Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 37
________________ कूपदृष्टान्तविशदीकरणं यत्तु 'एक एव दण्डो विरुद्धमपि कार्यद्वयं करोति' इत्यादि उक्तम्, तत्र प्रथमं तु पूर्वपक्षस्येयमेवापत्तिः, यदुत एवं सति एकमेव जिनपूजादिकं एकत्र मोक्षं अन्यत्र च नरकं साधयतीति वक्तव्यं स्यात्, न चैतत्पूर्वपक्षस्यापीष्टम्। तस्मात् ‘सामान्यकारणात् कार्यवैषम्यं नैव' इत्येवमेव मन्तव्यम्। भवता यत् एकेनैव दण्डेन विरोधि कार्यद्वयं उच्यते तदपि तुच्छम् । यस्मात् न केवलं दण्ड एव कारणम्, अपि तु चक्रभ्रमणादिकमपि । ततश्च यत्र चक्रभ्रमणादिकं तत्र दण्डो घटमुत्पादयति, यत्र च हस्तेन घटे प्रतिघातक्रिया तत्र दण्डो घटं ध्वंसयति । एवं च चक्रभ्रमणप्रतिघाताभ्यां परस्परं विभिन्नाभ्यां एव कारणाभ्यां विषमं कार्यद्वयं दृश्यते । प्रस्तुतेऽपि प्रथमसूत्रे तृतीयसूत्रे च प्राणातिपातादिकं भवतु नाम सदृशं, परन्तु प्रथमसूत्रे जिनगुणसाधुगुणपक्षपातादिविशेषणयुक्तं प्राणातिपातादिकं, तृतीये तु न तथा इति कारणभेदात् प्रथमसूत्रे सापेक्षमल्पायुष्कं, तृतीये तु अशुभदीर्घायुष्कं इति कार्यवैषम्यमिति न कोऽपि दोष इत्यलमतिविस्तरेण। अत्र स्थानाङ्गवृत्तिगतं व्याख्यानं दृष्ट्वा भवतीयमाशङ्का - ननु अत्र वृत्तौ 'न हि स्वल्पपाप... तथात्वप्रसङगात्' इति यत्प्रतिपादितम्, तेन तु ज्ञायते यदुतात्रापि 'जिनपूजादिकं स्वल्पपापबहुनिर्जराकारणं' इति। तत्र च स्वल्पपापं तु जलादिविराधनाजन्यमेवेति अभयदेवसूरिणा बाह्यविराधनातोऽपि स्वल्पपापबन्धः प्रतिपादित एव ← इति । महोपाध्याया एनामाशङ्कां मनसिकृत्वैव समादधति - एतेन = ' विधिसामग्ग्रे तु स्वल्पमपि पापं वक्तुमशक्यमेव' इति यत् प्राक्प्रसाधितं, तेन इति व्याख्यानेऽपि अभयदेवसूरिकृते स्थानाङ्गव्याख्यानेऽपि, न केवलं चतुर्थपञ्चाशकवृत्तावेवेत्यपिशब्दार्थः, विधिवैकल्यवत्येव न तु विधिसम्पूर्णाऽपीति एवकारार्थः। जिनपूजा ग्राह्या इति द्रष्टव्यम्। अयं भावः महोपाध्यायानाम्। विधिसम्पूर्णायां जिनपूजायां स्वल्पोऽपि पापबन्धो नास्त्येव, विधिविकलायां तु भक्तियुतायां जिनपूजायां विधिवैकल्यात्स्वल्पः पापबन्धः, भक्तिप्रभावादधिकतरा पापनिर्जरेति पूर्वं — यतनाविशेषेण प्रवर्तमानस्य सर्वथाऽपि कायवधो न भवति' इत्यादि पञ्चाशकवृत्त्यनुसारेण प्रसाधितम्। स एव वृत्तिकारः स्थानाङ्गवृत्तौ — जिनपूजाद्यनुष्ठानं स्वल्पपापबहुनिर्जराकारणं' इति स्पष्टमेव स्वीकरोति । तत्र च जिनपूजादिकं किं विधिविकलं ग्राह्यं ? किं वा विधिसहितम् ? इति प्रश्नः । महोपाध्याया वदन्ति → चतुर्थपञ्चाशकवत् अस्मिन्व्याख्यानेऽपि विधिवैकल्यवत्येव जिनपूजा ग्राह्या, यदि विधिसहिता गृह्येत, तर्हि स्वल्पपापबन्धकारणं नैव स्यादिति प्रागेव प्रतिपादितम्। ३६

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106