________________
-
कूपदृष्टान्तविशदीकरणं ।
यशो.: ननु किमित्येवमविधियुतभक्तिकर्मणो व्यवहारतो निश्चयतो वा बन्धप्रदीर्घकालापेक्षया मिश्रत्वमुच्यते।
यन्द्र.: शङ्कते - ननु किमित्येवं = प्रतिपादितनीत्या अविधियुतभक्तिकर्मणो व्यवहारतो 'मिश्रत्वं उच्यते' इत्यन्वयः, निश्चयतो वा बन्धप्रदीर्घकालापेक्षया मिश्रत्वमुच्यते।
व्यवहारत एकस्मिन्नेव समयेऽपि मिश्रत्वं सम्भवति, निश्चयतस्तु एकस्मिन्समये शुद्धोऽशुद्धो वा एक एव योगः, केवलं बन्धप्रदीर्घकालापेक्षया परिणामपरावृत्त्या च मिश्रत्वं उच्यते।
यशो. : यावता द्रव्यहिंसयैव जलपुष्पादिजीवोपमर्दरूपया मिश्रत्वमुच्यताम् ।
यन्द्र.: ननु हे पूर्वपक्ष! यद्येवं मिश्रत्वं न वक्तव्यं, कथं तर्हि वक्तव्यमित्यत: पूर्वपक्ष एव प्राहयावता द्रव्यहिंसयैव = व्यवहारतो जीवव्यपरोपणरूपयैव, न तु अशुद्धयोगेन मिश्रत्वं इत्येवकारशब्दार्थः। द्रव्यहिंसाया एव स्वरूपमाह- जलपृष्यादिजीवोपमर्दरूपया मिश्रत्वं = शद्धयोगेन सहेति शेषः।
यशो.: उत्तरकालिकचैत्यवन्दनादिभावस्तवेन तद्दोषापनयनात्कूपदृष्टान्तोपपत्ते:? इत्याशङ्कायामाह -
यन्द्र.: ननु हे पूर्वपक्ष! भवतु नामानया प्रक्रियया मिश्रत्वं, परन्तु अत्र कूपदृष्टान्तघटनं कथं कर्त्तव्यमित्यत: पूर्वपक्षः प्राह - उत्तरकालिकेत्यादि। द्रव्यस्तवान्ते निरवद्यं यत् चैत्यवन्दनं क्रियते, तदनन्तरं च यत् 'जय वीयराय' इत्यादिरूपं यत् प्रणिधानं क्रियते, तदेतत् सर्वं भावस्तवः, ततस्तेन भावस्तवेन तद्दोषापनयनात् = जलपुष्पादिजीवविराधनारूपाया द्रव्यहिंसाया अपनयनात् कूपदृष्टान्तोपपत्तेः = प्रथम हानि:, पश्चाद् तस्यैवापायस्य निष्काशनं अधिकलाभश्चेत्येवंरूपभावार्थप्रतिपादकस्य कूपदृष्टान्तस्य संघटनं भवतीति। इति पूर्वपक्षकृतायां आशङ्कायां आह -
यशो.: जइ विहिजुयपूयाए, दुय॒त्तं दव्वमित्तहिंसाए ।
__ तो आहारविहारप्पमुहं, साहूण किमदुळं? ॥८॥ यन्द्र.: अष्टम्या गाथायाः संस्कृतछाया अन्वयश्चैवं। यदि विधियुतपूजायां, द्रव्यमात्रहिंसया दुष्टत्वं। तर्हि साधूनां आहारविहारप्रमुखं किं अदुष्टं? ॥८॥
यशो. : यदि विधियुतपूजायां विधियुतभक्तिकर्मणि, द्रव्यमात्रहिंसया दुष्टत्वं स्यात्, 'तो' त्ति = तर्हि, साधूनामाहारविहारप्रमुखं किमदुष्टमुच्यते? तदपि दुष्टमेव वक्तुमुचितम्, तत्रापि द्रव्यहिंसादोषस्यावर्जनीयत्वात्। यतनया तत्र न दोष इति चेत्, अत्रापि किं न तथा?