोहितचेतसा स्वमित्रद्रोहिता कृता तद्पगमनाय प्रसादं विधाय प्रभो, प्रभो दयावास, सिद्धिनिवासभुवं प्रव्रज्यां मह्यं देहि ।' ततो भगवता धर्मनन्दनेन ज्ञानातिशयेन 15 विलोक्योपशान्तमायाकषायप्रचारः स मायादित्यः श्रीतीर्थनाथप्रणीतप्रतीतयथोक्तविधिना प्रवाजितः ।15 । इति मायायां मायादित्यकथा |
18
(२३) चारुचारित्रमलयाचलचन्दनेन गुरुणा श्रीधर्मनन्दनेन पुनरूचे ।
न वर्जयति लोभं यः क्रोधादिरहितो ऽपि हि । निमज्जति भवाम्भोधौ स कालायसगोलवत् ॥ १०६ 18 जीवाः संसारकान्तारे विवेकप्राणहारिणा । स्पष्टं लोभाहिना दष्टा जानते न हिताहितम् ॥ १०७ सलोमे मानवे सद्यो निर्मलापि गुणावली । विलीयते ऽग्निसंतप्ते लोहे तोयच्छटा यथा ॥ १०८ प्रचुरैर्नीरधिनीरैरिन्धनैर्धूमकेतनः । न तुष्यति यथा जन्तुर्घनैरपि धनैस्तथा ॥ १०९ लोभपरवशः प्राणी द्रव्यं नाशयति, मित्रं च हन्ति, दुःखाम्बुधौ निपतति च । पार्थिव, यथैष राशा विज्ञप्तं 'भगवन्, स कः पुरुषः, किमेतेन कृतम्' । समादिष्टं भगवता । 'यस्तव पृष्ठिभागे वामे 24 वास बस्योपविष्टोऽतिकृशशरीरः केवलमस्थिपञ्जर इव रूपेण मूर्ती लोभ इव । नरेश्वर, अमुना लोभा- 24 भिभूतेन यत्कृतं तदेकचित्ततया श्रूयताम् । तथा हि । इहैव जम्बूद्वीपे द्वीपे भरतक्षेत्रे मध्यमखण्डे
''
'पुरुषः
21
27
30
30
समस्ति नगरी सौवरामणीयकसंपदा । स्वः पुरस्तन्वती तक्षशिला मनसि लाघवम् ॥ ११० कपि शीर्षावली म्रवप्रव्याजेन भोगिराट्। सहस्रशीर्षः सौन्दर्य यस्या द्रष्टुमुपागतः ॥ १११ प्राकारः स्फाटिको यत्र परिखाम्बुनि बिम्बितः । भोगावतीनिरीक्षायै विशतीव रसातलम् ॥ ११२ सुजातिरम्याः सुशिवाः सदारम्भा वृषाश्रयाः । स्वभयाः स्वशना यत्रोद्याना इव जना बभुः ॥ ११३ प्रासादा यत्र राजन्ते महाराजतनिर्मिताः । क्रीडानिमित्तमायाता मेरोरिव कुमारकाः ॥ ११४ असंख्यात हरिख्यातां सदा जयविराजिताम् । यां पुरीं स्वःपुरी वीक्ष्य हियेवादृश्यतामगात् ॥ ११५ श्रीनाभेयपदस्थाने धर्मचक्रं मणीमयम् । श्रीबाहुबलिना यत्र सहस्रारं विनिर्ममे ॥ ११६ 33 यत्र शोभन्ते परमस्नेहलालसचेतसो जना अनगाराश्च सदा परमदारं सदारागपरं सदाहारसारं 33 विभविवृन्दं मुनिमण्डलं चेति । तस्याः पुर्याः पश्चिमदक्षिणयोरन्तराले दिग्विभागे समुच्चधान्यकूटाभिराम उच्चलाख्यो ग्रामः । तस्मिन् शुद्धवंशभवो धनदेवाभिधः सार्थपतिपुत्रः परिवसति । परैः सार्थ36 पतिपुत्रैः सह तस्य क्रीडां कुर्वतः क्रियानपि कालो व्यतिचक्राम ।
36
२४) स धनदेवः स्वभावत एव लोभदत्तचित्तः सततभेव वञ्चक शिरोमणिरलीकवचनभाषी परद्रव्यापहारी । ततस्तस्येदृशस्य तैः सार्थनाथतनुजैर्धनदेव इति नाम निराकृत्य लोभदेव इत्यभिधा विदधे ।
* 21
Jain Education International
21
For Private & Personal Use Only
10 ) PB om. तत: 11 ) PB गम्यमानस्तीर्था सर्व्वाणि लोक 17 ) PB omit गुरुणा श्री. 26 ) D तक्षसिला 28 ) B has (on भोगावती) amarginal gloss, नागपुरी 29 ) On. सुजाति ete. B has & marginal gloss: जातिगत्र मालती च । सुष्ठु शिवं कल्याणं येषां द्वि० शोभनाः शिवाः पुण्डरीका वृक्षाः सहकारा यत्र । सत्प्रधान आरंभो येषां ते तथा । सदारंभाः कदल्यो येषु ॥ सुष्ठु निर्भयाः शोभना हरीतक्यो यत्र । शोभनं अशनं भोजनं द्वि० ऽशना वृक्षविशेषा यत्र ॥ 31 ) B has a marginal gloss on असंख्यात etc. असंख्यातैर्हरिभिरचैः प्रसिद्धां - जय इंद्रपुत्रः सकसत्चिह्नवति कदापिनेत्यर्थः [?] 33 ) PB om. यत्र B has a gloss (on परं): परं केवलं अस्नेहमुनयः 38 ) Prepeats ( after गुरुजनमनुज्ञाप्य ) लोभदेव इत्यभिधा eto. ending with गुरुजनमनुज्ञाप्य
27
www.jainelibrary.org
Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394