Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
कूपदृष्टान्तविशदीकरणं
यशो.: अथ कथं स्वरूपेण सदोषमप्यारम्भिणो गुणायेत्याह- 'सुहभावहेउओ 'त्ति लुप्तभावप्रत्ययत्वेन निर्देशस्य, शुभभावहेतुत्वात् = प्रशस्तभावनिबन्धनत्वाज्जिनपूजार्थस्नानादेः,
2103.: लुप्तभावप्रत्ययत्वेन निर्देशस्य इति । पञ्चाशकगाथायां सुहभावहेउओ इति निर्देशोऽस्ति । ततश्च 'शुभभावहेतुत:' इति हेतुर्भवति । स च न युक्तः, अतो वृत्तिकारेणोक्तं प्रकृतनिर्देशे 'त्व' रूपो भावप्रत्ययो लुप्तो दृष्टव्यः, ततश्च 'शुभभावहेतुत्वत:' इत्येवं हेतुर्भवति । तथा च → आरम्भवतो यतनया स्नानादि गुणकरं शुभभावहेतुत्वात् ← इत्यनुमानमापन्नम्।
ननु निर्देशो लुप्तभावप्रत्ययो किमर्थं गृह्यते, इति चेत् अनुमानप्रयोगे हेतुः पक्षे विद्यत इति नियमः । यदि च‘शुभभावहेतुतः' इति हेतुः गृह्यते, तर्हि स्नानादिरूपः पक्ष एव शुभभावहेतुरस्ति । न तु स्नानादिरूपे पक्षे शुभभावहेतुः विद्यत इति पक्षे हेत्वभावरूपः स्वरूपासिद्धिर्दोष आपद्यते । तस्मात् अत्र निर्देशो लुप्तभावप्रत्ययो गृहीतः। शुभभावहेतुत्वं तु स्नानादिरूपे पक्षे विद्यत एवेति स्वरूपासिद्धिर्न भवति।
पूजार्थस्नानादि शुभभावहेतुरस्ति,
ततः पूजार्थस्नानादौ शुभभावहेतुत्वमस्ति, किन्तु पूजार्थस्नानादौ शुभभावहेतुर्नास्ति,
तस्मात् निर्देशो लुप्तभावप्रत्ययो गृहीत इति सारः ।
यशो. : अनुभवन्ति च केचित्स्नानपूर्वकं जिनार्चनं विदधानाः शुभभावमिति । खलुर्वाक्यालङ्कारे, विज्ञेयं ज्ञातव्यम्। अथ गुणकरत्वमस्य शुभभावहेतुत्वात्कथमिव ज्ञेयमित्याह- कूपज्ञातेन अवटोदाहरणेन ।
=
चन्द्र. : ननु स्नानादिकं शुभभावहेतुर्भवति इत्येतदसङ्गतमिति शङ्कायामाह - अनुभवन्ति च केचित् .... स्नानं विना जिनार्चने यादृशो भावः, तदधिकं भावं स्नानपूर्वकं जिनार्चनं विदधानाः केचिदनुभवन्तीति स्नानादिकस्य शुभभावहेतुत्वं सिद्धम् ।
=
यशो. : इह चैवं साधनप्रयोग: 'गुणकरमधिकारिणः किञ्चित्सदोषमपि स्नानादि, विशिष्टशुभभावहेतुत्वाद्, यद् विशिष्टशुभभावहेतुभूतं तद् गुणकरं दृष्टं यथा कूपखननं, विशिष्टशुभभावहेतुश्च यतनया स्नानादि, ततो गुणकरमिति । कूपखननपक्षे शुभभावः तृष्णादिव्युदासेनाऽऽनन्दाद्यवाप्तिरिति ।
थन्द्र.: साधनप्रयोगः = अनुमानप्रयोगः,
गुणकरमित्यादि ।
अधिकारिणः किञ्चित्सदोषमपि स्नानादि इति पक्षः ।
गुणकरम् = पुण्यबन्धकारणम् इति साध्यनिर्देशः, साध्यं तु गुणकरत्वम्
૧૯

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106