________________
-
कूपदृष्टान्तविशदीकरणं । चोपायेन समन्विता अधिकृतयत्नातिशयात् = अधिकृते = धर्मानुष्ठाने यत्नातिशयात् = अत्यन्तमादरात्
औत्सुक्यविवर्जिता चैव = 'कदा धर्मानुष्ठानं समाप्तं भविष्यति' इत्येवं रूप-उत्सुकताविरहिता प्रवृत्तिः भवति। यशो. : विघ्नजयस्त्रिविधः खलु, विज्ञेयो हीनमध्यमोत्कृष्टः।
मार्ग इह कण्टक-ज्वर-मोहजयसमः प्रवृत्तिफलः ।।४।। यन्द्र.: अधुना प्रवृत्यनन्तरभाविनं विघ्नजयरूपमाशयं दर्शयति ।
(४) विजयः खलु हीनमध्यमोत्कृष्ट इह मार्गे कण्टकज्वरमोहजयसमः प्रवृत्तिफलः = विशिष्टप्रवृत्तिसम्पादको विज्ञेयः। कण्टकतुल्यं जघन्यं विघ्नं, ज्वरतुल्यं मध्यमं, मार्गस्मृतिभ्रंशतुल्यं तृतीयमिति। धर्मानुष्ठाने तु शीतोष्णादिपरिषहा जघन्यं विघ्नं,शरीरान्तःसमुद्भवा रोगा मध्यमं विघ्नं, मोहनीयादि कर्मोदयश्चोत्कृष्टं विघ्नम्। एतत्त्रितयविजयेन विशिष्टा प्रवृत्तिर्भवति। यशो.: सिद्धिस्तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञेया।
अधिके विनयादियुता, हीने च दयादिगुणसारा ।।५।। यन्द्र.: अधुना विघ्नजयानन्तरभाविनी सिद्धिमाह - (५) इह अधिके = गुर्वादिषु विनयादियुता, हीने च = स्वापेक्षयाऽल्पगुणवति दयादिगुणसारा तत्तद्धर्मस्थानावाप्तिस्तात्त्विकी सिद्धिः ज्ञेया। यशो.: सिद्धेश्चोत्तरकार्यं विनियोगोऽवन्ध्यमेतदेतस्मिन्।
सत्यन्वयसम्पत्त्या, सुन्दरमिति तत्परं यावत् ।।६।।
यन्द्र.: अधुना विनियोगं सिद्धेरुत्तरकार्यभूतमाह -
(६) विनियोगः सिद्धेः उत्तरकार्य = उत्तरकालीनं कार्यं, एतस्मिन् विनियोगे सति एतद् = प्रकृतं धर्मानुष्ठानं अवन्ध्यम् = सफलम्। कथं अवन्ध्यमित्याह - अन्वयसम्पत्त्या परं यावत् तत् = धर्मानुष्ठानं सुन्दरमिति। उत्तरोत्तरं विशिष्टं धर्मानुष्ठानं विनियोगप्रभावात्प्राप्यते, तच्च धर्मानुष्ठानं अन्ते उत्कृष्टं प्राप्यते, यावच्च तन्न भवति, तावत्सुन्दरमेव तद्धर्मानुष्ठानं प्राप्यत इति।
विनियोगो नाम परजीवं प्रत्यपि धर्मानुष्ठानस्य सम्पादनमिति। यशो.: आशयभेदा एते, सर्वेऽपि हि तत्त्वतोऽनुगन्तव्याः ।
भावोऽयमनेन विना, चेष्टा द्रव्यक्रिया तुच्छा' ।।७।। इति ।