Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
कूपदृष्टान्तविशदीकरणं
प्रार्थितवान्। तस्यैव च द्वादशमे वर्षे शाब्दिकतीर्थंकरत्वप्रार्थना अभवत् (उभयभावोपरागविनिर्मुक्ततीर्थकरत्वप्रार्थनेति यावत्) ।
अत्र च चैत्ररूपे एकस्मिन्नेवाधिकरणे औदयिकभावप्रार्थना शाब्दिकतीर्थकरत्वप्रार्थना चास्ति, ततश्च द्वे अपि समानाधिकरणे इति कृत्वा अत्र शाब्दिकतीर्थकरत्वप्रार्थना सामानाधिकरण्यसम्बन्धेनौदयिकभावप्रार्थनाविशिष्टा भवति ।
तथा औदयिकभावप्रार्थनायाः शाब्दिकप्रार्थनायाश्च मध्ये न काऽपि क्षायिकभावप्रार्थना अस्ति । यदि च पञ्चविंशतितमे वर्षे क्षायिकप्रार्थना भवेत्, तदाऽपि सा दशमस्य द्वादशस्य वर्षस्य मध्ये तु सा नास्त्येव, ततश्च जगति यावन्त्यः क्षायिकभावप्रार्थनाः, ताः सर्वा व्यवधानं गण्यन्ते, परन्तु अत्र तु औदयिकभावप्रार्थनायाः शाब्दिकप्रार्थनायाश्च मध्ये एकमपि व्यवधानं क्षायिकभावप्रार्थनारूपं नास्तीति तत्तद्व्यवधानानां सर्वेषां सर्वेऽपि येऽभावः, तेषां कूटमत्रास्ति, ततश्च औदयिकभावप्रार्थना तत्तद्व्यवधानाभावकूटसम्बन्धेन च शाब्दिकप्रार्थनया सह सम्बन्धवती अस्ति |
इत्थं चात्र शाब्दिकप्रार्थना सामानाधिकरण्यसम्बन्धात् तत्तद्व्यवधान - अभावकूटसम्बन्धाच्च औदयिक भावप्रार्थनाविशिष्टाऽस्तीति कृत्वा सा शाब्दिकप्रार्थना अधुना उभयभावोपरागविनिर्मुक्ततीर्थकरत्वप्रार्थनारूपाऽपि सती निदानमेवेति ।
यथा औदयिकभावप्रार्थनामधिकृत्य निदानस्य विचारणा कृता, तथैव क्षायिकभावप्रार्थनामधिकृत्यानिदानस्यापि विचारणा कर्त्तव्या । केवलं तत्र तु तत्तद्व्यवधानतया औदयिकभावप्रार्थना ग्राह्या इति ।
एतत्सर्वं न्यायशैलिमाश्रित्योक्तम् । भावार्थस्तु अयमेव यदुत
(१) प्रथमं औदयिकभावप्रार्थना, पश्चाच्च शाब्दिकतीर्थकरत्व प्रार्थना, मध्ये तु न क्षायिकभावप्रार्थना, तत्र औदयिकभावप्रार्थनाया एव संस्कारः शाब्दिकतीर्थकरत्वप्रार्थनायां गर्भित इति सा प्रार्थना निदानमेव ।
(२) यदा तु प्रथमं क्षायिकभावप्रार्थना, पश्चाच्च शाब्दिकतीर्थकरत्वप्रार्थना, मध्ये तु न औदयिक भावप्रार्थना, तत्र क्षायिकभावप्रार्थनाया एव संस्कारः शाब्दिकतीर्थकरत्वप्रार्थनायां गर्भित इति सा प्रार्थनाऽनिदानमेव ।
(३) यदा तु औदयिकभावप्रार्थनाया: शाब्दिकप्रार्थनायाश्च मध्ये क्षायिकभावप्रार्थना व्यवधानरूपतया प्रविष्टा, तदा शाब्दिकप्रार्थना न निदानं, अपि तु आसन्नभाविन्याः क्षायिकभावप्रार्थनायाः संस्कारवशात् अनिदानमेव ।
(४) यदा तु क्षायिकभावप्रार्थनायाः शाब्दिकप्रार्थनायाश्च मध्ये औदयिकभावप्रार्थना व्यवधानरूपतया प्रविष्टा, तदा शाब्दिकप्रार्थनाऽनिदानं न, अपि तु आसन्नभाविन्या औदयिकभावप्रार्थनायाः संस्कारवशात् निदानमेव ।
(५) यदि सामानाधिकरण्यसम्बन्धो न गृह्येत, केवलं तत्तद्व्यवधानाभावकूटसम्बन्ध एवोच्येत,
११००

Page Navigation
1 ... 99 100 101 102 103 104 105 106