Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
कूपदृष्टान्तविशदीकरणं
२७
केवलं सर्वोत्कृष्टो विरतिपरिणाम एव गृह्यतामित्यत आह - सर्वसंवरस्य च = सर्वोत्कृष्टस्य विरतिपरिणामस्य शैलेश्यामेव = न तु षष्ठादिगुणस्थानेष्वपीति एवकारार्थः सम्भवात्।
तथा च सर्वसंवरजनितस्याशुभानुबन्धापनयनस्यापेक्षया यदि अकर्कशवेदनीयं उच्येत, तर्हि तादृशं षष्ठादिगुणस्थानेऽपि न स्यात् । एवं शैलेश्यामपि न तत् कर्म सम्भवेत्, तत्र कर्मबन्धस्यैवाभावात् । तथा चाकर्कशवेदनीयं कर्मैव न घटेतेति ।
तस्मात् अत्र विशिष्टविरतिपरिणामजनितेनाशुभानुबन्धापनयेन युक्तं कर्मैव अकर्कशवेदनीयं ग्राह्यम्, न तु देशविरतिपरिणामजनितेन, न वा मिथ्यात्वशल्यविरमणपरिणामजनितेनाशुभानुबन्धापनयेन युक्तं, न वा सर्वसंवरपरिणामजनितेनाशुभानुबन्धापनयेन युक्तमिति ।
यशो. : एतेन 'देवेष्वर्ककशवेदनीयकर्मकरणनिषेधादेव द्रव्यस्तवस्य न तद्धेतुत्वम्' इति दुर्वादिमतमपास्तं ।
थन्द्र. : एतेन = प्रौढिवादप्रतिपादनेन दुर्वादिमतम् अपास्तं इत्यन्वयः कार्यः।
देवेषु इत्यादि। दुर्वादिमतस्याभिप्रायस्त्विदम् → भगवतीसूत्रे अकर्कशवेदनीयं कर्म देवेषु निषिद्धम्, देवाश्च द्रव्यस्तववन्तो भवन्ति, तथाऽपि तेषु यदि तन्नास्ति, ततश्च द्रव्यस्तवसत्त्वेऽपि अकर्कशवेदनीयं नास्तीति ‘कारणसत्त्वेऽपि कार्यं नास्ति' इत्यादिस्वरूपः अन्वयव्यभिचारोऽत्र भवतीति कृत्वा द्रव्यस्तवो न अकर्कशवेदनीयस्य कारणम् ← इति ।
यशो. : “ ज्ञेया सकामा यमिनाम् " (योगशास्त्रे) इत्यादिवदीदृशप्रौढिवादानामुत्कृष्टनिषेधपरत्वात्।
=
चन्द्र. : ननु कथं दुर्वादिमतमपास्तं ? इति जिज्ञासायामाह - ज्ञेया सकामा यमिनामित्यादिवत् इत्यादि। अयं भावः, श्रीयोगशास्त्रे हेमचन्द्रसूरिभिः ' ज्ञेया सकामा यमिनाम्, अकामा त्वन्यदेहिनाम्' इति गाथायां यमिनः साधवः, तद्भिन्नानां सर्वेषामकामनिर्जरा प्रतिपादिता । ततश्च तत्राऽपि इयमापत्तिः यदुत 'किं देशविरतिधराणां श्रावकाणामपि अकामनिर्जरा भवति ?' तत्र समाधानमिदमेव यदुत अयं प्रौढिवादः । एतादृशा: प्रौढिवादाश्च उत्कृष्टस्यैव निषेधं कुर्वन्ति, न तु जघन्यमध्यमयोः । अर्थात् 'साधुभिन्नानां गृहस्थादीनां उत्कृष्टा सकामनिर्जरा नैव भवति' इति । न चैते प्रौढिवादाः सर्वथा निषेधकराः।
प्रस्तुतः अकर्कशवेदनीयस्य देवेषु निषेधकरो भगवतीपाठोऽपि प्रौढिवाद एव, सोऽपि च योगशास्त्रपाठवत् देवेषु विशिष्टविरतिपरिणामवतां सम्भवत् अकर्कशवेदनीयं कर्मैव निषिध्यति, न तु सर्वथा अकर्कशवेदनीयं, तिर्यक्षु मध्यमस्य अकर्कशवेदनीयस्य देवेषु च जघन्यस्याकर्कशवेदनीयस्य सद्भावादिति ।
यशो. : अन्यथा तदीयभगवद्वन्दनगुणोत्कीर्त्तनादीनामप्यतादृशत्वाऽऽपत्तेरिति विभावनीयं सुधीभिः
॥११॥
૭૫

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106