________________
रत्नप्रभसूरिविरचिता
[1. $2 : Verse 111 ६२) गतिचतुष्टयसंभूतप्रभूतदुष्कृतमयापारसंसारसागरे परिभ्रमता जन्तुना महता कष्टेन मनुष्य- 1 भवःप्राप्यते। तत्रापि दुर्लभप्राप्तपुरुषत्वेन सत्पुरुषेण पुरुषार्थेष्वादरः कर्तव्यः। ते पुनस्त्रिरूपाः। धर्मो ऽर्थः 3 कामः। केषांचिन्मोक्षश्चेति । एतैर्विरहितस्य पुरुषस्य महद्दर्शनाभिरामस्यापि केवलं निष्फल जन्मेति। 3 यतस्तेषु च विशेषत एव धर्मः श्रेयस्तरः। स पुनम्तावद्वहुविधो लोकप्रसिद्धश्च । सर्वेषां मणीनामिव कौस्तुभः, कुञ्जराणामिव सुरगजः, सागराणामिव क्षीरसागरः, नृणामिव चक्रवर्ती, शाखिनामिव 6 कल्पशाखी, शैलानामिव सुमेरुः, सुराणामिव देवेन्दः, तेषां धर्माणामुपरि विराजते जिनेन्द्रप्रणीतो धर्मः। स च चतुर्विधो दानशीलतपोभावनाभेदैः। तत्र प्रथममेव प्रथमतीर्थपेन प्रथितपृथुमहिना धनसार्थवाहभवे व्रतिभ्यः प्राज्यमाज्यं ददता रोपितो दानधर्मः। ततः सिद्धगन्धर्वादीनां प्रत्यक्ष प्रतिज्ञां समाश्रयता भगवता सर्वे मम पापमकरणीयमिति प्रकटीकृतः शीलधर्मः। वर्षोपवासस्थितेन 9 प्रकाशितो लोके तपोधर्मः। तथैकान्ताशरणत्वकर्मवर्गणाबन्धमोक्षनारकतिर्यग्गतिनरामरगमनागमन
दुःखसुखधर्मशुक्लध्यानादिभावनां भावयता भगवता निवेदितो भावनाधर्मः। ततोऽस्मादृशस्तादृशैर्दा12 नादिभिस्त्रिभिर्दूरत एव परित्यक्ताः । यतः सत्त्वसंहननवर्जिताः। तस्मादेष संवेगकारको भावनाधर्म: 12
सुखकरणीय इति । यतः सदा सत्पुरुषालीकदोषप्रवृत्तिपराः प्रमादपरवशचेतसो दुर्जनपार्श्ववर्तिनः परमर्ममार्गानुसारिणस्तिष्ठामः, ततः श्रीमजिनेन्द्रश्रमणपुङ्गवसत्पुरुषगुणग्रामाभिरामोत्कीर्तनेन सफली16 क्रियते जन्मेति । अन्यच्च, ये च पूर्व पादलिप्त-शातवाहन-षट्कर्णक-विमलाङ्क-देवगुप्त-बन्दिक-प्रभञ्जन-15
श्रीहरिभद्रसूरि-प्रभृतयो महाकवयो बभूवुः । येषामकैको ऽपि प्रबन्धो ऽद्यापि सहृदयानां चेतांस्यनुहरति । ततः कथं तेषां महाकवीनां कवित्वतत्त्वपदवीमनुभवामः । यद्यूर्णनाभलालाभिर्मदोन्मत्ताः 18 करिणो बध्यन्ते, यदि वा तुच्छगुजाफलैरनुपमानां विद्रमाणां शोभा प्राप्यते, यदि वा काचशक-18 लैर्वर्यवैडूर्यमणिप्रभा प्रकाश्यते, यदि वा भुजाभ्यासुभाभ्यामम्भोधिस्तीर्यते, यदि वा काञ्चनगिरि स्तुलया तोल्यते, ततश्चतुरचेतसां चमत्कारिणी कथा मादृशैरपि समुद्गीर्यते । परमियं तु न कवि21 त्वमदेन, न च शब्दशास्त्रप्रावीण्येन, न च साहित्यसौहित्येन, न च कर्कशतर्ककौशलेन, किंत्वात्मनो 21 विनोदाय। सा च पञ्चधा सकल-खण्ड-उल्लाप-परिहास-चराख्यादिभिः कथाभिः । एताः कथाः
सी अपि प्रसिद्धाः । एतासां लक्षणधरा संकीर्णकथा ज्ञातव्या । अथ संकीर्णकथैवोच्यते । सापि 24त्रिविधा धर्मार्थकामकथाभिः । ततो धर्मकथैव भण्यते । सा च धर्मकथा चतुर्विधा, आक्षेपिणी १24 विक्षेपिणी २ संवेगजननी ३ निर्वेदजननी ४ चेति । तत्राक्षेपिणी मनो ऽनुकूला १, विक्षेपिणी मन:प्रतिकृला २, संवेगजननी ज्ञानोत्पत्तिकारणम् ३, निर्वेदजननी वैराग्यजनका ४। ततःप्रस्तुतकथाशरीरमुच्यते । तच्च कीदृशम् । सम्यक्त्वलाभगुरुतर परस्परनियूंढसुहृत्कार्य निर्वाणगमनसारमेतद् 27 दाक्षिण्यचिह्नेन सूरिणा निर्मितम् । यथा स कथास्वामी कुवलयचन्द्रो जातः। यथा च प्राक्संगतेन
देवेन हृतः । यथा च तेन सिंहो देवः साधुश्च दृष्टाः शून्ये कानने । यथा स पूर्वजन्म पश्चानामपि 30 जनानां मुनिमुखाच्छुश्राव । यथा स सिंहश्च सम्यक्त्वं प्रतिपन्नौ । यथा स्वर्गाच्युताः परे ऽपि स 30 कुमारश्च दुस्तपं तपो विधाय स्वर्गमार्गमगमन् । तत्र विविधान् भोगान् भुक्त्वा यथा पुनर्भरतक्षेत्रे
समुत्पद्यान्योन्यमजानन्तः सन्तः सर्वे ऽपि केवलिना बोधिताः। श्रामण्यं च निरन्तरं प्रपाल्य संवि33 नास्तपस्तीवं निर्माय कर्म विनिर्मथ्य यथा मोक्षलक्षीमीयिवांसः । तत्सर्वमपि प्रसन्नाया हियो देव-33 ताया मुखतः श्रुत्वा कुवलयमालायां कथायां पूर्वकाविना निबद्धम् । तथात्राप्यसारवचसापि मया भण्यमानं महात्मभिः श्रोतव्यम् । यतः, 38 निस्तेजसो ऽपि माहात्म्यं महानर्पयति श्रितः। नर्गसंसर्गतः पश्य पावित्र्यं भस्मनो ऽपि ॥ ११ 36
सर्वथैव परित्याज्यः स दूरादुर्जनः सताम् । द्विधा स्वेनार्पितेनापि यः परं कुरुते द्विधा ॥ १२ तद्विहाय तयोश्चर्चा स्वस्वकार्यविहस्तयोः । अस्याः कथायाः संक्षेपः क्रियते स्वार्थसिद्धये ॥१३
2) Pom. सत्पुरुषेण, पुनखिरूपा धर्मार्थकामाः ।। 3)"रास्यापि स्यैव के पली. 7) तपोभावभेदैः.89 धनसार्थभवे, P प्राज्यमाचं. 13) P परवशचेतसे पार्श्वदुर्जनपाश्ववर्तिनः. 15) P षट्कर्षर्णक. 18) P यदि तुच्छ. 20) P चमरिणी कथा. 28) P प्राग् संगतेन. 34) P तथा अत्रापि असारवचसापि. 36) c explains भर्गसंसर्गतः as शिवसंसर्गादित्यर्थः in a footnote.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org