SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ रत्नप्रभसूरिविरचिता कुवल यमाला कथा [अथ प्रथमः प्रस्तावः] ॥ओं अहं ॥ ६१) आदित्यवर्ण तमसः परस्तादस्तान्यतेजप्रचयप्रभावम् । यमेकमाहुः पुरुषं पुराणं परात्मदेवाय नमोऽस्तु तस्मै ॥१ लोकालोकलसद्विचारविदुरा विस्पष्टनिःश्रेयसद्वारः स्फारगुणालयस्त्रिभुवनस्तुत्यांहिपङ्केरुहः । शश्वद्विश्वजनीनधर्मविभवो विस्तीर्णकल्याणभा आद्योऽन्ये ऽपि मुदं जनस्य ददतां श्रीतीर्थराजश्विरम् ॥२ गोभिर्वितन्वन् कुमुदं विमुद्रं तमासमूहं परितः क्षिपंश्च । ददातु नेत्रद्वितयप्रमोदं श्रीशान्तितीर्थाधिपतिर्मुगाङ्कः ॥ ३. शिवाय भूयादपुनर्भवाय शिवाङ्गजन्मा स शिवालयो वः। जन्मप्रभृत्येव न यस्य कस्य ब्रह्मव्रतं विश्रुतमेतदत्र ॥४. अष्टमूर्तिरिव भाति यो विभुनम्रनागमणिराजिबिम्बितः। दर्पकोपचितिविच्युतिक्षमः क्षेममेष तनुतां जिनः सपः॥५ यन्नाममन्त्रवशतोऽपि शरीरभाजां नश्यन्ति सामजघटा इव दुष्कृतौधाः। पादानलाञ्छनमृगेन्द्रभुवा मियेव देवः स वः शिवसुखानि तनोतु वीरः॥६ साभारती यच्छतु वाञ्छितानि यस्याः प्रसादात्कवयो वयन्ति । प्रबन्धवासः सुगुणाभिरामं न यस्य मूल्यं न च जीर्णता च ॥७ भास्वन्तमत्यन्तमुदा द्विधा तं गुरुं तमस्तोमहरं प्रणौमि । गोसंगतो यस्य भवत्यवश्यं विकस्वरं ज्ञानसरोजमेतत् ॥८ कुवलयमालेव कथा कुवलयमालाह्वया कुवलये ऽस्मिन् । अर्थप्रपञ्चपरिमलपरिमिलिताभिक्षरोलम्बा ॥९ दाक्षिण्यचिह्नमुनिपेन विनिर्मिता या प्राक् प्राकृता विबुधमानसराजहंसी। तां संस्कृतेन वचसा रचयामि चम्पू सद्यः प्रसद्य सुधियः प्रविलोकयन्तु ॥ १० The references 1), 2), eto. are to the numbers of the lines of the text, put on both the margins. 1) After the syubol of bhale, which looks like Devanagari ६०,P opens thas: आई। श्रीगीतमाय नमः॥ नमः श्रीहीदेवतायै॥ नमः श्रीबृहत्कुवलयमालाकथाविधायिने श्रीदाक्षिण्यचिहरिप्रवराय ।। ओं अर्ह ॥ आदित्यवर्ण eto.sa has its opening folios missing; o is made to open thus: | अहँ । न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपोम्यो नमः । श्रीमद्रसप्रभसूरिविरचिता कुवलयमालाकथा । आदित्यवर्ण etc. 12)P विभुनान (नम्न !). 13) विधुतिक्षमः. 16) tor देवः. 18) द्विधातुं गुरुं 19) P नाम for ज्ञान. 23) प्राग् प्राकृता. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy