Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 66
________________ कूपदृष्टान्तविशदीकरणं असदारम्भप्रवृत्तिनिवृत्तिरेवेति सिद्धम् । ततश्च पञ्चाशकपाठात् षोडशकपाठात् भगवतीपाठाच्च स्पष्टं सिध्यति यदुत जिनपूजादिकं असदारम्भप्रवृत्तिनिवृत्तिफलकं, ततश्च जिनपूजादिहिंसायाः परमार्थतोऽहिंसात्वमेवेति यतनासत्त्वे जिनपूजादिकेऽनुष्ठाने द्रव्यहिंसाया लेशतोऽपि दोषत्वं नास्त्येवेति दृढतरं मन्तव्यमिति । यशोः कूपज्ञातान्यथानुपपत्त्या पूजादिकाले द्रव्यहिंसाजनितं पापमवर्जनीयमेव, | आज्ञायोगादाहारविहारादिकं साधूनां न दुष्टमिति चेत् । थन्द्रः एवं तावन्महोपाध्यायैः साधूनां आहारविहारादिकं गृहस्थानां च जिनपूजादिकं द्रव्यहिंसायाः सद्भावात् समानं प्रसाधितम्, ततश्चाहारविहारादिवत् जिनपूजादिकं निर्दोषं प्रसाधितम्, किन्तु पूर्वपक्षो द्वयोर्मध्ये भेदं प्रतिपादयति यदुत “ साधूनां आहारविहारादिकेऽनुष्ठाने भगवतां आज्ञाऽस्ति, आज्ञायोगाच्च तत्सर्वं निर्दोषम्, गृहस्थानां तु जिनपूजादिकेऽनुष्ठाने भगवतामाज्ञा नास्ति । किन्तु कूपदृष्टान्तः प्रतिपादितोऽस्ति, कूपदृष्टान्तानुसारेण च तत्र पापं अल्पमपि मन्तव्यमेव इति स्पष्ट एव आहारविहारादिकस्य जिनपूजादिकस्य च भेद" इति । एतदेव सर्वं पूर्वपक्षः प्रसाधयति - कूपज्ञातान्यथाऽनुपपत्त्या = जिनपूजाद्यनुष्ठानविषये शास्त्रे यः कूपदृष्टान्तो निरूपितः, तस्याल्पपापं विनाऽघटमानत्वात् पूजादिकाले द्रव्यहिंसाजनितं पापं अशाताप्रभृतिकं अवर्जनीयमेव अवश्यं मन्तव्यमेव। आज्ञायोगात् = 'साधुभिः आहारविहारादिकं करणीयम्' इति जिनाज्ञासद्भावात् आहारविहारदिकं साधूनां न दुष्टम् इति चेत् । थशो.: अत्रापि परिमितसंसारफलकत्वार्थवादेनानुकम्पादाविवाज्ञायोगः किं न कल्प्यते ? थन्द्रः महोपाध्यायाः समादधति यदुत " यथाऽऽहारविहारादिकेऽनुष्ठाने आज्ञायोगोऽस्ति, तथैव जिनपूजादिकेऽनुष्ठाने यत् संसाराल्पताकारणत्वं प्रतिपादितं, तेन तस्मिन्नपि आज्ञायोगः कल्पनीयः, यस्मात् संसाराल्पताकारणीभूते अनुष्ठाने भगवान् आज्ञां दद्यादेव, ततश्च साक्षाददृश्यमाणाऽपि सा कल्पयितुं युक्तैव” इति। एतदेवाहुः - अत्रापि = जिनपूजादिकेऽपि, आस्तां आहारविहारादिकेऽनुष्ठाने इत्यपिशब्दार्थः परिमितसंसारफलकत्वार्थवादेन = 'जिनपूजादिकं संसारपरिमितताफलकं' इत्येवं प्रदर्शको यो जिनपूजादिप्रशंसास्वरूपः अर्थवाद:, तेन अनुकम्पादौ इव आज्ञायोगः किं न कल्प्यते ? अर्थादनुमीयत एव इति भावः । अनुमानं चेत्थं - जिनपूजादिकं ‘कर्त्तव्यं' इत्याज्ञा अस्ति परिमितसंसारफलकत्वाभिधानात्, अनुकम्पावत् । यत्र यत्र परिमितसंसारफलकत्वाभिधानं तत्र तत्र 'कर्त्तव्यं' इत्याज्ञाऽस्ति यथाऽनुकम्पायाम् । जिनपूजादिकेऽपि परिमितसंसारफलकत्वाभिधानं अस्त्येवेति तत्र 'कर्त्तव्यं' इत्याज्ञाऽपि अस्त्येवेति। = ૬૫ =

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106