Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 14
________________ - कूपदृष्टान्तविशदीकरणं र अपरस्य सम्यग्ज्ञानं भवति 'अयं वृक्षः' इति। इत्थं तावद् द्वयोः ज्ञानं भवति। तदनन्तरं परस्परं कथयत: तौ। एकः कथयति ‘पश्य, अग्रे पुरुषः' इति, द्वितीयः कथयति 'न स पुरुषः, किन्तु वृक्षः' इति। अत्र द्वयोः शङ्का जाता 'किं मदीयं ज्ञानं सत्यं, उत अपरस्य'। अत्र हि ज्ञानं द्वयोरस्ति, किन्तु एकमपि ज्ञानं प्रमाणतया ( = सत्यतया) निश्चितं नास्ति। तदैव पुर:स्थिते वस्तुनि पक्षिण उपविष्टाः, द्वाभ्यां ते दृष्टाः, ततश्च वृक्षज्ञानी वदति "वृक्षे एव पक्षिण उपविशन्ति, न तु पुरुष, तस्मात् पुर:स्थितं वस्तु वृक्ष एव, न तु पुरुष इति मदीयं ज्ञानमेव प्रमाणं इति निश्चितं" इति। इत्थं च निश्चितं प्रामाण्यं यस्य, तत् निश्चितप्रामाण्यकं, प्रकृते वृक्षज्ञानं, तस्य विषयस्तु वृक्षः, न तु पुरुष इति। अधुना प्रकृतं उच्यते। (१) 'द्रव्यस्तवः स्वपरोपकारजनकत्वात् निर्दोष: कूपदृष्टान्तात्' इत्यस्माकं ज्ञानं (२) 'द्रव्यस्तवः स्वरूपहिंसायुक्तत्वात्किंचित्सदोषमपि गुणकरं कूपदृष्टान्तात्' इत्यपरेषां ज्ञानम्। तत्र कस्मिन्ज्ञाने प्रामाण्यं इति निश्चितं कर्त्तव्यम्। एतदेवाह महोपाध्यायाः →"यस्मिन्ज्ञाने प्रामाण्यं निश्चितं, तादृशज्ञानस्य विषयतया कूपदृष्टान्तं प्रदर्शयामि" - इति।। तत्र प्रथममेव ज्ञानं निश्चितप्रामाण्यकं, न तु द्वितीयं, तस्यैव च विषयतया कूपदृष्टान्तः प्रदर्शयिष्यते महोपाध्यायैः इति। सम्यक् = असम्भावनाविपरीतभावनानिरासेन इति। येन कूपदृष्टान्तविशदीकरणेन श्रोतुः कूपदृष्टान्तस्य ज्ञानमेव न भवेत्, तद् विशदीकरणं असम्भावनात्मकं असम्यक्। येन कूपदृष्टान्तविशदीकरणेन श्रोतुः कूपदृष्टान्तस्य विपरीतं ज्ञानं भवेत्, तद् विशदीकरणं विपरीतभावनात्मकं असम्यक्। येन कूपदृष्टान्तविशदीकरणेन श्रोतुः कूपदृष्टान्तस्य अज्ञानविपरीतज्ञानयोः निरासेन ज्ञानं भवेत्, तद् विशदीकरणं सम्यक् इति। ___ अत्रासम्भावनास्वरूपं चेत्थं → यथा कश्चिद् गोलक्षणं वदति 'पञ्चपादवत्त्वं गोत्वं' इति। अनेन प्रतिपादनेन श्रोतुः एकस्या अपि गो: ज्ञानं न सम्भवति, पञ्चपादवत्त्वस्य एकस्यामपि गवि अभावात्। तथा चेदं प्रतिपादनं असम्भावनादोषदुष्टम्। विपरीतभावनास्वरूपं चेत्थं → यथा कश्चिद् गोलक्षणं वदति "शृंगवत्त्वं गोत्वं" इति। अनेन प्रतिपादनेन श्रोतुः यद्यपि गवि गोत्वज्ञानं सम्भवति, सर्वासां गवां शृंगवत्त्वात्, ततश्च अत्र असम्भावना नास्ति, किन्तु महिषादिष्वपि गोत्वज्ञानं सम्भवति, तेषामपि शृंगवत्त्वात्, तथा चात्र अतिव्याप्तिरूपविपरीतज्ञानं भवति। एवं 'श्यामरूपवत्त्वं गोत्वं' इति प्रतिपादनेन श्यामरूपवत्यां गवि गोत्वज्ञानं सम्भवति, किन्तु

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106