Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 92
________________ -CAN कूपदृष्टान्तविशदीकरणं - अधुना प्रस्तुतगाथाया महोपाध्यायप्रदर्शिता वृत्तिः - इत एव = कुशलप्रवृत्त्यादिहेतुत्वादेव = पूर्वगाथायां यत्प्रतिपादित्तं यदुत प्रणिधानं कुशलप्रवृत्त्यादिहेतुर्भवति,तस्मादेव हेतुत्वाद् बोधिप्रार्थनासदृशं = 'आरुग्गबोहिलाभं समाहिवरमुत्तमं दिंतु' इति यत् 'लोगस्स' अपरनामके 'नामस्तवे' सूत्रम्, तस्मिन् या आरोग्यबोधिलाभसमाधिवरप्रार्थना क्रियते, तस्याः सदृशं इदं जयवीयरायसम्बन्धि प्रणिधानमिति। इतरथा = निदानत्वे यदि हि 'जय वीयराय' सूत्रगता प्रार्थना निदानं स्यात्, तर्हि अप्रवृत्तिः = अकर्त्तव्यत्वमेव अन्त्यप्रणिधाने = चैत्यवन्दनान्ते क्रियमाणे प्रणिधाने स्यात् । ननु न कर्त्तव्यैवान्त्यप्रणिधाने प्रवृत्तिरित्यत आह - सा च = अप्रवृत्तिश्च अनिष्टा। अयं भावः - यथा नामस्तवगता प्रार्थना शुभभावेन कुशलप्रवृत्त्यादिहेतुत्वादेव न निदानं, तथैव चैत्यवन्दनान्ते क्रियमाणं 'जयवीयराय' प्रणिधानं शुभभावेन कुशलप्रवृत्त्यादिहेतुत्वादेव न निदानम्। यदि हि तन्निदानं स्यात्, तर्हि तस्मिन्प्रवृत्तिरकर्त्तव्या स्यात्। न च एतदिष्टम् । यशो. : 'एवं तु इट्ठसिद्धि, दव्वपवित्ती उ अण्णहा णियमा । तम्हा अविरुद्धमिणं, णेयमवत्थंतरे उचिए ।।' (पू. पञ्चा. ३१) एवं पुनः प्रणिधानप्रवृत्ताविष्टसिद्धिः, प्रणिधानयुक्तचैत्यवन्दनस्य भावानुष्ठानत्वेन सकलकल्याणकारित्वात्। द्रव्यप्रवृत्तिस्त्वन्यथा = प्रणिधानं विना, नियमात्, तस्माद्धेतोरेतत्प्रणिधानमविरुद्धम्। अवस्थान्तर (रे ?) = अप्राप्तप्रार्थनीयगुणावस्थायां, तच्च 'जय वीअराए' त्यादि। यन्द्र.: ननु प्रणिधानेऽप्रवृत्तिः किमर्थ नेष्टा? इति चेत्, श्रुणु एवं तु इत्यादि। पञ्चाशकगाथाऽन्वयस्त्वेवम् - एवं तु इष्टसिद्धिः, अन्यथा नियमाद् द्रव्यप्रवृत्तिः। तस्मात् उचिते अवस्थान्तरे, इदं अविरुद्धं ज्ञेयम् ।।३१।। अधुना महोपाध्यायप्रदर्शिता तवृत्तिः - एवं पुनः = प्रणिधानप्रवृत्तौ इष्टसिद्धिः = मोक्षप्राप्तिः । कथमिष्टसिद्धिरित्याह - प्रणिधानयुक्तचैत्यवन्दनस्य = 'जय वीयराय' सम्बन्धिना प्रणिधानेन युक्तस्य चैत्यवन्दनस्य भावानुष्ठानत्वेन सकलकल्याणकारित्वात् = मोक्षसम्पादकत्वात्। अप्राप्तप्रार्थनीयगुणावस्थायां = अप्राप्ता ये प्रार्थनीया भवनिर्वेदादिरूपा गुणाः, तदवस्थायां। तच्च = प्रणिधानं। तीर्थकरादीनां तु तादृशावस्थाऽभावात् तत्प्रणिधानं नोचितमिति भावः। यशो.: न चेदं निदानं मोक्षाङ्गप्रार्थनात्वाद् बोधिप्रार्थनावत्। तीर्थकरत्वप्रार्थनावत्। यन्द्र: प्रकृतप्रणिधानस्यानिदानत्वमेव पुन: अनुमानस्वरूपेन स्पष्टयति न चेदं = 'जयवीयराय' प्रणिधानं निदानं = इहपरलोकसुखापेक्षा निदानमिति सामान्यतो निदानव्याख्यानम्। 'जयवीयराय' सूत्रे

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106