Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 84
________________ - - कूपदृष्टान्तविशदीकरणं । इत्येवकारार्थो भङ्गो लभ्यते। तासां हि बन्धः सततं न भवति, ततश्च यदा भवति, तदा सादिः, यदा पुनर्न भवति, तदा सान्त इति। __ अधिकं = १२० कर्मप्रकृतीनां विशेषतः अनाद्यनन्तभङ्गकादिस्वरूपं अस्मत्कृतकर्मप्रकृतिवृत्त्यादेः = महोपाध्यायैः कृता या कर्मप्रकृतिवृत्तिः, तदादेः सकाशात्, आदिपदात् तथाविधं वृत्त्यन्तरं ग्राह्यम् अवसेयम्। यशो. : (ननु पूजापञ्चाशके 'एयस्स समत्तीए' इत्यनेन प्रणिधानं चैत्यवन्दनान्ते कर्त्तव्यतया प्रोक्तमिति पूजादिकाले प्रणिधानाभावेन हिंसादोषत्वं पूजायामक्षतमेव) प्रणिधानप्रधानेन तु चैत्यवन्दनेन तदपनीयते। अत एव प्रणिधानाद्याशयराहित्यात्, द्रव्यक्रियारूपत्वेन पूजाया द्रव्यस्तवत्वम् । यन्द्र.: जिनपूजायां विधिशुद्धायामपि केनाऽपि प्रकारेण हिंसादोषं साधयितुं पूर्वपक्षो युक्त्यन्तरमाहननु पूजापञ्चाशके इत्यादि। ___ अयं भावार्थः - 'एयस्स समत्तीए' इत्यादिगाथायां 'द्रव्यस्तवस्य समाप्तौ प्रणिधानं कार्य' इति पूजापञ्चाशके प्रतिपादितम्। अत्र च 'द्रव्यस्तवस्यान्ते प्रणिधानं कर्त्तव्यतया उपदिष्टं' इति ज्ञायते यदुत 'द्रव्यस्तवकाले तु प्रणिधानं नास्ति' इति। प्रणिधानं च शुभभावः, ततश्च तदभावेन जिनपूजायां पुष्पाद्युपमर्दनं भावहिंसैव, यदा तु पूजान्ते प्रणिधानप्रधानं चैत्यवन्दनं क्रियते, तदा हिंसादोषो दूरीक्रियत इति कूपदृष्टान्तोऽत्र घटते। अधुनाऽक्षरार्थः। स च स्पष्ट एव।। अत एव = पूजाकाले प्रणिधानाभावेन भावहिंसात्वं इति यत् प्रसाधितम्, तस्मादेव प्रणिधानाद्याशयराहित्यात् = प्रणिधानप्रवृत्तिविघ्नजयसिद्धिविनियोगरूपैः भावस्तवकारणीभूतैः आशयैः यत् रहितत्वं जिनपूजायामस्ति, तस्मात् द्रव्यक्रियारूपत्वेन = जिनपूजाया द्रव्यक्रियास्वरूपत्वात् पूजाया द्रव्यस्तवत्वम्। अयमाशय: - आशयभेदा एते सर्वेऽपि, हि तत्त्वतोऽवगन्तव्याः। भावोऽयमनेन विना, चेष्टा द्रव्यक्रिया तुच्छा।। (षो. ३/१२) इति षोडशकवचनम्। अत्र प्रणिधानादय आशया भावः' इति निगदितम्, तेन विना चेष्टा द्रव्यक्रिया तुच्छा च प्रतिपादिता। पूजापञ्चाशकानुसारेण तु ज्ञायते यदुत 'जिनपूजान्ते प्रणिधानं कार्यं ' इति ततश्च अर्थापत्त्या जिनपूजाकाले प्रणिधानादिरूपो भावो नास्ति' इति निश्चीयते। ततश्च प्रणिधानादिरहिता जिनपूजाक्रिया न भावक्रिया,

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106