Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
कूपदृष्टान्तविशदीकरणं
या भवनिर्वेदादिरूपा त्रयोदशपदार्थप्रार्थना क्रियते, सा निदानं न । तत्र कारणमाह - मोक्षाङ्गप्रार्थनात्वात् = मोक्षकारणीभूतानां भवनिर्वेदादिपदार्थानां प्रार्थनास्वरूपत्वात्।
तत्र दृष्टान्तमाह – बोधिप्रार्थनावत् । यथा नामस्तवान्तर्गता बोधिलाभप्रार्थना मोक्षाङ्गप्रार्थनारूपत्वात् न निदानं, तथैव 'जयवीयराय' सूत्रान्तर्गता प्रार्थनाऽपि बोध्येति । दृष्टान्तान्तरं प्रतिपादयति - तीर्थकरत्वप्रार्थनावत्। यशो.: तीर्थकरत्वप्रार्थना चौदयिकभावांशे निदानं, छत्रचामरादिविभूतिप्रार्थनाया भवप्रार्थनारूपत्वात् ।
यन्द्र. : ननु दशाश्रुतस्कन्धादौ 'तीर्थकरत्वं. मे भूयात्' इत्यादिरूपा प्रार्थना निदानरूपत्वादेव प्रतिषिद्धा। भवदुक्तरीत्या च तीर्थकरत्वं मोक्षाङ्गम्, ततश्च तस्य प्रार्थना मोक्षाङ्गप्रार्थनारूपत्वान्न निदानं, ततश्च तीर्थकरत्वप्रार्थनायाः प्रतिषेधो न युक्त इति चेत्, न,
तीर्थकरे छत्रचामरादिविभूतिस्वरूपं तीर्थकरत्वं तीर्थकरनामकर्मोदयजन्यत्वादौदयिकभावः, परन्तु तीर्थंकरे केवलज्ञानादिविभूतिस्वरूपं तीर्थकरत्वं तत्तत्कर्मक्षयजन्यत्वात् क्षायिकभावः । एवं च तीर्थकरे द्वौ अंशौ – औदयिकभावांशः क्षायिकभावांशः । तत्र औदयिकभावांशस्य प्रार्थना तु निदानमेव, यस्मात् छत्रचामरादिविभूतिः न मोक्षाङ्गा, किन्तु संसार एव स । तथा च दशाश्रुतस्कन्धादौ तीर्थकरत्वप्रार्थनानिषेध औदयिकभावांशमपेक्ष्यैव कृतः । या तु केवलज्ञानादिरूपक्षायिकभावांशस्य प्रार्थना क्रियते, सा तु क्षायिकभावांशमपेक्ष्य भवन्तीति नैव प्रतिषिद्धेति ।
एतदेव आह तीर्थकरत्वप्रार्थना च औदयिकभावांशे यो मुग्धश्छत्रचामरादिविभूतिरूपं
=
औदयिकभावांशमेव तीर्थंकरत्वं मन्यते, स तदेव तीर्थकरत्वं मनसिकृत्य 'मम तीर्थकरत्वप्राप्तिः स्यात्' इति प्रार्थयति सा च प्रार्थना औदयिकभावांशे सती निदानं । कस्मान्निदानमित्यत्र कारणमाह छत्रचामरादिविभूतिप्रार्थनायाः = औदयिकभावांशरुपस्य तीर्थकरत्वस्य प्रार्थनाया भवप्रार्थनारूपत्वात्।
-
यशो.: न तु क्षायिकभावांशे, तत्र तीर्थकरत्वोपलक्षितकेवलज्ञानादेरेव काम्यत्वात्, तस्य च साक्षान्मोक्षाङ्गत्वात् ।
-
चन्द्र. : न तु क्षायिकभावांशे = केवलज्ञानादिस्वरूपे ।
-
यः परिणतो घातिकर्मक्षयसमुद्भूतान् गुणानेव तीर्थकरत्वं मन्यते स तदेव तीर्थकरत्वं मनसिकृत्य 'मम तीर्थकरत्वप्राप्तिः स्यात्' इति प्रार्थयति सा च प्रार्थना क्षायिकभावांशे सती न निदानम् । कस्मान्न निदानं ? इत्यत्र कारणमाह तत्र = प्रस्तुतप्रार्थनायां तीर्थकरत्वोपलक्षित केवलज्ञानादेरेव = स हि प्राज्ञः तीर्थकरत्वं केवलज्ञानादिरूपमेव मन्यते, ततश्च तीर्थकरत्वेन केवलज्ञानादि एव उपलक्षितं भवति । ततश्च तादृशकेवलज्ञानादेरेव काम्यत्वात् = इच्छाविषयीभूतत्वात् । ननु भवतु नाम तत्प्रार्थनायां केवलज्ञानादेः काम्यत्वं, परन्तु तेन किं सिद्धमिति आह - तस्य च = केवलज्ञानादेश्च साक्षात् मोक्षाङ्गत्त्वात् = साक्षात्

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106