Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 60
________________ - कूपदृष्टान्तविशदीकरणं । तथैवाविधिभावेऽपि मन्तव्यम्' इत्यपिशब्दार्थः । केवलं तत्राविधिभावो भग्न इवावतिष्ठते, अत्र भक्तिभावो भग्न इवावतिष्ठते। ___ अयं चाविधिभावः कीदृशः? इत्याह अविधिभक्तिपर्यवसायिनि = अविधिरेव प्रधानो यस्यां,तादृशी या भक्तिः, तत्स्वरूपोऽयमविधिभावः परमार्थतोऽस्ति इति। न त्वत्र अविधिसमन्विता भक्तिः' इत्येवमर्थः करणीयः, यस्मादस्मिन्नर्थे अविधिसमन्विताया भक्तेः प्राधान्यमपि भवेत्, न चैतदिष्टम्, एकधारारूढेऽविधिभावे अविधिप्राधान्यस्यैव प्रतिपादयितुमिष्टत्वाद् इति। अविधिभावस्यैवात्र प्राधान्यं प्रतिपादयितुं स्पष्टं विशेषणमाह - विधिपक्षादूषकतामप्यसहमाने इति। अयं भावः - अविधिभावोऽनेकविधो भवति, तथाहि - एकस्तावदविधिभाव: कारणिक अत एवापवादरूपः, परमार्थतस्तु विधिभाव एवेति। द्वितीयोऽविधिभावः अज्ञानजन्यो विधिबहुमानादिसमन्वितश्च। तृतीयोऽविधिभावः विधिज्ञानसद्भावेऽपि प्रमादजन्यः, किन्तु सम्यग्दर्शनमाहात्म्यात् विधिरूपस्य पक्षस्य बहुमानवान्, अतो विधिपक्षप्ररूपणाऽविधिपक्षखण्डनादिगुणवान्। चतुर्थोऽविधिभावः प्रमादादिजन्यः, मिश्रसम्यक्त्वसदृशत्वात् न विधिपक्षं प्रति बहुमानवान्, न वा विधिपक्षं प्रति निन्दादिमान्। अयं चाविधिभावो विधिपक्षाऽदूषकतावान् गण्यते। ___ किन्तु योऽविधिभावो विधिपक्षं दूषयति, 'विधिः निष्फल एव, किं तेन' इत्यादिना विधिपक्षं खण्डयति, सोऽविधिभावो विधिपक्षाऽदूषकतामपि न धारयति। स एव विधिपक्षादूषकतामपि असहमान' इत्युच्यते। ततश्च एतादृश एकधारारूढोऽविधिभावो यत्रास्ति, तत्र भक्तिभावस्तथा भग्न इवावतिष्ठते इति भावः । ननु किमर्थं 'तत्र विद्यमानोऽनुत्कटो भक्तिभावो भग्न इवावतिष्ठते' इति मन्यते? इत्यत्र कारणमाह - अविधियुतस्य = एकधारारूढेण विधिपक्षादूषकतामपि असहमानेनाविधिना सहितस्य विषयेऽपि = तीर्थकरादौ श्रेष्ठविषयेऽपीति। कुदेवादिविषये तु तादृशाविधियुतस्यार्चनादेर्भावस्तवहेतुत्वं नैव भवतीति ज्ञापनार्थं अपिशब्दः। अर्चनादेः = जिनपूजनादेः, अर्थात् जिनविषयकस्य भक्तिभावस्य भावस्तवाहेतुत्वेन = देशविरतिसर्वविरत्यादिस्वरूपस्य भावस्तवस्य द्रव्यस्तवप्रधानप्रयोजनस्य अजनकत्वेन न द्रव्यस्तवत्वम् = न तात्त्विकं जिनपूजनत्वम्। निरर्थकमेव तदिति भावः इति = 'अविधियुतस्य' इत्यादेरारभ्य 'न द्रव्यस्तवत्वम्' इत्येतदन्तं यावत् प्रतिपादनात् = निरूपणात् । विवेचकाः = पदार्थं स्पष्टं विवेचयितुं समर्थाः। अयमत्राशयः - (१) जिनपूजादौ यस्मिन्ननुष्ठाने सर्वथा भक्तिभाव एवास्ति, अविधिभावस्य लेशोऽपि नास्ति,

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106