Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 105
________________ - कूपदृष्टान्तविशदीकरणं । यशो.: तदेवमन्ते स्तवफलप्रार्थनारूपं प्रणिधानं भिन्नम् । यन्द्र.: उपसंहारमाह - तदेवं = पञ्चाशकोक्तपाठदर्शनात् ज्ञायते यदुत अन्ते = चैत्यवन्दनान्ते स्तवफलप्रार्थनारूपं = द्रव्यस्तवफलरूपाणां त्रयोदशपदार्थानां प्रार्थनारूपं प्रणिधानं भिन्नम्। यशो.: पूर्वं तु क्रियमाणस्तवोपयोगरूपं भिन्नमित्यनुपयोगरूपत्वेन द्रव्यस्तवे नाऽवद्यशङ्का विधेयेति | | स्थितम् ॥१३॥ यन्द्र.: ननु तर्हि द्रव्यस्तवकाले कीदृशं प्रणिधानं? इत्याह - पूर्वं तु द्रव्यस्तवकाले चैत्यवन्दनकाले च क्रियमाणस्तवोपयोगरूपं = क्रियमाणो यो द्रव्यस्तवश्चैत्यवन्दनरूपो वा भावस्तवः, तस्मिन्नुपयोगात्मकं प्रणिधानं भिन्नं प्रार्थनारूपात्प्रणिधानात् भिन्नम्। ततश्च द्रव्यस्तवे प्रणिधानं त्वस्त्येवेति। इति = तस्मात् अनुपयोगरूपत्वेन = पञ्चाशके चैत्यवन्दनान्ते प्रणिधानस्य प्रतिपादनात् तत्पूर्वं तु द्रव्यस्तवे प्रणिधानं नास्तीति सिध्यति, ततश्च द्रव्यस्तवोऽनुपयोगरूपः, इति द्रव्यस्तवस्यानुपयोगरूपत्वं पूर्वपक्षेण यत्प्रतिपादितं आसीत्, तेनानुपयोगरूपत्वेन द्रव्यस्तवे नावद्यशङ्का = स अप्रधानद्रव्यरूपः, अत एव तत्र विद्यमाना द्रव्यहिंसा तात्त्विकी हिंसा, अत एव तस्मिन्नवद्यम् इति अवद्यशङ्का न विधेया इति स्थितम् । 'हे पूर्वपक्ष! द्रव्यस्तवोऽनुपयोगरूपः, तस्मात् तत्रावद्यम्' इति शङ्का न कार्या इति निश्चितम्। ___ दुःषमकालादिदोषवशात् ये मन्दमतिका जीवा भवन्ति, तेऽपि जिनशासनरहस्यं प्राप्नुयुरिति तीव्रभावना मम मनसि सञ्जाता, तच्च रहस्यं आगमादिग्रन्थेभ्य उद्धृत्य महोपाध्यायैः स्वग्रन्थेषु प्रतिपादितम्। परन्तु शैलिवशात्तद्रहस्यं मन्दमतिकानां दुर्बोधं सजातम्, अतस्तदुपकाराय मया इयं सुबोधा वृत्तिः कृता। __यद्यपि जिनशासनरहस्यमतीवगहनमिति तज्ज्ञानं मादृशानामपि दुर्लभमेव, न चाहमेतद्वक्तुं क्षमः, यदुत 'अहं महोपाध्यायग्रन्थपदार्थान् स्पष्टं जानामि इति। तथाऽपि मत्सकाशादपि येऽधिकमन्दमतिकाः, तदुपकारार्थं मया स्वल्पमपि मज्ज्ञानं सुबोधटीकया प्रकटीकृतम्। ___ सम्भवन्ति चात्र प्रभूताः क्षतयः, यस्मान्महोपाध्यायानां ग्रन्था अतिगम्भीराः, ततश्च ता दूरीकृत्य सज्जनविद्वांसो ममोपरि उपकारं कुर्युः इति प्रार्थनां कृत्वा विरमामीति। यदीयसम्यक्त्वबलात्प्रतीमो भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ॥ इति कूपदृष्टांतविशदीकरणोपरिश्रीचन्द्रशेखरीयावृत्तिः समाप्ता । LTD

Loading...

Page Navigation
1 ... 103 104 105 106