Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
कूपदृष्टान्तविशदीकरणं
थन्द्रः एवमाशयपञ्चकमभिधायाऽधुनैतन्माहात्म्यमाह -
-
(७) सर्वेऽपि एते = प्रणिधानादयः क्रियारूपतया दृश्यमाना अपि तत्त्वतो = परमार्थत आशयभेदाः
= अध्यवसायप्रकारा अवगन्तव्याः ।
अयं = पञ्चप्रकारोऽप्याशयो भावः, अनेन = भावेन विना चेष्टा = धर्मानुष्ठानरूपा तुच्छा = सर्वथा फलरहिता, अत एव द्रव्यक्रिया = अप्रधानद्रव्यक्रियारूपा ।
एतत्तावत्सङ्क्षेपतोऽभिहितम्। विस्तरार्थिना तु षोडशकवृत्तिः योगविंशिकावृत्तिः, योगविशिकावृत्त्युपरिकृता चन्द्रशेखरीयावृत्तिश्चावलोकनीयेति ।
यशो.: न च सर्वापि जिनपूजाऽप्राधान्येनैव द्रव्यरूपा, यादिवृद्धिभावाऽभावाभ्यां द्रव्यभावेतरविशेषस्य तत्र तत्र प्रतिपादनात् ।
अपूर्वत्वप्रतिसन्धानविस्मयभवभ
चन्द्र.: हे पूर्वपक्ष! भवता तु सर्वाऽपि जिनपूजा तुच्छा, अत एवाप्राधान्येन द्रव्यरूपा स्वीक्रियते। न च सर्वाऽपि = किन्तु — प्रणिधानादिभावविरहितैव 'इति अपिशब्दार्थः । अप्राधान्येनैव = भावस्तवाकारणत्वेनैव, तुच्छत्वेनैवेति यावत् द्रव्यरुपा ।
I
ननु किमर्थं सर्वाऽपि तादृशी न स्वीक्रियते ? इति शङ्कायामाह - अपूर्वत्वप्रतिसन्धानेत्यादि । 'अहो! अनादिसंसारे पूर्वं कदाऽपि कुत्रापि नैव प्राप्तो मया एतादृशो द्रव्यस्तव:' इति अपूर्वत्वप्रतिसन्धानम्, तथा जिनगुणान् दृष्ट्वा विस्मयः, तथा 'भयावहात्संसारात् मम संरक्षकोऽयं भगवान्, अयं तस्य स्तवः' इत्यादिस्वरूपं भवभयम् । तथाऽऽदिपदात् मोक्षाभिलाषादयो भावाः, ततश्च तेषां वृद्धिभावो यस्मिन्द्रव्यस्तवेऽस्ति, तस्मिन् द्रव्यस्तवे भावक्रियात्वमेव, स एव च द्रव्येण क्रियमाणः स्तव इति कृत्वा द्रव्यस्तव उच्यते, परन्तु स चारित्ररूपस्य भावस्तवस्य कारणत्वात् प्रधानो द्रव्यस्तवः । यस्मिंस्तु द्रव्यस्तवे अपूर्वत्वप्रतिसन्धानादिवृद्धिर्नास्ति, तस्मिन् द्रव्यक्रियात्वमेव, स च चारित्ररूपस्य भावस्तवस्याकारणत्वात् अप्रधानो द्रव्यस्तवः ।
एतदेवाह-द्रव्यभावेतरविशेषस्य = द्रव्यक्रियाभावक्रिययोः महद्भेदस्य तत्र तत्र = तेषु तेषु योगादि ग्रन्थेषु प्रतिपादनात् । तथा च शास्त्रेषु जिनपूजा प्रोक्तनीत्या भावक्रियास्वरूपा, प्रधानद्रव्यस्तवस्वरूपा च प्रतिपादितैवेति सर्वाऽपि जिनपूजा अप्राधान्येनैव द्रव्यक्रियास्वरूपा नैव स्वीकर्तुं शक्येति भावः । विशिष्टतरं पूर्वं
यशो : यत्तु प्रणिधानादि अन्ते = चैत्यवन्दनान्ते प्रोक्तं, तभिन्नं सामान्यं, सर्वक्रियासामान्ये ( सामान्येन) भावत्वाऽऽपादकमिति भावः ।
८७
=
यन्द्रः ननु तर्हि पूजापञ्चाशके अन्ते प्रणिधानं प्रोक्तं, तत्किमर्थम् ? तेन तु एतदेव ज्ञायते यदुत पूजाकाले प्रणिधानं नास्त्येवेत्यत आह- यत्तु प्रणिधानादि अन्ते = चैत्यवन्दनान्ते प्रोक्तं कर्त्तव्यतया, तद् - भिन्नं = विशिष्टतरं ‘जय वीयराय' इत्यादिसूत्रेण त्रयोदशप्रार्थनास्वरूपमेव पूर्वं तु = पूजाकाले तु

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106