Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 309
________________ रत्नप्रभसूरिविरचिता [I. $5 : Verse 211मुञ्चता स्निग्धधवलपक्ष्मलचलन्नयनयुगलेन 'सुषेण, कुशलं तव' इत्यप्रच्छि। तेनोक्तं 'देवचरणयुगल- 1 दर्शनेनापि सांप्रतं मम क्षेमम्' इति । नृपेणोक्तं 'मालवनरेश्वरेण सह भवतां को वृत्तान्तः समभूत्। 3 ततः सुषेणः प्रोवाच । “देवपादानामादेशेन तदा चतुरङ्गबलेन मालवपतिना समं संग्रामः समजनि। 3 तावहेवप्रतापेन प्रसर्पता मत्सैन्येन रिपुबलं भग्नम् । सैनिकैस्तदीयं सर्वस्वमपि स्वीचके। तस्यान्तःस्थितो ऽबालचरितो बाल एकः पञ्चवर्षदेशीयस्तनृपतिसुतः स्वशक्त्या युध्यमानो ऽस्माभिर्गृहीतः। स एष 6 सांप्रतं द्वारदेशे ऽवतिष्ठते । ततो भूपतेरादेशलेशेन मालवनरेन्द्रनन्दनो महेन्द्रनामा स्फुरत्सौभाग्य-6 सुभगः पुण्यलावण्यावयवश्रीश्चम्पककुसुमतनुरतनुगुणग्राममन्दिरं भविष्यन्महागन्धगज इवादीनईष्टिपातैर्विलोकयन्नास्थानमुपनृपमाजगाम । ततो राज्ञा विलसत्स्नेहनिर्भरहदा दीर्घतरभुजादण्डाभ्यां गृहीत्वा निजोत्सङ्गे निवेशितः । भूपतिस्तं निरीक्ष्य प्रमुदितमनाः समुद्र इव चन्द्रमसं स्वयं परिरभ्य बभाषे। 9 'अहो, बज्रकठिनमानसो ऽस्य जनको यो ऽद्याप्यस्य वियोगे जीवति । देव्यपि कुमारं देवकुमारमिव पश्यन्ती पुत्रमिव स्नेहं बिभ्रती जल्पितवतीति । 'धन्या सा युवतिर्यस्याः कुक्षौ रोहणगिराविव गुणैरस12 पत्नं पुत्ररत्नम् । दारुणा सा या सुतविरहे आत्मानं बिभर्ति ।' सचिवेश्वरैरुक्तम् । 'किं करोत्वेषः, ईदृश 12 एव विधिपरिणामः । तव सुरुतविलसितं चैतत् ।' अपि च। भवेयुर्न भवेयुर्वा कस्य कस्यापि भूस्पृशः। अतीव स्युः पुनः पुण्यवशतः सर्वतः श्रियः ॥ २१ 18६) अत्रान्तरे स चाभ्यन्तरगुरुदुःखज्वलनज्वालावलीतप्तचित्तो बाष्पाश्रुभी रोदितुं प्रवृत्तः ।। ततस्तस्य महीभृतः ससंभ्रमजलतरणास्फालितशतपत्रमिव समुदितोदयाचलचूलावलम्बिमार्तण्डमण्ड लकिरणगणाहतदिवसधूसरशशधरविम्बमिव दीप्रप्रदीपप्रभापराभूतमालतिप्रसूनमिव बालस्यास्यं 18 पश्यतः किंचिच्चित्ते 'महदुःखम्' इति वदतः प्रसृतबाष्पजलाई नयनयुगमभृत् । प्रकृतिकरुणहृदयाया 18 देव्या अपि क्षणमश्रुबिन्दुसंदोहेन निपतता कुचकलशोत्सङ्गे हारलीलायितमलंचक्रे, मन्त्रिजनस्यापि पतितश्चाश्रुप्रसरः। 'अहो अतुच्छगुणवत्सल वत्स स्वच्छचित्त, मा विषादस्यावकाशी भव' इति जल्पता भूभृता स्वदुकूलाञ्चलेन बालस्य विमलीकृतं वदनकमलम् । ततः परिजनोपनीतशीतलजलेन कुमारस्य 21 स्वस्य च नयनानि प्रक्षालितानि देव्या मन्त्रिगणेन च । राज्ञा भणितम् । 'भो भोः सुरगुरुप्रमुखाः सचि वेश्वराः, भणत किं कुमारेण ममोत्सङ्गसंगिना रुदितम।' तत एकेनोक्तम् । 'किमत्र ज्ञेयम् । यत एष 24 खलु बालः पितृमातृवियुको विषण्णचित्तः, अत एतेन रुदितम् ।' अपरेणोक्तम् । 'देव, त्वां विलोक्य 24 निजपितरौ हृदि स्थितावित्यनेन रुदितम् ।' अन्येन च भणितम् । 'देव, तथा अस्मिन् समये सम्यग् न ज्ञायते यदस्य बालस्य पितरौ किमवस्थान्तरमनुभवतः, अतो ऽनेन दुःखेन रुदितम्। राजापि जजल्प। 27 किमत्र विचारेण, इममेव पृच्छामः।' भणितश्च भूपतिना । 'पुत्र महेन्द्रकुमार, कथय कथं त्वयाश्रुपात: 27 कृतः। ततः कुमारेण किंचित्सगद्गदं गम्भीरमधुराक्षरं भणितम् । 'पश्यत विधिविलसितम्, यत्तादृश स्यापि तातस्य पुरन्दरसमविक्रमस्य राज्यभ्रंशः समभवत्, तथाहं च शत्रुजनस्योत्सङ्गसंगतः शोचनीय30 तामगमम् , ततो मयानेन मन्युना बाष्पप्रसरो रोद्धं न शक्यते।' अथो भूभृता तद्वनिर्गतवाक्यविस्म-30 याबद्धरसाक्षिप्यमाणमनसा भणितम् । अहो बालस्यामानो ऽभिमानः, अहो सावष्टम्भत्वम् , अहो वचनविन्यासः, अहो स्फुटाक्षरालापत्वम् , अहो कार्याकार्यविचारणं चेति सर्वथा विस्मयनीयमेतत् । यदेत33 स्याप्मयवस्थायामीदश एव बुद्धिविभवः।' इति जल्पता भूभृता वीक्षितानि सचिवेशाननानि । मन्त्रिभि-33 रुक्तम् । 'देव, को ऽत्र विस्मयः। यथा गुजाफलप्रमाणोऽपि ज्वलनो दहनस्वभावः, सिद्धार्थमात्रोऽपि रत्नविशेषो गुरुरेव, तथैते महावंशप्रसूताराजपुत्राः सत्त्वपौरुषमानप्रभवर्गुणविभवैः सह संवर्धितदेहा एव 36 भवन्ति । अन्यत्, देव, नैते प्रकृतिपुरुषाः, किंतु देवत्वच्युताः सावशेषशुभकमाणो ऽत्र जायन्ते।' ततो 38 - महीभृता जल्पितम् । एवमेवैतत् , नात्र संदेहः' इति । भणितश्च सानुनयं कुमारः। 'वत्स, मा चिन्ता चान्तमना भव । यथाहं भवतां रिपुस्तत्सत्यम्, न पुनः सांप्रतम् । यदा त्वमस्मन्मन्दिरे समागतस्तदा. 39 प्रभृत्येव त्वदर्शनमात्रेणापि स त्वत्पिता नृपतिर्मित्रं जातः। भवान् मम पुत्र एव । एवं परिशायाधृति 39 मा कार्षीः । मुश्च प्रतिपक्षबुद्धिम् । अभिरमस्व वत्स, स्वेच्छयात्मनो निकेतने यथा, सर्वमेव भव्यं भावि' इति भणित्वा नृदेवेन कुमारस्य वक्षःस्थले स्वकण्ठकन्दलादुत्तार्य निर्मलमुक्ताफलहारो निक्षिप्तः, 42 दत्तानि च क्रमुकफलफालीकलितनागवल्लीदलानि । तेन 'महाप्रसादः' इति भगित्वा तत्सर्वे 42 11) Pविभ्रती तल्पित. 13) सुकृतं विलसितं. 17) Pमालतीप्रसून. 20) 0g स्वस्थचित्त. 22)P भो भो. 26) P 'मनुभवतोऽनेन. 28) P गद्गदगम्भीर. 35) P रनविशेषोऽपि गुरु', og गुणविशेवैः सह सवर्तित. 40) P वत्सेच्छयात्मनो निकेते यथा. 41) मुकीफल. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394