Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 59
________________ कूपदृष्टान्तविशदीकरणं तया द्रव्यरूपतां = अप्रधानद्रव्यस्वरूपतां अश्नुवन् = प्राप्नुवन् तत्र = एकधारारूढभक्तिभावान्वितेऽनुष्ठाने भग्न इव सन्नपि असन्निव अवतिष्ठत इति । - अयं भावः - असत्कल्पनया कल्प्यते यदुत 'जिनपूजाकालो मुहूर्तप्रमाण:' इति । तत्र कियत्समयपरिमाणे प्रथमविभागे उत्कटो भक्तिभावः, अनुत्कटश्चाविधिभावो वर्तते, ततश्च तत्र उत्कटभक्तिभावमाहात्म्यात् शुद्ध एव योगः । तत्रानुत्कटाविधिभावसत्त्वेऽपि भावतोऽशुद्धयोगो न भवेत् । किन्तु अनन्तरं कियत्समयपरिमाणे द्वितीयविभागे यदा भक्तिभावोऽनुत्कटो भविष्यति, अविधिभावश्च उत्कटस्तदा तत्र भावतोऽशुद्धयोगो भविष्यतीति कृत्वा प्रथमविभागे प्रधानद्रव्यस्वरूपोऽशुद्धयोगो वक्तुं शक्यते, यस्माद् यो भावतोऽशुद्धयोगस्य कारणं भवति, स एव प्रधानद्रव्यस्वरूपोऽशुद्धयोग इति । द्वितीयविभागे तु प्रोक्तरीत्योत्कटाविधिभावमाहात्म्यादशुद्धयोग एव, परन्तु अनुत्कटभक्तिभावसत्त्वात् पुनस्तृतीयविभागे उत्कटभक्तिभावसम्भवाच्च तत्र प्रधानद्रव्यस्वरूपः शुद्धयोगो वक्तुं शक्यते । एवं यस्यां जिनपूजायां अविधिभावस्य भक्तिभावस्य चोत्कटानुत्कटस्वरूपस्य परावर्तनं भवति, तस्यां भावतः शुद्धयोगस्याशुद्धयोगस्य च प्रधानद्रव्यस्वरूपस्य शुद्धयोगस्याशुद्धयोगस्य च सद्भावो भवतीति । अस्यां च जिनपूजायां पुनः पुनः अविधिभावस्य भक्तिभावस्य च परावर्तनेन भवनात् द्वौ अपि स्वफलं प्रदर्शयतः । परन्तु यस्यां जिनपूजायां भक्तिभाव एकधारारूढ एव भवति, अर्थात् तस्य परावर्तनेनाविधिभाव उत्कटो न भवति, तस्यां जिनपूजायां अनुत्कट एवाविधिभावः सततं विद्यते, स च अग्रे उत्कटाविधिभावस्य कारणं न भवतीति कृत्वा स अनुत्कटोsविधिभावः प्रधानद्रव्यस्वरूपोऽपि न भवति । यस्मात् भविष्यत्काले भावतोऽविधिभावस्य कारणं भवन्नेवानुत्कटोऽविधिभावः प्रधानद्रव्यस्वरूपोऽविधिभावो भवति । इत्थं च एकधारारूढे भक्तिभावे सति विद्यमानोऽनुत्कटोऽविधिभावः अप्रधानद्रव्यरूपतां प्राप्नोति, ततश्च सन्नपि स मृत इवावतिष्ठते, न किञ्चिदपि स्वफलं ददाति, केवलं भक्तिभावजन्ये फले किञ्चिन्मात्रया हानिर्भवतीति । यशो.: एकधारारूढेऽविधिभावेऽप्यविधिभक्तिपर्यवसायिनि विधिपक्षादूषकतामप्यसहमाने भक्तिभावस्तथा(? स्य) अविधियुतस्य विषयेऽप्यर्चनादेर्भावस्तवाहेतुत्वेन न द्रव्यस्तवत्वमिति प्रतिपादनादिति | विवेचकाः ॥७॥ यन्द्रः ननु यथा भक्तिभाव एकधारारूढः सम्भवति, तथाऽविधिभावोऽपि जीवविशेषस्य एकधारारूढः सम्भवतीति ततश्च तदा किं भवतीति ज्ञातुमीहते मन इति अत आह - एकधारारूढे = यस्यां जिनपूजायां सततं उत्कट अविधिभाव एव भवति, भक्तिभावस्तु अनुत्कट एव, तस्यां जिनपूजायां स अविधिभाव एकधारारूढ उच्यते, ततश्च तादृशे अविधिभावेऽपि = 'यथा पूर्व एकधारारूढे भक्तिभावे प्रतिपादितं, ५८

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106