Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
-
कूपदृष्टान्तविशदीकरणं ।
यशो.: नन्वेवं क्थ्यिंशेऽशुद्धो भक्त्यंशे च शुद्धो योगः प्राप्तः, तथा च कथं न तत एकविधकर्मबधः? न च मिश्रं कर्म शास्त्रे प्रोक्तं येन मिश्रात्ततो मिश्रं कर्म बध्येतेत्याशड्कायामाह -
यन्द्र.: पूर्वपक्ष: शङ्कते - नन्वेवं इत्यादि। पूर्वपक्षस्यायमभिप्रायः- 'य: अविधिसमन्वितां भक्तिसमन्वितां च जिनपूजां करोति, स जिनपूजायां विधिरूपेंऽशे अज्ञानप्रमादादिप्रयोज्याविधिसमाचरणात् अशुद्धयोगवान् भवति, भक्तिरूपेंऽशे तु शुभभावसत्त्वात् शुद्धयोगवान् भवति। एवं च अविधिभक्तियुक्तां जिनपूजां कुर्वतः शुद्धाशुद्धरूपो योगः सिध्यति। ततश्च शुद्धयोगात्पुण्यबन्धः, अशुद्धयोगात्पापबन्धश्च यथा भवति, तथा शुद्धाशुद्धरूपाद्योगात् तृतीयः कश्चित् कर्मबन्धो मन्तव्यः स्यात्। न च मिश्ररूपाद्योगात् तत्र मिश्र कर्म पुण्यपापाभ्यां भिन्नस्वरूपं वक्तुं शक्यम्, शास्त्रे मिश्रकर्मणः कुत्राऽपि प्रतिपादनाभावात्। ततश्च एतादृशस्य शुद्धाशुद्धयोगवतः कर्मबन्धः कीदृशोऽवगन्तव्यः?' इति।
अक्षरार्थस्त्वयम् – एवं = 'गृहस्थस्य अविधिभक्तिसमन्विता जिनपूजा सम्भवति' एवं यत्प्रतिपादितमस्ति, तदनुसारेण विध्यंशेऽशुद्धः = विधिरूपस्यांशस्यापालनात्तदंशे गृहस्थस्य अविधिस्वरूपोऽशुद्धयोग: भक्त्यंशे च = शुभभावस्वरूपेंऽशे शुद्धो योगः प्राप्तः। तथा च = एवं शुद्धाशुद्धयोगे सिद्धे सति कथं न ततः = शुद्धाशुद्धयोगात् एकविधकर्मबन्धः = पुण्यबन्धात्पापबन्धाच्च विभिन्नरूपः कश्चिदन्यस्वरूप एव कर्मबन्धः । अस्माभिस्तु शुद्धयोगात्पुण्यकर्म, अशुद्धयोगाच्च पापकर्म इत्येवं द्विविधं कर्म इष्यते, पूर्वपक्षस्तु कथयति अत्र शुद्धाशुद्धः मिश्रयोगः, ततस्तस्मात् पुण्यापुण्यमिश्रणात्मकं एकस्वरूपमेव कर्म भवत्विति।
ननु भवतु नाम मिश्रयोगात् पुण्यपापोभयबन्धस्वरूपं मिश्रं कर्म, को दोषः? इत्यतः पूर्वपक्ष: प्राह - न च मिश्रं कर्म इत्यादि। यदि हि मिश्रं कर्म शास्त्रे प्रोक्तं स्यात्, तर्हि शुद्धाशुद्धयोगात् मिश्रं वक्तुं शक्यं स्यात्, किन्तु शास्त्रे मिश्रं कर्म नोक्तमिति ‘मिश्रात् योगात् मिश्रकर्म' इति वक्तुमशक्यमेवेति। ____ अथवा अत्र पूर्वपक्षस्यायमप्याशयः सम्भवति - स्नानपूजादौ जलाद्यारम्भसद्भावात्तत्राशुद्धः योगः, इति तस्मिन्काले पापबन्धः। तदनन्तरं चैत्यवन्दनकाले शुभभावमात्रसत्त्वात्तत्र शुद्ध: योगः, इति तस्मिन्काले पुण्यबन्धः । एवं विभिन्नकालमाश्रित्य अल्पपापबन्धो बहुपुण्यबन्धश्च अद्य यावत् प्रसिद्धः। दुर्गतनारीदृष्टान्ते तु पुष्पाद्यारम्भकाल एव तस्या निधनमभवत्, न हि तया प्रथममारम्भः पश्चाच्च भावपूजा कृता। तस्याश्च स्वर्गादिप्राप्तिरस्त्येवेति कृत्वा तस्या आरम्भकाल एव शुभभावसद्भावः स्वीकरणीयः स्यात्, अन्यथा तस्याः स्वर्गादिप्राप्तिः कथं भवेत् ? ततश्च दुर्गतनारीदृष्टान्ते तु न विभिन्नकाले शुद्धोऽशुद्धश्च योगः, किन्तु एकस्मिन्नेव काले अविधिरूपोऽशुद्ध:, भक्तिरूपश्च शुद्धो योगो मन्तव्यो भवति। इत्थं च एकस्मिन्नेव काले शुद्धाशुद्धयोगसद्भावात् तदा किं शुद्धयोगबलात्केवलं पुण्यकर्म मन्तव्यं? यदि वा अशुद्धयोगबलात्केवलं पापकर्म मन्तव्यम् ? इति प्रश्नः, उभयत्रापि निर्णयाभावात् किं शुद्धाशुद्धयोगात् कश्चित्तृतीय एव मिश्रस्वरूपः कर्मबन्धो मन्तव्य इति। परन्तु सोऽपि न सम्भवति, शास्त्रेऽनुक्तत्वात् इति।

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106