________________
कूपदृष्टान्तविशदीकरणं
चन्द्र. : ननु 'पुष्पादिः द्रव्यस्तवः ' इति यदुक्तं, तन्न संगतमाभाति । तथाहि - 'गुणवत्तया ज्ञानजनकः शब्दः स्तव:' इति स्तवस्य व्याख्या । अत्र दृष्टान्त इत्थम् । 'भगवान् सर्वज्ञो वीतरागो देशनया जीवोपकारी' इत्यादि यः शब्द उच्चार्यते, तं श्रुत्वा श्रोतॄणां ज्ञानं भवति यथा 'भगवान् महावीरो गुणवान्' इति ।
इत्थं च ' भगवान् गुणवान्' इत्येवंरूपं गुणवत्तया यज्ज्ञानं, तस्य जनको' भगवान् सर्वज्ञः' इत्यादिरूपो यः शब्दः, स एव स्तव उच्यते ।
ततश्च पुष्पादिभिः या पूजा क्रियते, सा कथं स्तवः ? तस्याः शब्दत्वाभावात् । शब्द एव स्तव इति चोक्तमेवानन्तरमिति चेत् श्रुणु ।
गुणवत्तया ज्ञानजनकः शब्दः स्तवः इत्यत्र = स्तवव्याख्यायां 'शब्द' इति यत् पदं वर्तते, तस्मिन् यत् शब्दत्वं वर्तते, तत् ‘ताल्वोष्ठपुटादिजन्यव्यापारत्वं शब्दत्वं' इतिस्वरूपं यद्यपि अस्ति, तच्च 'क ख - ग' इत्यादिरूपेषु वर्णेषु तु विद्यते एव, किन्तु 'क-ख-ग' इत्यादिरूपवर्णेभ्यो भिन्नेषु संगीतादिसम्बन्धिषु ध्वनिष्वपि विद्यत एव। इत्थं च ताल्वोष्ठपुटादिजन्यव्यापारत्वरूपं शब्दत्वं वर्णध्वनिसाधारणं अस्ति।
युक्तञ्चैतत् यस्मात् यथा गुणवत्तया ज्ञानं वर्णात्मको व्यापारो जनयति, तथैव 'अयं भगवान् गुणवान्' इति गुणवत्तया ज्ञानं दुन्दुभिप्रभृतिसम्बन्धी व्यापारोऽपि जनयत्येव । ततश्च यथा वर्णात्मकः शब्दः स्तवः, तथैव दुन्दुभिप्रभृतिशब्दोऽपि ध्वनिरूपोऽपि सन् स्तव एवेति ।
-
परन्तु यदि वर्णात्मको व्यापारो गुणवत्तया ज्ञानजनको व्यापार इति कृत्वा स्तवः, ध्वन्यात्मको व्यापारश्च गुणवत्तया ज्ञानजनको व्यापार इति कृत्वा स्तव:, तर्हि देवमनुष्यादीनां करयोजनपुष्पोपनयनादिरूपो व्यापारोऽपि ‘भगवान् गुणवान्' इति ज्ञानजनको व्यापार इति कृत्वा सोऽपि स्तव एवेति करयोजनपुष्पोपनयनादिरूपे व्यापारेऽपि स्तवलक्षणं सम्बन्धनीयमेव । परन्तु प्रस्तुतो व्यापारस्ताल्वोष्ठपुटादिजन्यो व्यापारो न, ततश्च " गुणवत्तया ज्ञानजनकः ताल्वोष्ठादिजन्यव्यापारः शब्दः (स्तवः ) " इति स्तवलक्षणं तत्र न घटेत। तस्मात् या ‘शब्द' पदस्य व्याख्या कृता, तस्याः सकाशात् 'ताल्वोष्ठपुटादिजन्य' इति भागो दूरीकर्त्तव्यः। केवलं ‘व्यापारः शब्दः ' इत्येवमेव 'शब्द' पदस्य व्याख्या करणीया ।
ततश्च 'गुणवत्तया ज्ञानजनकः शब्दः स्तवः ' इति स्तवव्याख्यानं तु सत्यं, किन्तु शब्दो नाम व्यापार एव, न तु ताल्वोष्ठपुटादिजन्यो व्यापार इति । इत्थं च यथा वर्णा गुणवत्तया ज्ञानजनकव्यापाररूपाः स्तवः, यथा च ध्वनयो गुणवत्तया ज्ञानजनकव्यापाररूपाः स्तवः, तथैव पुष्पाद्युपनयनादिरूपा क्रियाऽपि गुणवत्तया ज्ञानजनकव्यापाररूपाः स्तव एवेति जिनपूजायाः स्तवत्वं सिद्धम् ।
अधुनाऽक्षरार्थः पुन उच्यते ।
द्रव्येण स्तव द्रव्यस्तव इति व्युत्पत्तिबलात् जिनपूजा द्रव्यस्तव इति । ननु जिनपूजा द्रव्येण भवति इति सत्यम्, किन्तु सा स्तव इति कथं निर्णीतम् । यस्मात् स्तवो गुणवत्तया ज्ञानजनकशब्दस्वरूपः, जिनपूजा
૮૫