Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 55
________________ कूपदृष्टान्तविशदीकरणं यशो. : निश्चयनयस्तु योगाध्यवसायस्थानानां मिश्रत्वं नेच्छति, अशुभरूपाणां शुभरूपाणां च शास्त्रे प्रतिपादनात् तृतीयराशेरकथनादिति स्पष्टं महाभाष्ये । चन्द्रः एतदेवाह निश्चयनयस्तु वास्तविकवस्तुमात्रग्राही नयस्तु योगाध्यवसायस्थानानां मिश्रत्वं नेच्छति । शुभरूपाणां अशुभरूपाणां च द्विस्वरूपाणां योगस्थानानां परस्परं मिश्रत्वं = शुभाशुभोभयैकरूपत्वं नेच्छति, एवं शुभरूपाणां अशुभरूपाणां च द्विस्वरूपाणां अध्यवसायस्थानानां परस्परं मिश्रत्वं नेच्छति । अत्र योगो मनोवाक्कायसम्बन्धी, अध्यवसायस्तु आत्मसम्बन्धीति । ननु स नयः किमर्थं मिश्रत्वं नेच्छतीत्यत आह - अशुभरूपाणां शुभरूपाणां च इत्यादि । प्रतिपादनादिति । ननु भवतु नाम शुभरूपाणामशुभरूपाणां च शास्त्रे प्रतिपादनम्, किन्तु मिश्ररूपस्तृतीयोऽपि राशिरस्माभिः स्वीक्रियतामिति चेत् न, तृतीयराशेः = मिश्रराशेः अकथनात्। तथा च यदि शास्त्रे तृतीयराशिरुक्तः स्यात्, तर्हि निश्चयनयस्तमपीच्छेत्, न चोक्तः, ततश्च तेन नेष्यत इति । इत्थं च परमार्थतो मिश्रयोग एव नास्तीति मिश्रकर्मापत्तिः मूलत एव निरस्तेति । ननु द्वौ एव राशी कथितौ, न तु तृतीय इति कुत्र शास्त्रे भवता दृष्टमिति जिज्ञासायामाह - इति स्पष्टमेव महाभाष्ये = विशेषावश्यकभाष्ये । .एकदैक एव योगोऽध्यवसायश्च भवति, शुभोऽशुभो वा, न तु शुभाशुभौ द्वौ इति निश्चयनयस्य स्पष्टोऽभिप्रायः । व्यवहारस्तु मिश्रस्य वाग्व्यवहारमात्रं करोति, परमार्थतस्तु स नास्त्येवेति । यशो : ननु (न च) समूहालम्बनोपयोगरूपस्याध्यवसायस्य सम्भवात्कथं तदप्रतिपादनमिति वाच्यम्, समूहालम्बनज्ञानस्य विशेषणीयत्वाद् विध्यौपयिकस्य विशिष्टोपयोगस्यैवमधिकृतत्वादिति युक्तमुत्पश्यामः । यन्द्रः पुनः पूर्वपक्षः शङ्कते न च समूहालम्बनोपयोगरूपस्येत्यादि । - अयं भावः - नानाविशेष्यताशालिज्ञानं समूहालम्बनं । तथाहि - 'घटपटौ नीलपीतौ' इति ज्ञाने घटे घटत्वावच्छिन्ना विशेष्यता, पटे च पटत्वावच्छिन्ना विशेष्यता वर्तते । नीलरूपं घटे पीतरूपं च पटे प्रकारीभूतम् । ततश्च इदं ज्ञानं घटत्वावच्छिन्नविशेष्यतापटत्वावच्छिन्नविशेष्यतास्वरूपाभ्यां नानाविशेष्यताभ्यां शालत इति समूहालम्बनं उच्यते । प्रकृते च दुर्गतनार्या ' भगवान् पूज्यो मुधालभ्यानि तुच्छानि पुष्पाणि आनेतव्यानि ' इत्येवंरूपं एकस्मिन्नेव समये एकं ज्ञानं सम्भवति । अत्र भगवत्त्वावच्छिन्नविशेष्यता पुष्पत्वावच्छिन्नविशेष्यता चेत्येवं नानाविशेष्यता ५४

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106