Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
-
कूपदृष्टान्तविशदीकरणं
७
यशो.: सुद्धासुद्धो जोगो, एसो ववहारदसणाभिमओ।
णिच्छयणओ उ णिच्छई, जोगज्झवसाणमिस्सत्तं ॥७॥ यन्द्र.: महोपाध्यायाः समादधति - सुद्धासुद्धो इत्यादि। सप्तमगाथायाः संस्कृतछाया अन्वयश्चेत्थं एष शुद्धाशुद्धो योगः, व्यवहारदर्शनाभिमतः । निश्चयनयस्तु जोगाध्यवसायमिश्रत्वं नेच्छति ॥७॥
यशो.: एष दुर्गतनारीसदृशानां जीवानां विधिवैधुर्येऽपि भक्तिकालीनो जिनपूजायोगः ||अशुद्धदानादिवच्छुद्धाशुद्धः = आंशिकशुद्ध्यशुद्धिवान्, व्यवहारदर्शनस्य = व्यवहारनयस्य, अभिमतः।||
यन्द्र.: एष = अनन्तरोक्तोऽविधिभक्तिसमन्वितः, जिनपूजायोगः' इति सम्बन्धः । दुर्गतनारीसदृशानां = अज्ञानवशात् अविधियुक्तानां पात्रतावशाच्च भक्तियुक्तानां विधिवैधुर्येऽपि = विधि-अभावेऽपि, विधिविकलत्वेऽपि वा भक्तिकालीनो = जिनेश्वरबहुमानसमन्वितो जिनपूजायोगः अशुद्धदानादिवच्छुद्धाशुद्धः = आंशिकशुद्ध्यशुद्धिमान व्यवहारदर्शनस्येत्यादि। तथा च व्यवहारनयस्तं योगं आंशिकशुद्ध्यशुद्धिमन्तं मन्यते, न तु निश्चयनयः।।
यशो.: ततश्च वाग्व्यवहारमात्रसिद्धर्नान्यत्फलम्।
यन्द्र.: ननु भवतु नाम व्यवहारनयस्य मिश्रयोगस्वीकारः, परन्तु तेन मिश्रयोगेन कर्मबन्धोऽपि मिश्रस्तु स्यादेव, कस्तत्र निषेधं कुर्यात् इति प्रश्ने सत्याह - ततश्च = यस्मात् मिश्रयोगो व्यवहारमात्रस्याभिप्रेतः, तस्मादेव वाग्व्यवहारमात्रसिद्धेः = 'अयं मिश्रयोग' इत्येवंरूपोच्चारमात्रमेव प्रकृतव्यवहारस्य फलं, तत्तु सिध्यति, परन्तु तस्मात् नान्यत्फलम् = मिश्रकर्मबन्धादिरूपमिति।
इदमत्र तात्पर्यम्।
व्यवहारो हि सामान्यतो वाग्व्यवहारं साधयति, तथाहि - कश्चित्पिता स्वपुत्रं 'जिनदत्त-देवदत्तमहेन्द्र' इत्यादिनाम्ना प्रसिद्धं करोति, अयं च व्यवहारः। अस्य च फलं एतावन्मात्रं यदुत पिता अन्ये च लोकास्तं 'जिनदत्त' इत्यादिनाम्ना उच्चारयन्ति। इत्थं चात्र व्यवहारो वाग्व्यवहारं साधयतीति स्पष्टम्।
परन्तु व्यवहारे स 'जिनदत्त' उच्यते, इति कृत्वा परमार्थतः स जिनेन दत्तो न भवति, एवमेव परमार्थेन स देवेन दत्तो महानिन्द्रो वा न भवति। ___ एवं अविधिभक्तियुक्ते जिनपूजाद्यनुष्ठाने व्यवहारः शुद्धाशुद्धयोगं मन्यते। ततश्च व्यवहारानुसारेण 'अस्यां जिनपूजायां शुद्धाशुद्धो योगोऽस्ति' इति वाचो व्यवहारो भवत्येव। परन्तु परमार्थतो न तत्र मिश्रयोगः, न वा तस्मान्मिश्रयोगात् मिश्रकर्मबन्धापत्तिरिति दुर्गतनारीदृष्टान्तात् मिश्रयोगं मत्वा मिश्रकर्मबन्धापत्तिदानं सर्वथैवानुचितम्। परमार्थतो मिश्रयोगस्यैव शुभाशुभोभयस्वरूपस्यैकस्याभावात्।

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106