________________
कूपदृष्टान्तविशदीकरणं
-
यन्द्र.: तत्रापि = साधूनां आहारविहारप्रमुखेऽनुष्ठाने द्रव्यहिंसादोषस्य = जीवोपमर्दरूपस्य अवर्जनीयत्वात्। वायुकायस्य विराधना तावदवश्यंभाविनी, अनाभोगप्रमादादिना चान्याऽपि विराधनाऽनिरुद्धप्रसरेति।
पूर्वपक्षःप्राह - यतनया तत्र = आहारविहारादौ न दोष इति चेत्,
समाधानमाह - अत्रापि = विधिशुद्धजिनपूजायां किं न तथा = यतनया दोषाभावः? दोषाभावो भवत्येवेति भावः।
यशो.: जिनपूजादौ द्रव्यहिंसाया असदारम्भप्रवृत्तिनिवृत्तिफलत्वेनाहिंसारूपत्वात् ।
यन्द्र.: ननु जिनपूजादौ स्पष्टमेव जलपुष्पादिविराधनादर्शनात् दोषाभावस्वीकरणं दुष्करमित्यत आह - जिनपूजादौ द्रव्यहिंसाया असदारम्भप्रवृत्तिनिवृत्तिफलत्वेन असदारम्भस्य या प्रवृत्तिः तस्मात् या निवृत्तिः, सैव फलं यस्याः, सा तथा असदारम्भप्रवृत्तिनिवृत्तिफला, तादृशफलत्वेनेति। अहिंसारूपत्वात्।
अयमाशयः -
गृहस्थाः स्वदेहशौचार्थं जलेन स्वदेहक्षालनं कुर्वन्ति, तत्र चाप्कायविराधना, सा चासदारम्भः। एवं स्वकुटुम्बार्थं गृहनिर्माणकारणाय पृथ्वी खनयन्ति, तत्र च पृथ्वीविराधना, सा चासदारम्भः । एवं व्यापारार्थं समुद्रे यानपात्रप्रेषणादिप्रकारेणाऽपि प्रभूतं असदारम्भं प्रवर्तयन्ति।
एष सर्वोऽपि असदारम्भोऽशातादिपापकर्मणः कारणं भवति।
यदा तु ते एव गृहस्था जिनपूजार्थं स्नानं कुर्वन्ति, जिनपूजार्थमेव जिनगृहनिर्माणाय पृथ्वी खनयन्ति, एवं जिनपूजायां जलपुष्पादीन् जीवान् विराधयन्ति इति, तदा ते सदारम्भे प्रवृत्ताः कथ्यन्ते। एष च सर्वोऽपि सदारम्भो द्वाभ्यां प्रकाराभ्यां असदारम्भस्य निवृत्तिं साधयति, सदारम्भकाले तदुत्तरकाले च। तथाहि -सदारम्भकाले असदारम्भस्यासम्भव इति कृत्वा तदा तन्निवृत्तिः इत्येकः प्रकारः, तथा सदारम्भेण मोहनीयक्षयोपशमं साधयित्वोत्तरकालं असदारम्भस्य निवृत्तिं साधयति इति द्वितीयः प्रकारः।
इत्थं च सदारम्भोऽसदारम्भनिवृत्तिफलक इति कृत्वा परमार्थतः स अहिंसैव, ततश्च जिनपूजादौ विद्यमानः सदारम्भोऽहिंसैवेति न जिनपूजादौ सदारम्भेन कारणेन दुष्टत्वमिति।
यशो.: तदुक्तम् - "असदारंभपवत्ता, जं च गिही तेण तेसि विण्णेया । तण्णिव्वित्तिफल च्चिय, एसा परिभावणीयमिणं" ॥१॥ (पू. पञ्चा. ४३) यन्द्र.: तद् = अनन्तरोक्तं उक्तं = कथितं पूजापञ्चाशके।
गाथाऽन्वयस्त्वेवम् → यस्माच्च कारणात् गृहिणोऽसदारम्भप्रवृत्ताः, तेन = तस्माच्च कारणात्तेषां गृहस्थानां एषा तन्निवृत्तिफला चैव, इदं परिभावनीयम् -।