Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 64
________________ - कूपदृष्टान्तविशदीकरणं । यशो. : 'असदारम्भप्रवृत्ताः = प्राण्युपमर्दनहेतुत्वेनाशोभनकृष्यादिव्यापारप्रसक्ताः, यद्यस्माद्धेतोः, चशब्दः समुच्चये, गृहिणः = गृहस्थाः, तेन हेतुना, तेषां = गृहिणां, विज्ञेया = ज्ञातव्या, तन्निवृत्तिफलैव = देहगेहादिनिमित्तजीवोपमर्दनरूपाशुभारम्भनिवृत्तिप्रयोजनैव। भवति हि | जिनपूजाजनितभावविशुद्धिप्रकर्षण चारित्रमोहनीयक्षयोपशमसद्भावात्कालेनासदारम्भेभ्यो निवृत्तिः। तथा जिनपूजाप्रवृत्तिकाले चाऽसदारम्भाणामसम्भवात् शुभभावसम्भवाच्च तन्निवृत्तिफलाऽसौ भवतीत्युच्यते, एषा = जिनपूजा, परिभावनीयं = पर्यालोचनीयम्, इदं = जिनपूजाया असदारम्भनिवर्तनफलत्वं भवद्भिरपि, येनावबुध्य तथैव प्रतिपद्यते, इति गाथार्थः' इति पञ्चाशकवृत्तौ। यन्द्र.: अस्या एव गाथायाः पञ्चाशकग्रन्थे लिखिता वृत्तिरेव लेशतः प्रदर्श्यते। असदारम्भेत्यादि। वृत्तिः प्रायः स्पष्टा, नवरं किञ्चिदुच्यते। कृष्यादिव्यापारोऽशोभन: किमर्थं ? इत्येतत्प्रतिपादनार्थमेवाह - प्राण्युपमर्दहेतुत्वेन इति। तथा च यस्मादयं कृष्यादिव्यापारः प्राण्युपमर्दहेतुः, तस्मात्स अशोभन इति। देहगेहादीत्यादि देहगेहादि एव निमित्तं यस्य, तादृशो यो जीवोमर्दनरूपोऽशुभारम्भः, तस्य निवृत्तिः एव प्रयोजनं = कार्यं यस्याः, तादृशी सा जिनपूजाऽस्ति। ननु कथं जिनपूजा असदारम्भनिवृत्तिफलेत्यत आह - भवति हि इत्यादि। अत्र हि कालान्तरभाविनी विरतिरूपा असदारम्भनिवृत्तिः प्रतिपादिता। तथा जिनपूजाप्रवृत्तिकाले इत्यादि। अत्र हि जिनपूजाकालभाविनी असदारम्भनिवृत्तिः प्रतिपादिता। तत्रापि यदि शुभभावो न भवेत्, तर्हि भावतोऽसदारम्भनिवृत्तिः न स्यात्। तस्माद् भावतोऽसदारम्भनिवृत्तिप्रसाधनार्थं शुभभावसम्भवाच्चेति उक्तम्। तदभावे तु अभव्यानामपि व्यवहारतोऽसदारम्भनिवृत्तिः भवत्येव, न च तया कोऽपि आत्मिको लाभ इति। भवद्भिरपि = पूर्वपक्षरूपैः, किमर्थं तैरपि इदं परिभावनीयं इत्याह - येन = परिभावनेन अवबुध्य = जिनपूजाया असदारम्भनिवर्तनफलत्वं सम्यग् ज्ञात्वा तथैव = यथा सम्यग् ज्ञानं, तथैव प्रतिपद्यते, इति गाथार्थः।। यशो.: "यतनातो न च हिंसा, यस्मादेषैव तन्निवृत्तिफला। तदधिकनिवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति" ॥१६॥ (षष्ठषोडशके) यन्द्र.: जिनपूजादौ द्रव्यहिंसा यतनासद्भावान्न हिंसेति पदार्थं पाठान्तरेण दृढीकुर्वन्नाह - यतनातो इत्यादि। जिनपूजायां यतनातो हिंसा न, यस्मात् एषैव = द्रव्यहिंसैव तदधिकनिवृत्तिभावात् = जिनपूजासम्बन्धिहिंसायाः सकाशाद्याऽधिका हिंसा, तस्मात् या निवृत्तिः, तस्याः सद्भावात् तन्निवृत्तिफला = हिंसानिवृत्तिफला। अतो = अस्मात्कारणात् एतद् = जिनभवननिर्माणं इति षोडशकगाथासङ्केपार्थः ।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106