Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 96
________________ - कूपदृष्टान्तविशदीकरणं । वस्तुतः = परमार्थत औदयिकभावप्रकारत्वावच्छिन्नतीर्थकरभवनेच्छाया = 'छत्रचामरादिविभूतिमान् तीर्थकरोऽहं भूयासम्' इति या तीर्थंकरभवनेच्छा, तस्यां छत्रचामरादिविभूतिरूप औदयिकभावः प्रकार:, तस्मिन्प्रकारता। ततश्चेयं तीर्थंकरत्वभवनेच्छा औदयिकभावप्रकारत्वावच्छिन्नाऽस्ति। तादृशेच्छाया एव, न तु इच्छामात्रस्येति एवकारार्थः, निदानत्वं। यशो.: तेन तीव्रसंवेगवतः 'कतिपयभवभ्रमणतोऽप्यहं सिद्धो भूयासम्' इत्यस्येवोक्तसङ्कल्पस्य || न निदानत्वमित्युक्तावपि न क्षतिः । यन्द्र.: तेन = 'एतादृशेच्छाया एव निदानत्वमस्ति' इत्यनेन कारणेन तीव्रसंवेगवतः = तीव्रमोक्षाभिलाषवत: 'कतिपयभवभ्रमणतोऽप्यहं सिद्धो भूयासम्' = यदि शीघ्रमेव मोक्षो भवेत्, तर्हि श्रेष्ठमेव। किन्तु यदि कतिपयभवान् भ्रान्त्वाऽपि यदि मम सिद्धिपदप्राप्ति: स्यात्, तर्हि सुन्दरतममेवेति अस्येव = प्रस्तुताध्यवसायस्य इव उक्तसङ्कल्पस्य = 'भवभ्रमणतोऽप्यहं तीर्थकरो भूयासम्' इति प्रतिपादितस्य सङ्कल्पस्यापि न निदानत्वम्। कतिपयभवभ्रमणतोऽपि सिद्धभवनेच्छायास्तीव्रसंवेगजन्याया औदयिकभावप्रकारत्वावच्छिन्नत्वाभावाद् यथा न निदानता,तथैव भवभ्रमणतोऽपि तीर्थकरभवनेच्छायास्तीतसंवेगेनैव जन्याया औदयिकभावप्रकारत्वावच्छिन्नत्वाभावादेव न निदानत्वं इति। इति उक्तावपि = एवं प्रकृतसङ्कल्पस्य निदानत्वाभावकथनेऽपि न क्षतिः = न दशाश्रुतस्कन्धोक्तवचनेन सह विरोधापत्तिः, यस्मात्तद्वचनं हि औदयिकभावप्रकारत्वावच्छिन्नाया एव तीर्थंकरभवनेच्छाया निदानत्वं प्रतिपादयति, न तु तदन्यायास्तीव्रसंवेगजन्याया इति। यशो.: तीर्थकरत्वविभूतेरप्यकाम्यत्वमधिकृत्योक्तमन्यैरपि - 'देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान्' ॥ इति ॥ (आप्त० मि. १) यन्द्र.: नन्वेवं अर्थादापन्नं तीर्थंकरविभूतिस्तु छत्रचामरादिरूपाऽनभिलषणीयैवेति चेत्, सत्यमेव। यस्मात् तीर्थंकरत्वविभूतेरपि = 'आस्तां तावच्चक्रवर्त्यादिरूपपापपदवीविभूते: अकाम्यत्वं' इत्यपिशब्दार्थः, अकाम्यत्वं = अनभिलषणीयत्वं। अधिकृत्य = आश्रित्य उक्तं अन्यैरपि = दिगम्बरैरपि, न केवलं श्वेताम्बरमतानुसारिभिः पूज्यतमैरिति 'अपि' शब्दार्थः। आप्तमीमांसागाथायाः सङ्केपार्थस्त्वयम् - → हे भगवन्! देवानां आगमनं, नभसि नवकमलेषु गमनं, चामरप्रभृतयश्च या भवतो विभूतयः, तास्तु मायाविषु अपि = इन्द्रजालिकादिष्वपि, 'न केवलं भगवत्येव' इति अपिशब्दार्थः। दृश्यन्ते अम्बडपरिव्राजककृतास्तीर्थंकरत्वसमवसरणादिरचना अत्र दृष्टान्तः । नातः = न अस्या विभूते: सकाशात् त्वं असि नो = अस्माकं महान् ।

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106