Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
कूपदृष्टान्तविशदीकरणं
किन्तु द्रव्यक्रिया, द्रव्यक्रियारूपत्वेन सा द्रव्यस्तवः, न तु भावस्तव: । ततश्च यत् पूजाया द्रव्यस्तवत्वं प्रतिपादितं, तेनाऽपि निश्चीयते, यदुत सा क्रिया प्रणिधानादिरहितैव, अन्यथा द्रव्यस्तवत्वासम्भवादिति।
यशो. : इत्यत्राह
-
दव्वथओ पुप्फाई, ण उ पणिहाणाइविरहओ चेव । पणिहाणाई अन्ते, भिण्णं पूव्विं तु सामण्णं ॥१३॥
-
थन्द्र. : अत्र = एतस्मिन्पूर्वपक्षे सति आह त्रयोदश्या गाथायाः संस्कृतछाया अन्वयश्चैवम् । पुष्पादिः प्रणिधानादिविरहत एव द्रव्यस्तवो न तु ।
अन्ते प्रणिधानादि भिन्नं पूर्वं तु सामान्यम् ॥१३॥
द्रव्यस्तवो द्वाभ्यां प्रकाराभ्यां भवति । तत्र प्रणिधानाद्यभावैः यो द्रव्यस्तवः, स तुच्छक्रियारूप एको द्रव्यस्तवः, यस्तु पुष्पादिना द्रव्येण स्तवः, स प्रणिधानादिसद्भावेऽपि पुष्पादिद्रव्यप्राधान्याद् द्रव्यस्तवः, स च द्वितीयः ।
पूजापञ्चाशके द्रव्यस्तवान्ते यत्प्रणिधानं उक्तं तत्तु त्रयोदशप्रार्थनास्वरूपं 'जय वीयराय' इत्यादिसूत्रात्मकमुक्तम्। द्रव्यस्तवकाले एकाग्रतादिरूपं तु प्रणिधानमस्त्येवेति द्रव्यस्तवो न तुच्छक्रियारूपो द्रव्यस्तवः, किन्तु द्रव्येण प्रधानो द्रव्यस्तवः अभिप्रेत इति ।
तथा भावस्तवकारणत्वात् स द्रव्यस्तव इति । एतत्सर्वं स्पष्टीकर्त्तव्यम् ।
अधुना त्रयोदश्या गाथाया वृत्तिः विक्रीयते ।
यशो. : 'दव्वथउ पुप्फाई, सन्तगुणकित्तणा भावे' इति निर्युक्तिवचनाद् द्रव्येण पुष्पादिना स्तवो द्रव्यस्तव इति व्युत्पत्तेर्जिनपूजाया द्रव्यस्तवत्वमुच्यते ।
चन्द्र. : दव्वथउ पुप्फाई इत्यादि । 'पुष्पादिः द्रव्यस्तवः, विद्यमानगुणोत्कीर्तनं च भावस्तव:' इति निर्युक्तिवचनात् न तु 'दव्वथउ पणिह णाइभावविरहो' इत्यादि निगदितं इति ध्येयम् । द्रव्येण पुष्पादिना स्तवो द्रव्यस्तव इति व्युत्पत्तेः = एतादृशसमासानुसारेण जिनपूजाया द्रव्यस्तवत्वं उच्यते। न तु प्रणिधानादिविरहेण द्रव्यस्तवत्वमिति ।
यशो. : गुणवत्तया ज्ञानजनकः शब्दः (स्तवः ) इत्यत्र वर्णध्वनिसाधारणं | ताल्वोष्ठपुटादिजन्यव्यापारत्वं शब्दत्वमिति जन्यान्तपरिहारेण व्यापारमात्रस्यैव ग्रहणौचित्यात् ।
८४

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106