Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 94
________________ कूपदृष्टान्तविशदीकरणं मोक्षप्रापकत्वात् । तथा च केवलज्ञानादि साक्षान्मोक्षाङ्गं ततश्च तस्य प्रार्थना साक्षान्मोक्षाङ्गत्वात् न निदानं इति अत्र सिद्धम् । अत्र दृष्टान्तः । केचित् जैनेतरा देवीप्रभृतिसुखसमन्वितं स्वर्गमेव मोक्षं मन्यन्ते, तात्त्विकजैनास्तु सर्वथा पौद्गलिकसुखरहितं आत्मिकसुखसमन्वितमेव च मोक्षं मन्यन्ते । ततश्च द्वयेऽपि यदा 'मम मोक्षः स्यात्' इति प्रार्थनां कुर्वन्ति,तदा जैनेतराणां सा प्रार्थना शब्दतो मोक्षप्रार्थनारूपाऽपि सती तद्भावापेक्षया तु देवीप्रभृतिसुखप्रार्थनारूपैव । तात्त्विकजैनानां तु सा प्रार्थना शब्दतो भावतश्चापि तात्त्विकमोक्षप्रार्थनारूपैवेति । अत एव 'मम देवीप्रभृतिकं भवतु' इति प्रार्थनावत् प्रतिपादितानां जैनेतराणां 'मम मोक्षः स्यात्' इति प्रार्थनाऽपि भवरागसमन्विता सती मलिनैवेति। एतत्सर्वं तीर्थकरत्वप्रार्थनायामपि उपयुज्य वाच्यम्। यशो. : आह च - 'मोक्खंगपत्थणा इय, न नियाण तदुचियस्स विण्णेयं । सुत्ताणुमईओ जह, बोहीए पत्थणा माणं । ' ( पू. प. ३६) इय = एषा 'जयवीयरा' त्यादिका, तदुचितस्य = प्रणिधानोचितस्य, प्रमत्तसंयतान्तस्य गुणस्थानिन इत्यर्थः । सूत्रानुमतेः, साभिष्वङ्गस्य तस्य निरभिष्वङ्गताहेतुत्वेन सूत्रे प्रणिधानाऽभिधानात्, यथा बोधे: प्रार्थना मानं = निदानत्वाऽभावसाधकमनुमानम् । आह च = प्रतिपादितमेवाह पञ्चाशकगाथान्वयस्त्वेवम् एषा मोक्षाङ्गप्रार्थना तदुचितस्य सूत्रानुमतितो न निदानं यथा बोधे: प्रार्थना मानं = प्रमाणम् । प्रमत्तसंयतान्तस्य गुणस्थानिन इत्यर्थः = तदुपरि अप्रमत्तप्रभृतिकाः प्रणिधानोचिता न सन्ति । ननु एतेषां कथं एषा प्रार्थना न निदानं ? इति चेत्, सूत्रानुमतेः = शास्त्रस्य याऽनुज्ञा, तत्सद्भावात्। तथा च यत्र शास्त्रानुमतिः, सा प्रार्थना न निदानं, न हि शास्त्रं निदानेऽनुमतिं ददाति । ननु सूत्रे अनुमतिरस्ति इति कथं सिद्धमित्यत आह साभिष्वङ्गस्य = भवनिर्वेदादिसम्बन्धिना प्रशस्तरागेण सहितस्य तस्य = प्रणिधानस्य निरभिष्वङ्गताहेतुत्वेन = यत्र प्रशस्तोऽपि रागो नास्ति, तादृशावस्थाया निरभिष्वङ्गतारूपायाः कारणत्वेन सूत्रे जय वीयरायसूत्रे एव प्रणिधानाऽभिधानात् ' होऊ ममं तुह पभावओ भयवं' इत्यादिना प्रणिधानस्य निरूपणात् । यथा बोधे: प्रार्थना नामस्तवार्न्तगता प्रतिपादिता मानं निदानत्वाभावसाधकमनुमानम् । यशो. : दृष्टान्तावयवेऽनुमानत्वोक्तिरूपत्वात्। थन्द्र. : ननु → ‘जय वीयराय' इत्याद्यन्तर्गता प्रार्थना न निदानं (निदानत्वाभाववती) सूत्रानुमतितः 1 - = =

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106