Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
-
कूपदृष्टान्तविशदीकरणं - न तु प्रणिधानादिविरहादेव 'किन्तु द्रव्यस्य पुष्पादेः प्राधान्यादपि' इत्येवकारार्थः। तथा प्रणिधानादिविरहादपि भवति द्रव्यस्तवत्वं, परन्तु तस्मादेव भवतीत्येवमेकान्तो न मनोरम इति एवकारात्सूचितम्।
ननु प्रणिधानविरहादेव द्रव्यस्तवत्वमिति स्वीकारे को दोषः? इत्यत आह - तथा सति = एवं स्वीकारे सति तुच्छत्वेन अप्राधान्यरूपद्रव्यपदार्थत्वप्रसङ्गात्।
अयं भाव: -
षोडशके प्रोक्तं यदुत अनेन विना चेष्टा द्रव्यक्रिया तुच्छा' इति। ततश्च यदि द्रव्यस्तवे प्रणिधानादिरूपभावस्य विरह एव स्वीक्रियेत, तर्हि तेन विना द्रव्यस्तवस्तुच्छ एव स्यात्। यश्च तुच्छ:, स भावक्रिया तु तावद् दूरे, किन्तु भावक्रियायाः कारणरूपा प्रधानद्रव्यक्रियाऽपि न स्यात्, किन्तु भावक्रियाया अकारणीभूता अप्रधानद्रव्यक्रियैव स्यात्। न चैतदिष्टं, तस्मात् प्रणिधानादिविरहादेव द्रव्यस्तवत्वमिति न युक्तमिति भावः।
यशो.: तदुक्तं षोडशके - 'प्रणिधि-प्रवृत्ति-विघ्नजय-सिद्धि-विनियोग-भेदतः प्रायः। धर्मज्ञैराख्यातः, शुभाशयः पञ्चधाऽत्र विधौ ।।१।। यन्द्र.: तद् = अनन्तरं एव प्रतिपादितं उक्तं षोडशके। षोडशकगाथानां सङ्केपार्थस्त्वयम् -
(१) अत्र विधौ = अस्मिन् धर्मानुष्ठाने धर्मज्ञैः प्राय: प्रणिधिप्रवृत्तिविनजयसिद्धिविनियोगभेदतः पञ्चधा शुभाशय आख्यातः।
तत्र प्रणिधानं किं? इत्याह -
यशो.: प्रणिधानं तत् समये, स्थितमत्तदध:कृपानुगं चैव ।
निरवद्य वस्तुविषयं, परार्थनिष्पत्तिसारं च ।।२।। यन्द्र.: (२) तत्समये = धर्मस्थानस्य मर्यादायां स्थितिमत् = दृढतावत्, तदधःकृपानुगं चैव = अधिकृतधर्मस्थानापेक्षया हीनधर्मस्थानवर्तिषु कृपान्वितं निरवद्यवस्तुविषयं = अहिंसाप्रमुखनिरवद्यवस्तुसम्बन्धि परार्थनिष्पत्तिसारं च = परोपकारकरणप्रधानं च प्रणिधान।
॥ यशो.: तत्रैव तु प्रवृत्तिः शुभसारोपायसङ्गतात्यन्तम्।
अधिकृतयत्नातिशयादौत्सुक्यविवर्जिता चैव ।।३।।
यन्द्र.: तदनन्तरं प्रवृत्तिरूप आशयो भवति, स च कीदृशः? इत्याह - (३) तत्रैव = प्रणिधानसम्बन्धिन्येव धर्मानुष्ठाने अत्यन्तं शुभसारोपायसङ्गता = शोभनेन निपुणेन

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106