________________
-
कूपदृष्टान्तविशदीकरणं । तस्मिन्ननुष्ठाने सम्पूर्णं फलं भवति।
(२) जिनपूजादौ यस्मिन्ननुष्ठाने सर्वथाऽविधिभाव एवास्ति, भक्तिभावस्य लेशोऽपि नास्ति, तस्मिन्ननुष्ठाने सम्पूर्ण विपरीतं फलं भवति। __ (३) जिनपूजादौ यस्मिन्ननुष्ठाने उत्कटभक्तिभावस्य कालः प्रभूतः, उत्कटाविधिभावस्य च कालोऽल्पः, अर्थादनुत्कटभक्तिभावस्य कालोऽल्पः, अनुत्कटाविधिभावस्य कालः प्रभूतः, तत्र शुभं फलं प्रभूतं, तदपेक्षयाऽशुभं फलमल्पमिति।
(४) जिनपूजादौ यस्मिन्ननुष्ठाने उत्कटाविधिभावस्य कालः प्रभूतः, उत्कटभक्तिभावस्य च कालोऽल्पः, अर्थादनुत्कटाविधिभावस्य कालोऽल्पः, अनुत्कटभक्तिभावस्य च कालः प्रभूतः, तत्राशुभं फलं प्रभूतं, तदपेक्षया शुभं फलं अल्पमिति। ___ (५) जिनपूजादौ यस्मिन्ननुष्ठाने उत्कटभक्तिभाव एवानवरतं वर्तते, ततश्चोत्कटाविधिभावो नैव भवति, केवलं अनुत्कटाविधिभावो वर्तते, तत्र सं निरनुबन्धतया = अप्रधानतया द्रव्यरूपतां प्राप्नुवन् भग्न इवावतिष्ठते।
(६) जिनपूजादौ यस्मिन्ननुष्ठाने उत्कटाविधिभाव एवानवरतं वर्तते, ततश्चोत्कटभक्तिभावो नैव भवति, केवलं अनुत्कटभक्तिभावो वर्तते, तत्र स निरनुबन्धतया = अप्रधानतया द्रव्यरूपतां प्राप्नुवन् स भग्न इवावतिष्ठते।
एवं सङ्केपतोऽभिहितः सारः, विस्तरार्थस्तु स्वयमेवाभ्युह्य ग्राह्यः।
इदन्तु स्पष्टीकर्तव्यम्-अनादिसंसारे जीवेनोत्कटोऽनुत्कटो वा स्वल्पोऽपि भक्तिभावो नैव प्राप्तः, यस्मात्तस्य प्राप्तिश्चरमावर्त एव भवति। ततश्च यद्यपि प्रतिपादितरीत्या बहुकालीनोत्कटाविधिभाव - समन्वितस्याल्पकालीनोत्कटभक्तिभावसमन्वितस्य जिनपूजाद्यनुष्ठानस्य बहुपापफलकत्वं अस्ति, तथाऽपि तत्र भक्तिभावप्राप्तिरेव चरमावर्तसूचिकेति महत्फलम्। ___ एवमेवैकधारारूढेणाविधिभावेन समन्विते जिनपूजादौ यद्यपि अनुत्कटभक्तिभाव भग्न इव एवातिष्ठते, तथाऽपि तस्य प्राप्तिरेव दुर्लभेति तदपेक्षया तु महत्फलमेव। यत्तु अत्र अल्पाधिकफलविचारणं क्रियते, तत् एकधारारूढोत्कटभक्तिभावसमन्वितजिनपूजाद्यपेक्षया, बहुकालीनोत्कटभक्तिभावसमन्वितजिनपूजाद्यपेक्षया चेति। यस्मात् तत्र प्रभूतं फलं, तदपेक्षया एकधारारूढोत्कटाविधिभावसमन्वितजिनपूजादौ बहुकालीनोत्कटाविधिभावसमन्विताल्पकालीनोत्कटभक्तिभावयुक्तजिनपूजादौ च चरमावर्तसूचनमात्ररूपं फलमित्यादि स्पष्टं विवेचनीयमिति।