Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 98
________________ - कूपदृष्टान्तविशदीकरणं - तथा एतत्प्रार्थनं तीर्थंकरनामकर्मबन्धं कारयित्वा यदि वा तदनुसारिगणधराचार्यादिनामकर्मबन्धं कारयित्वा तं जीवं तीर्थंकरेण क्रियमाणे धर्मदेशनादौ अनुष्ठाने प्रवर्तयति। ____एतादृशं यत् निरभिष्वङ्गं तीर्थंकरत्वप्रार्थनं तत् अदुष्टम्। यस्मात् न केवलं तीर्थकरत्वप्रार्थनं दुष्टमभिहितं, परन्तु साभिष्वङ्गं तत् दुष्टं प्रतिपादितम्, ततश्च अर्थापत्त्यैतदेव सिध्यति यदुत निरभिष्वङ्गं तत् अदुष्टमिति। ___ अधुनाऽक्षरार्थः - यथा = 'निरभिष्वङ्गं प्रार्थनं अदुष्टम्' इति साधनाय प्रस्तावनाप्रतिपादनपरोऽयं 'यथा' शब्द इति। धर्मात् कुशलानुष्ठानात् इत्यादेरारभ्य अप्रतिघातं इत्यन्तं यावत् कस्यचिज्जीवविशेषस्याध्यवसायस्वरूपं प्रतिपादितम्। अत एव इतिर्गम्यः इत्युक्तम्। गाथायां 'इति' शब्दो नास्ति, परन्तु स ग्राह्यः, ततश्च इतिप्रधानभावस्य = एवंभूतसुन्दराध्यवसायस्य इतिशब्दार्थः 'एवंभूतः', प्रधानशब्दार्थः 'सुन्दरः', भावशब्दार्थश्च अध्यवसाय:। बहुव्रीहिसमासश्चात्र ज्ञेयः। तादृशाध्यवसायवतो जीवविशेषस्य तीर्थंकरत्वप्रार्थनं तस्यैव जीवस्य धर्मदेशनादौ जिनानुष्ठाने प्रवृत्तिस्वभावं = प्रवर्तनस्वभावम्। तं तादृशाध्यवसायवन्तं जीवं तत्प्रार्थनं धर्मानुष्ठाने विहारे अन्यस्मिंश्च परोपकारकार्ये प्रवर्तयति। अर्थापत्त्या = न्यायतः = अनुमानतः । अनुमानस्य हेतुमाह - साभिष्वङ्गस्य तीर्थकरत्वप्रार्थनस्य दुष्टत्वान्यथानुपपत्त्या इति। न्यायप्राप्तम् = अनुमानेन सिद्धमिति। अनुमानाकारस्त्वेवम् - निरभिष्वङ्गं तीर्थकरत्वप्रार्थनं अदुष्टं साभिष्वङ्गस्य दुष्टत्वान्यथाऽनुपपत्तेः, यथा पीनो दिवाऽभोजी देवदत्तो रात्रिभोजी, दिवाऽभोजिनः पीनत्वस्य अन्यथाऽनुपपत्तेः इति। अन्यथा = निरभिष्वङ्गस्यादुष्टत्वं यदि मन्येत तर्हि अनुपपत्तेः = साभिष्वङ्गस्य दुष्टत्वं न घटेतेति कृत्वा। यदि हि निरभिष्वङ्गं प्रार्थनं अदुष्टं न स्यात्, किन्तु दुष्टं स्यात् तर्हि साभिष्वङ्गं निरभिष्वङ्गं च सर्वमपि प्रार्थनं दुष्टमेव स्यात्। ततश्च 'प्रार्थनं दुष्टं' इत्येव वक्तव्यं स्यात्, न तु 'साभिष्वङ्गं प्रार्थनं दुष्टं' इत्येवम्। यथा दिवाऽभोजी देवदत्तो रात्रिभोजी न स्यात्, तर्हि स पीनो न स्यात्, यदि च स पीनः, तर्हि तस्य दिवाऽभोजित्वपीनत्वोपपत्त्यर्थं रात्रिभोजित्वं मन्तव्यमेवेति। यशो.: न च वैयधिकरण्यम्, यन्द्र.: पूर्वपक्षोऽनुमाने दोषमाशङ्कते - न च वैयधिकरण्यम् इति। हेतुसाध्ययोः सामानाधिकरण्यं साध्यसाधनार्थं आवश्यकम्। न हि अन्यत्र विद्यमानो हेतुरन्यत्र साध्यं साधयति। अन्यथा पर्वते विद्यमानो धूमो जलोदधौ वहिँ साधयेत्।

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106