SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ - कूपदृष्टान्तविशदीकरणं - न तु प्रणिधानादिविरहादेव 'किन्तु द्रव्यस्य पुष्पादेः प्राधान्यादपि' इत्येवकारार्थः। तथा प्रणिधानादिविरहादपि भवति द्रव्यस्तवत्वं, परन्तु तस्मादेव भवतीत्येवमेकान्तो न मनोरम इति एवकारात्सूचितम्। ननु प्रणिधानविरहादेव द्रव्यस्तवत्वमिति स्वीकारे को दोषः? इत्यत आह - तथा सति = एवं स्वीकारे सति तुच्छत्वेन अप्राधान्यरूपद्रव्यपदार्थत्वप्रसङ्गात्। अयं भाव: - षोडशके प्रोक्तं यदुत अनेन विना चेष्टा द्रव्यक्रिया तुच्छा' इति। ततश्च यदि द्रव्यस्तवे प्रणिधानादिरूपभावस्य विरह एव स्वीक्रियेत, तर्हि तेन विना द्रव्यस्तवस्तुच्छ एव स्यात्। यश्च तुच्छ:, स भावक्रिया तु तावद् दूरे, किन्तु भावक्रियायाः कारणरूपा प्रधानद्रव्यक्रियाऽपि न स्यात्, किन्तु भावक्रियाया अकारणीभूता अप्रधानद्रव्यक्रियैव स्यात्। न चैतदिष्टं, तस्मात् प्रणिधानादिविरहादेव द्रव्यस्तवत्वमिति न युक्तमिति भावः। यशो.: तदुक्तं षोडशके - 'प्रणिधि-प्रवृत्ति-विघ्नजय-सिद्धि-विनियोग-भेदतः प्रायः। धर्मज्ञैराख्यातः, शुभाशयः पञ्चधाऽत्र विधौ ।।१।। यन्द्र.: तद् = अनन्तरं एव प्रतिपादितं उक्तं षोडशके। षोडशकगाथानां सङ्केपार्थस्त्वयम् - (१) अत्र विधौ = अस्मिन् धर्मानुष्ठाने धर्मज्ञैः प्राय: प्रणिधिप्रवृत्तिविनजयसिद्धिविनियोगभेदतः पञ्चधा शुभाशय आख्यातः। तत्र प्रणिधानं किं? इत्याह - यशो.: प्रणिधानं तत् समये, स्थितमत्तदध:कृपानुगं चैव । निरवद्य वस्तुविषयं, परार्थनिष्पत्तिसारं च ।।२।। यन्द्र.: (२) तत्समये = धर्मस्थानस्य मर्यादायां स्थितिमत् = दृढतावत्, तदधःकृपानुगं चैव = अधिकृतधर्मस्थानापेक्षया हीनधर्मस्थानवर्तिषु कृपान्वितं निरवद्यवस्तुविषयं = अहिंसाप्रमुखनिरवद्यवस्तुसम्बन्धि परार्थनिष्पत्तिसारं च = परोपकारकरणप्रधानं च प्रणिधान। ॥ यशो.: तत्रैव तु प्रवृत्तिः शुभसारोपायसङ्गतात्यन्तम्। अधिकृतयत्नातिशयादौत्सुक्यविवर्जिता चैव ।।३।। यन्द्र.: तदनन्तरं प्रवृत्तिरूप आशयो भवति, स च कीदृशः? इत्याह - (३) तत्रैव = प्रणिधानसम्बन्धिन्येव धर्मानुष्ठाने अत्यन्तं शुभसारोपायसङ्गता = शोभनेन निपुणेन
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy