Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 68
________________ - - कूपदृष्टान्तविशदीकरणं । यशो. : द्रव्यस्तवे यावनारम्भस्तावदूषणमिति गणनायां क्रियमाणायां, ऋजुसूत्रनये प्रतिजीवं भिन्नभिन्नहिंसाऽऽश्रयणादसङ्ख्यजीवविषय आरम्भ एकभगवद्विषया च भक्तिरिति अल्पपापबहुतरनिर्जराकारणत्वं सर्वथाऽनुपपन्नम्। यन्द्र.: हे पूर्वपक्ष! द्रव्यस्तवेऽल्पं पापं बह्वी च निर्जरति भवतामभिमतम्। त्वं चाधुना वदति यदुत द्रव्यस्तवे यावान् आरम्भः = यत्सङ्ख्याको जीववधस्तावद्रूषणं = तत्संख्याकः पापबन्ध इति। एवं च यदि गणना क्रियते, तर्हि तादृश्यां गणनायां क्रियमाणायां सत्यां ऋजुसूत्रनये = निश्चयनयविशेषे प्रतिजीवं भिन्नभिन्नहिंसाश्रयणाद् असङ्ख्यजीवविषय आरम्भः इत्यादि सर्वथाऽनुपपन्नं इति यावत्सर्वं स्पष्टम्। आशयस्त्वयम् - अयं हि नयो मन्यते, एकस्मिन्जलबिन्दौ यदि असंख्येया जीवाः, तर्हि एकजलबिन्दुविराधनायां असंख्यजीवानां विराधना, एवं च जिनपूजादौ कोटिप्रभृति जलबिन्दुविराधको गृहस्थ: कोटिगुणितानामसंख्यजीवानां विराधकः, भक्तिस्तु तस्य एकस्या भगवत्प्रतिमाया एवेति अत्र हिंसासंख्याप्राचुर्यात् प्रचुरपापमेव, भक्तिसंख्यायाः तुच्छत्वात् तुच्छपुण्यमेव। एवं च द्रव्यस्तवे यत् अल्पपापबहुतरनिर्जराकारणत्वं उच्यते, तत् केनाऽपि प्रकारेण नैव घटत इति। यशो. : आत्मरूपहिंसाऽहिंसावादिशब्दादिनयमते त्वाह-अल्पमपि विषं च हालाहलं मारयति । आध्यात्मिक आरम्भो यद्यल्पोऽपि स्यात्तदा पुण्यानुबन्धिपुण्यप्राप्तिर्न स्यादेव, व्याधाद्यपेक्षया कर्णजीविनामिवाल्परसस्यापि तस्य शुभकर्मविरोधित्वादिति भावः ॥९॥ यन्द्र.: पूर्वपक्ष आह → 'यावान् आरम्भः, तावत्पापं' इति तु सत्यम्, परन्तु स आरम्भः ऋजुसूत्रनयेन न ग्राह्यः, किन्तु शब्दसमभिरूढैवम्भूतनयरूपैः त्रिभिर्निश्चयनयैः ग्राह्यः, यस्मात् ते एवं मन्यन्ते यदुत 'न परजीवस्य वधोऽस्माकं हिंसा, परन्तु अस्माकं आत्मन एव ज्ञानादिगुणरूपस्य वधो हिंसा' इति। तथा च जिनपूजायां असंख्यजीवनाशेऽपि स वधो वधो न गण्यते, किन्तु तदा ज्ञानादिगुणरूपस्वात्मविनाश एव अर्थात् ज्ञानादिगुणनाश एव वधो गण्यते, स एव चारम्भः, स च यावान् भवेत् तावत्पापमिति। स चारम्भोऽल्प इति तज्जन्यं पापमप्यल्पमेव - इति। ___ अत्र समादधाति - आत्मरूपहिंसाऽहिंसावादिशब्दादिनयमते तु = आत्मस्वरूपस्यैव हिंसा अहिंसा तात्त्विकीति वादिनो ये शब्दादिनया:, तेषां मते पूर्वपक्षणाङ्गीक्रियमाणे आह ग्रन्थकृत् - अल्पमपि विषं चेत्यादि। एतदेव स्पष्टयति - आध्यात्मिक आरम्भो = आत्मस्वरूपहिंसास्वरूपो यद्यल्पोऽपि आस्तां तावत् बहु:, किन्तु अल्पोऽपि स्यात्, तदा पुण्यानुबन्धिपुण्यप्राप्तिर्न स्यादेव। यदि हि जिनपूजायां अल्पोऽपि आरम्भो न स्यात्, तर्हि सर्वथा पुण्यमेव स्यात्, न तु अल्पं पापं बहु च पुण्यमिति। यदि च अल्पोऽपि

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106