________________
-
कूपदृष्टान्तविशदीकरणं -
तु न शब्दरूपेति तस्याः स्तवत्वमेव नास्तीत्यत आह - गुणवत्तया ज्ञानजनकः शब्दः (स्तवः) इत्यत्र = स्तवव्याख्यायां वर्णध्वनिसाधारणं = क-ख-ग इत्यादिवर्णेषु दुन्दुभिप्रभृतिध्वनिषु च विद्यमानं ताल्वोष्ठपुष्टादिजन्यव्यापारत्वं शब्दत्वं इति जन्यान्तपरिहारेण = 'ताल्वोष्ठपुटादिजन्य' इति शब्दानां त्यागेन व्यापारमात्रस्यैव ग्रहणौचित्यात् । व्यापारमात्रग्रहणाऽभावे तु गुणवत्तया ज्ञानजनकस्यापि पुष्पोपनयनादे: स्तवत्वं न स्यात्, इष्यते च तत्, गुणवत्तया ज्ञानजनकस्य सर्वस्याऽपि स्तवत्वेनेष्टत्वादिति।
यशो.: आलङ्कारिकमते चेष्टादिव्यापारस्य व्यञ्जकस्य ग्रहणावश्यकत्वेनोक्तपरिहारस्यावश्यकत्वाच्च ।
यन्द्र.: ननु योगाद् रूढेर्बलीयस्त्वमिति न्यायात् यद्यपि भवतु नाम पुष्पोपनयनादिव्यापारो गुणवत्तया ज्ञानजनकः, तथाऽपि रूढ्या तु शब्दस्यैव ताल्वोष्ठपुटादिजन्यव्यापाररूपस्यैव स्तवत्वमिष्यते, न तु पुष्पोपनयनादिव्यापारस्येत्यतो जिनपूजायाः स्तवत्वसाधनाय युक्त्यन्तरमाह - आलङ्कारिकमते च चेष्टादिव्यापारस्य = कायिकक्रियारूपस्य व्यञ्जकस्य = स्वस्मिन् यत् तीर्थंकरादिगतस्य गुणवत्त्वस्य ज्ञानं, तत्प्रदर्शकस्य ग्रहणावश्यकत्वेन = ग्रहणस्यानिवार्यत्वेन उक्तपरिहारस्य = जन्यान्तत्यागस्य आवश्यकत्वाच्च ।
अयं भावः - यदि 'गुणवत्तया ज्ञानजनकः शब्दः स्तवः' इति व्याख्या क्रियेत, तत्राऽपि ताल्वोष्ठपुटादिजन्यो व्यापार शब्द इत्येव यदि 'शब्द' पदस्य व्याख्या क्रियेत। तर्हि आलङ्कारिकमते आपत्तिः स्यात्। यस्मात् आलङ्कारिकमते 'गुणवत्ताया व्यञ्जकश्चेष्टादिव्यापारोऽपि स्तवः' इत्येव स्वीकृतम्। ततश्च तेषां मते स्तवव्याख्यामध्ये गुणवत्ता व्यञ्जकस्य चेष्टादिव्यापारस्य ग्रहणमावश्यकम्। ततश्च यदि शब्दव्याख्यामध्ये ताल्वोष्ठपुटादिजन्यव्यापारत्वं भवेत्, तर्हि व्यञ्जकस्य चेष्टादिव्यापारस्य ग्रहणं न स्यात्, तस्य ताल्वोष्ठपुटादिजन्यव्यापारत्वाभावात्। तस्मात् अवश्यं जन्यान्तस्य परिहार: कार्यः, येन गुणवत्तया ज्ञानजनको व्यापाररूप एव स्तवः स्यात्। स च व्यापारो वर्णरूपो ध्वनिरूपो व्यञ्जकचेष्टारूपो वा भवेत्, सर्वोऽपि स्तव एव।
एवं च सति जिनपूजाया अपि गुणवत्तया ज्ञानजनकव्यापाररूपत्वात् स्तवत्वं सिद्धम्, पुष्पादिद्रव्येण क्रियमाणत्वाच्च द्रव्यस्तवत्वमिति।
यशो.: न तु प्रणिधानादिविरहादेव द्रव्यस्तवत्वं, तथा सति तुच्छत्वेनाऽप्राधान्यरूपद्रव्यपदार्थत्वप्रसङ्गात्।।
यन्द्र.: एवं तावत् पुष्पादिना द्रव्येण स्तवत्वं प्रसाध्याधुना पूर्वपक्षेण यत् 'प्रणिधानादिविरहादेव द्रव्यस्तवत्वं' इत्येकान्ततः प्रतिपादितं, तन्निषेधायाह -