________________
*
3
12
-I. $5 : Verse 20]
कुवलयमालाकथा १ 1 ३) तथाहि । जम्बूद्वीपे द्वीपे धर्मवारणसधर्मणि षट्खण्डभरतक्षेत्रस्य दक्षिणार्धे मध्यमदेशा-1
वनीमौलिमण्डनमणिविनीता नाम नगरी । या महापुरुषनाभिजन्मनो जिनेश्वरस्य समेतवासवकृतराज्याभिषेकानन्तरं संप्राप्तनलिनीदलनिक्षिप्तवारिव्यातकरमिथुनकपर्यस्तचरणयुगलाभिषेकदर्शनस-3 हर्षहरिप्रजल्पितसाधुविनीतपुरुषाङ्किता विनीतेति प्रसिद्धा तदाभवत् । यत्र च शक्रः स्वयं प्रमुदितचेता भक्तिभरनिभृतो वासनावासितान्तःकरणो ऽनन्तमहिमामेयगाङ्गेयच्छायकायश्रीनामेयस्य समुच्छितम6 पनीतहृदयावसादं प्रासादं कारयांचकार। या चानन्तप्रवरसुरभुवननिवहाग्रध्वजाञ्चलैः करैरिव मत्सदृशी 6 पुरी नापरास्ति [इति] निवेदयतीव । यत्र शुभ्रशरदभ्रविभ्रमधारिणि स्फुटस्फाटिकमयान्यभ्रंलिहाग्राणि हाणि मुरपथपथसंचरिष्णोरुष्णांशोरपि विरचयन्ति स्यन्दनस्खलनम् । यत्र द्विमुखो मृदङ्गः, तीक्ष्णो 9 मण्डलानः, भ्रमणशीलो मधुकरः, सकलङ्कश्चन्द्रः, प्रवासी राजहंसः, चित्रलो मयूरः, अविनयी बालः, 9 चपलः प्लवगः, परोपतापी ज्वलन एव न पुनर्जनः । यत्र च स्पर्श एव प्रस्तरः, पीयूषमेव जलम्, छायाद्रुम एव द्रुमः। वर्यते सा कथं देवैः किल शक्रनिदेशतः । या श्रीमन्नाभिपुत्रस्य निवासार्थ विनिर्ममे ॥ १४ 12 यां वीक्ष्य पथिका नैककौतुकानां निकेतनम् । प्रवासालापवैधुर्य स्वप्रियाणां विसस्मकः॥ १५
तद्वस्तु नास्ति यत्तत्र प्राप्यते प्राणिभिः सुखम् । यत्कथास्वपि वर्तेत तत्सर्वमपि वीक्ष्यते ॥ १६ 15 यत्र वक्राङ्गता हंसे मत्स्ये च स्वकुलक्षयः। अरिष्टं सूतिकागेहे जने नैव कदाचन ॥ १७ 15
राजन्ते यत्र कासारा नराश्च कमलाश्रिताः। सद्वृत्तशालिनः स्वच्छाः सच्छाया द्विजभूषिताः॥१८ यन्मृगाक्षीमुखाम्भोजलावण्येन विनिर्जिता । तपस्यतीव त्रपया सरोजालिः सरोजले ॥ १९ अनन्तवैभवोपेतनिकेतोन्नतकैतनैः । छन्नायां यत्र मार्तण्डमण्डलं न दृशां पथि ॥ २०
18 ६४) तत्र दृढवर्मा नाम राजा। यः सरलो दाक्षिण्यनिधिर्दानशौण्डो दयालुः शरणागतवत्सलः प्रियंवदः[च]। यस्तु दोर्गत्यशीतसंतापितानां दहनः, न पुनर्दहनः; सुजनवदनकमलाकराणां तपना, 21न पुनस्तपनः; घनसमयः स्वजनकदम्बानाम् , शरदागमः प्रणयिजनकुमुदवनस्य, हेमन्तः प्रतिपक्षलक्ष-21 कामिनीकमलिनीनाम्,शिशिरकाल:सौधयुवतीजनकुन्दलतानाम्, सुरभिर्मित्रकाननानाम् , ग्रीष्मः शत्रु
जलाशयानाम् , कृतयुगावतारो निजक्षितिमण्डले, कलिकालो वैरिनरेन्द्रराज्येषु, संतुष्टः स्वकलत्रेषु, न 24 पुनः कीर्तिषु; लुब्धो गुणग्रामेषु, न पुनरर्थेषु; गृद्धः सुभाषितेषु, न पुनरकार्येषु; सुशिक्षितः कलासु, न 24 पुनरलीककपटचाटुवचनेषु । तस्य करालकरवालधाराविदारितवैरिवारणकुम्भस्थलीगलितमुक्ताफलवि
भूषिताखिलक्षितितलस्य सर्वत्रास्खलितप्रसृतनिस्सीमप्रतापतपनशोषिताशेषविपक्षलक्षकीर्तिसरसीवि27 सरस्य शरच्चन्द्रचन्द्रिकावदातगुणसंघातस्य निरवधिसौभाग्यलक्ष्मीकटाक्षलहरीलक्षितसाभिलाषवपुर्वै-27
भवस्य नम्रानेकनरेश्वरशिरःश्रेणिमणिमुकुटतटोद्भवप्रभाजालपिञ्जरितपादारविन्दस्य प्रतापाक्रान्तदिक्चऋवालप्रान्तविश्रान्तशासनस्य मधुमथनस्येव कमला, कुमुदबन्धोरिव कौमुदी, निरुपमरूपतिरस्कृतसुर30सुन्दरीसार्था अनन्यसामान्यपुण्यलावण्योपचिता अविकलकलाकलापकलिता सदा सद्धर्मध्यानदत्ता-30 वधाना सर्वान्तःपुरप्रधाना समग्रगुणग्रामाभिरामा प्रियङ्गुश्यामा स्वयंवरपरिणीता कान्ता कान्ता
बभूव । अथ तस्य तया साकं नाकेश्वरस्येव शच्या विषयसुखमनुभवतः कोऽपि कालो व्यतिचक्राम । 33५) अन्यदा चाभ्यन्तरसभासीनस्य तस्य भूपस्य कतिपयमन्त्रिजनपरिवृतस्य स्नेहवशप्रियाप्रति-33 ष्ठितवामपार्श्वस्य बाहुलतावलम्बितवेत्रलता प्रतीहारी समाययौ । तया विनतया भूपतेः पदपद्मयुग्मम
युग्मभक्त्या विज्ञप्तम् । 'देव, एष शबरसंज्ञसेनापतिपुत्रः सुषेणाख्यस्तदा देवस्यैवाशया मालवनरेन्द्र36 विजयार्थ ययौ स सांप्रतं द्वारि स्वामिनश्चरणाम्बुजदर्शनमभिलषन्नस्ति'। राज्ञोक्तं 'प्रविशतु' इति । 'यदा-36
ज्ञापयति देवस्तत्प्रमाणम्' [इति] वदन्त्या तया प्रवेशितः सेनानीः। स च नृपं विलोक्य किंचिद्भूभागमुपसर्ग्य ननाम । राज्ञापि 'आसनमासनम्' इति जल्पता दक्षिणकरतलेनोत्तमाझं परिस्पृश्य संमानितः। 39 ततो विरचितदेवीप्रणामः स सकलसामवायकनायकगणानतिदूरे यथोचितविष्टरे निषसाद । अथ 39 पृथ्वीभृता तमासनासीनं सुषेणं निरीक्ष्य हृदयाभ्यन्तरप्रवर्तितप्रयोदामृतपूरितनिस्यन्दबिन्दुसंदोहमिव
___12) " निर्देशतः 13) " पथिकानेक. 16) P स्वच्छाया 19) PO दृढधर्मा. 20) P दहनो न, P तपनोन. 23) P कलिकाले. 24) लब्धो for लुब्धो. 28) P तटोद्भपाभा. 30) P अविकलाकलंककलाप. 31) o inter. स्वयंवरपरिणीता & प्रियङ्गुश्यामा. 33) 0g वृतस्य सप्रियस्य बाहु. 34) ० प्रतिहारी. 35) P शबरसंज्ञः- 36) द्वारिगौ स्वामिन'. 39) P प्रणामसकल. 40) Pom. पूरित, Cg 'न्तरे प्रमोदामृतपूरितेन हर्षाभूणि विमुञ्चता सुषेण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org