Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 95
________________ - कूपदृष्टान्तविशदीकरणं । बोधिप्रार्थनावत् - इत्येवंरूपेऽनुमाने बोधिप्रार्थना तु दृष्टान्तरूप एक एव अवयवः । अनुमानं तु पञ्चावयवरूपम्, ततश्च बोधिप्रार्थना कथमनुमानमुक्तम् ? तस्य अनुमानैकावयवभूतत्वादित्यत आह - दृष्टान्तावयवे = दृष्टान्तरूपेऽवयवे अनुमानत्वोक्तिरूपत्वात् यथा शरीरावयवे हस्ते शरीरत्वव्यवहारो भवति, तथैवानुमानावयवे दृष्टान्तेऽनुमानत्वव्यवहारः कृत इति। यशो. : ‘एवं च दसाईसुं, तित्थयरंमि वि णियाणपडिसेहो। ___ जुत्तो भवपडिबद्धं, साभिस्संगं तयं जेणं ॥' (पू. पञ्चा. ३७) भवप्रतिबद्धं 'भवभ्रमणलेशतोऽप्यहं तीर्थकरो भूयासमिति विकल्पेन संसारप्रार्थनानुप्रविष्टं साभिष्वंगं = रागोपेतं, 'तयं' ति तकत्तीर्थकरत्वम्। यन्द्र.: तीर्थकरे निदानप्रतिषेधस्य दशाश्रुतस्कन्धोक्तस्य समाधानमाह - एवं च इत्यादि। पञ्चाशकगाथान्वयस्त्वेवम् - एवं च दशादिषु, तीर्थकरेऽपि निदानप्रतिषेधः। युक्तः, येन साभिष्वंगं भवप्रतिबद्धं तत् ॥ अधुना महोपाध्यायप्रदर्शितस्तवृतिलेशः। . 'भवप्रतिबद्धं' इत्यस्यार्थमाह - भवभ्रमणतोऽप्यहं तीर्थकरो भूयासम् = "भवतु नाम मम अधिकं भवभ्रमणं, तथाऽपि तीर्थकरत्वं अनुभूयैव मया मोक्षे गन्तव्यं, न तु अन्यथा। मोक्षात्पश्चात्कदाऽपि तीर्थकरत्वानुभवस्यासम्भवात्" इति विकल्पेन संसारप्रार्थनाऽनुप्रविष्टं = भवभ्रमणस्यापि उपादेयतास्वीकारेण संसारप्रार्थनायां एव अनुप्रविष्टं। 'साभिष्वङ्गं' इत्यस्यार्थमाह - ‘रागोपेतं' इति। अप्रशस्तरागयुक्तम्। | यशो.: वस्तुतः औदयिकभावप्रकारत्वाऽवच्छिन्नतीर्थकरभवनेच्छाया एव निदानत्वम्।," | यन्द्र. : ननु भवभ्रमणतोऽप्यहं तीर्थंकरो भूयासम्' इति तस्य या प्रार्थना, सा न संसारप्रार्थना, न हि स भवभ्रमणमिच्छति, किन्तु केनापि प्रकारेण तीर्थकरत्वमेव इच्छति। एतच्च ‘अपि' शब्देन स्पष्टमेव ज्ञायते। यदि हि स एवं प्रार्थयेत् यदुत 'प्रथमं तावच्चक्रवर्तिप्रभृतिपदप्राप्तिर्मम भवतु, येन सकलसंसारसुखानुभूतिर्मम स्यात्, तदनन्तरं मम तीर्थकरत्वसिद्धत्वादिकं स्यात्' तर्हि तस्य प्रार्थना संसारसुखरागमलिनीभूता भवेत्। परन्तु "तीर्थकरो भूत्वा प्रभृतान् जीवान् तारयित्वा मोक्षं प्राप्स्यामीति भवतु नाम मम भवभ्रमणमधिकं, तथाऽपि तीर्थकरत्वं प्राप्यैव मोक्षे गन्तव्यम्। न तु तदप्राप्याल्पेनाऽपि कालेन" इति भावनायान्तु तस्य न संसारसुखरागोऽस्ति, परन्तु मोक्षराग एवोत्कटोऽस्तीति भवभ्रमणप्रार्थनावत्यपि सा तीर्थकरत्वप्रार्थना नाप्रशस्तरागवतीत्याशङ्कायां आह -

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106