Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 62
________________ - कूपदृष्टान्तविशदीकरणं । यशो.: ननु किमित्येवमविधियुतभक्तिकर्मणो व्यवहारतो निश्चयतो वा बन्धप्रदीर्घकालापेक्षया मिश्रत्वमुच्यते। यन्द्र.: शङ्कते - ननु किमित्येवं = प्रतिपादितनीत्या अविधियुतभक्तिकर्मणो व्यवहारतो 'मिश्रत्वं उच्यते' इत्यन्वयः, निश्चयतो वा बन्धप्रदीर्घकालापेक्षया मिश्रत्वमुच्यते। व्यवहारत एकस्मिन्नेव समयेऽपि मिश्रत्वं सम्भवति, निश्चयतस्तु एकस्मिन्समये शुद्धोऽशुद्धो वा एक एव योगः, केवलं बन्धप्रदीर्घकालापेक्षया परिणामपरावृत्त्या च मिश्रत्वं उच्यते। यशो. : यावता द्रव्यहिंसयैव जलपुष्पादिजीवोपमर्दरूपया मिश्रत्वमुच्यताम् । यन्द्र.: ननु हे पूर्वपक्ष! यद्येवं मिश्रत्वं न वक्तव्यं, कथं तर्हि वक्तव्यमित्यत: पूर्वपक्ष एव प्राहयावता द्रव्यहिंसयैव = व्यवहारतो जीवव्यपरोपणरूपयैव, न तु अशुद्धयोगेन मिश्रत्वं इत्येवकारशब्दार्थः। द्रव्यहिंसाया एव स्वरूपमाह- जलपृष्यादिजीवोपमर्दरूपया मिश्रत्वं = शद्धयोगेन सहेति शेषः। यशो.: उत्तरकालिकचैत्यवन्दनादिभावस्तवेन तद्दोषापनयनात्कूपदृष्टान्तोपपत्ते:? इत्याशङ्कायामाह - यन्द्र.: ननु हे पूर्वपक्ष! भवतु नामानया प्रक्रियया मिश्रत्वं, परन्तु अत्र कूपदृष्टान्तघटनं कथं कर्त्तव्यमित्यत: पूर्वपक्षः प्राह - उत्तरकालिकेत्यादि। द्रव्यस्तवान्ते निरवद्यं यत् चैत्यवन्दनं क्रियते, तदनन्तरं च यत् 'जय वीयराय' इत्यादिरूपं यत् प्रणिधानं क्रियते, तदेतत् सर्वं भावस्तवः, ततस्तेन भावस्तवेन तद्दोषापनयनात् = जलपुष्पादिजीवविराधनारूपाया द्रव्यहिंसाया अपनयनात् कूपदृष्टान्तोपपत्तेः = प्रथम हानि:, पश्चाद् तस्यैवापायस्य निष्काशनं अधिकलाभश्चेत्येवंरूपभावार्थप्रतिपादकस्य कूपदृष्टान्तस्य संघटनं भवतीति। इति पूर्वपक्षकृतायां आशङ्कायां आह - यशो.: जइ विहिजुयपूयाए, दुय॒त्तं दव्वमित्तहिंसाए । __ तो आहारविहारप्पमुहं, साहूण किमदुळं? ॥८॥ यन्द्र.: अष्टम्या गाथायाः संस्कृतछाया अन्वयश्चैवं। यदि विधियुतपूजायां, द्रव्यमात्रहिंसया दुष्टत्वं। तर्हि साधूनां आहारविहारप्रमुखं किं अदुष्टं? ॥८॥ यशो. : यदि विधियुतपूजायां विधियुतभक्तिकर्मणि, द्रव्यमात्रहिंसया दुष्टत्वं स्यात्, 'तो' त्ति = तर्हि, साधूनामाहारविहारप्रमुखं किमदुष्टमुच्यते? तदपि दुष्टमेव वक्तुमुचितम्, तत्रापि द्रव्यहिंसादोषस्यावर्जनीयत्वात्। यतनया तत्र न दोष इति चेत्, अत्रापि किं न तथा?

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106