Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 102
________________ - कूपदृष्टान्तविशदीकरणं - तर्हि यदा चैत्रस्य द्वादशे वर्षे क्षायिकभावप्रार्थना पञ्चदशे च वर्षे शाब्दिकतीर्थंकरत्वप्रार्थना भवेत्। मैत्रस्य च त्रयोदशे वर्षे औदयिकभावप्रार्थना भवेत्,तर्हि मैत्रस्य औदयिकभावप्रार्थनायाः चैत्रस्य च शाब्दिकप्रार्थनाया मध्ये न किमपि व्यवधानमस्तीति कृत्वा तत्तद्व्यवधानाभावकूटसम्बन्धात् चैत्रीया शाब्दिकतीर्थकरत्वप्रार्थना मैत्रीयौदयिकभावप्रार्थनाविशिष्टा भवेत्, ततश्च सा निदानं स्यात्, न चास्ति। सामानाधिकरण्यसम्बन्धग्रहणे तु नायं दोषः, यस्मात् औदयिकभावप्रार्थना मैत्रे वर्तते, न तु चैत्रे। ततश्च चैत्रीया शाब्दिकतीर्थकरत्वभावना न सामानाधिकरण्यसम्बन्धेन औदयिकभावप्रार्थनाविशिष्टा, ततश्च सा न निदानम्। एवमेव विपरीतमपि योज्यम्। तथाहि - चैत्रस्य द्वादशे वर्षे औदयिकभावप्रार्थना, पञ्चदशे च वर्षे शाब्दिकतीर्थकरत्वप्रार्थना भवेत्। मैत्रस्य त्रयोदशे वर्षे क्षायिकभावप्रार्थना भवेत्, तर्हि मैत्रस्य क्षायिकभावप्रार्थनाया चैत्रस्य शाब्दिकप्रार्थनायाश्च मध्ये न किमपि व्यवधानमस्तीति कृत्वा तत्तद्व्यवधानाभावकूटसम्बन्धात् चैत्रीया शाब्दिकतीर्थकरत्वप्रार्थना मैत्रीयक्षायिकभावविशिष्टा भवेत्, ततश्च साऽनिदानं स्यात्, न चास्ति। सामानाधिकरण्यसम्बन्धग्रहणे तु नायं दोषः, यस्मात् क्षायिकभावप्रार्थना मैत्रे वर्तते, न तु चैत्रे। ततश्च चैत्रीया शाब्दिकतीर्थंकरत्वप्रार्थना न सामानाधिकरण्येन क्षायिकभावप्रार्थनाविशिष्टा, किन्तु द्वाभ्यां सम्बन्धाभ्यामौदयिकभावविशिष्टैवेति सा निदानमेवेति। यदि केवलं सामानाधिकरण्यसम्बन्ध एव गृह्येत, तर्हि यत्र चैत्रस्य प्रथमं औदयिकभावप्रार्थना, पश्चात् क्षायिकभावप्रार्थना, पश्चाच्च शाब्दिकतीर्थकरत्वभावना भवेत्, तत्र औदयिकभावप्रार्थना शाब्दिकप्रार्थना च परस्परं समानाधिकरणेति सामानाधिकरण्यसम्बन्धेन औदयिकभावविशिष्टा सा शाब्दिकतीर्थकरत्वप्रार्थना स्यात्, तथा च सा निदानं परिगणनीया स्यात्। वस्तुतस्तु सा मध्ये क्षायिकभावप्रार्थनाव्यवधानात् अनिदानमेव। ___ तत्तद्व्यवधानाभावकूटसम्बन्धग्रहणे तु नायं दोषः। यस्मादत्र औदयिकभावप्रार्थनायाः शाब्दिकतीर्थकरत्वप्रार्थनायाश्च मध्ये क्षायिकभावप्रार्थनारूपं व्यवधानमस्त्येवेति तत्तद्व्यवधानाभावकूटरूप: सम्बन्धोऽत्र नास्तीति अत्र शाब्दिकतीर्थकरत्वप्रार्थना न द्वाभ्यां सम्बन्धाभ्यां औदयिकभावप्रार्थनाविशिष्टेति सा न निदानमपि तु अनिदानमेवेति। ___ तथा कूटशब्दोऽप्यत्रात्यन्तमावश्यकः, तथाहि-अनन्तरप्रतिपादितस्थाने एव यद्यपि क्षायिकभावप्रार्थनारूपं व्यवधानमस्ति, परन्तु तदेकमेव, इतरेषां तु सर्वेषां व्यवधानानां अभावो विद्यत एव, ततश्च 'तत्तद्व्यवधानाभावसम्बन्धोऽप्यत्र घटत' इति कृत्वा सामानाधिकरण्यतत्तद्व्यवधानाभावाभ्यां औदयिकभावविशिष्टा शाब्दिकतीर्थंकरत्वप्रार्थनेति तस्या निदानत्वापत्तिः दुवारैव स्यात्। ___ तत्तद्व्यवधानाभावकूटग्रहणे तु नायं दोषः, यस्मात् अत्र सर्वेषां तत्तद्व्यवधानानां अभावसत्त्वेऽपि एकस्याः क्षायिकभावप्रार्थनाया व्यवधानरूपाया अभावो नास्तीति तत्तद्व्यवधानाभावकूटात्मक: सम्बन्धो नास्तीति कृत्वा न शाब्दिकतीर्थकरत्वप्रार्थनाया निदानत्वापत्तिरिति।

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106